Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 5.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 5.10.1

तद्य इत्थं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाँस्तान् ॥ ५.१०.१ ॥

如此知晓者,以及在林中以信与苦行而修习者,到达火焰;从火焰到白昼,从白昼到白半月,从白半月到太阳北行的六个月。

Chāndogya 5.10.2

मासेभ्यः संवत्सरँ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ ५.१०.२ ॥

从月到年,从年到太阳,从太阳到月亮,从月亮到闪电。那里有一位非人的神人,引导他们到达梵。这就是诸神之路(天道,devayāna)。

Chāndogya 5.10.3

अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिँ रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासाँस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५.१०.३ ॥

那些在村中崇拜祭祀、功德与布施(iṣṭa、pūrta、datta)的人,会抵达烟;从烟到夜,从夜到下弦半月,从下弦半月到向南行的六个月。这些人到不了一年。

Chāndogya 5.10.4

मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ५.१०.४ ॥

从月到祖先之界,从祖先之界到虚空,从虚空到月亮。此月神苏摩即是王;它是诸神的食物,诸神食之。

Chāndogya 5.10.5

तस्मिन्यवात्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५.१०.५ ॥

在彼处停留,直至其余留的业果耗尽,然后便沿着来时的同一条路返回,如其所来:从虚空到风;成为风之后,成为烟;成为烟之后,成为云。

Chāndogya 5.10.6

अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५.१०.६ ॥

水汽成为云,成云则降雨。于是此处生出稻、麦、草药、树木、芝麻与豆类。因此实在难以逃脱:凡食用食物、凡泄出精液者,又再变成那样。

Chāndogya 5.10.7

तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ५.१०.७ ॥

此世行为可爱的人,很快会进入可爱的胎藏——婆罗门、刹帝利或吠舍的胎。而此世行为卑劣的人,很快会进入卑劣的胎藏——狗、猪或旃陀罗的胎。

Chāndogya 5.10.8

अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयँस्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ५.१०.८ ॥

二道皆非。这些卑微的众生一再轮回:“生,死”——这是第三种状态。那个世界因此无法充满。所以人应当厌离它。关于此,有这样一颂。

Chāndogya 5.10.9

स्तेनो हिरण्यस्य सुरां पिबँश्च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाचरँस्तैरिति ॥ ५.१०.९ ॥

窃取黄金者、饮酒者、睡在师长床上者、杀害婆罗门者——这四种人堕落;第五种是与他们相处者。

Chāndogya 5.10.10

अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ ५.१०.१० ॥

知此五火如此者,即使与之同行(作业),也不被罪恶所染;他变得清净、纯洁,并得到功德之界。如此知者,如此知者。