Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 5.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 5.3.1

श्वेतकेतुर्हारुणेयः पञ्चालानाँ समितिमेयाय तँ ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति ॥ ५.३.१ ॥

阿arun之子白光(Śvetaketu)来到般遮罗人的集会。遮婆罗之子波罗婆诃那对他说:“年轻人,你的父亲教导过你吗?”他回答:“是的,先生。”

Chāndogya 5.3.2

वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति न भगव इति ॥ ५.३.२ ॥

“你知道众生从此处如何离去吗?”“不知道,先生。”“你知道他们如何再度返回吗?”“不知道,先生。”“你知道天道与祖道这两条道路的分界吗?”“不知道,先生。”

Chāndogya 5.3.3

वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ५.३.३ ॥

“你知道那个世界为何不会满溢吗?”“不知道,先生。”“你知道在第五次献祭中,水如何变得具有人的语言吗?”“确实不知道,先生。”

Chāndogya 5.3.4

अथानु किमनुशिष्ठोऽवोचथा यो हीमानि न विद्यात्कथँ सोऽनुशिष्टो ब्रुवीतेति स हायस्तः पितुरर्धमेयाय तँ होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाशिषमिति ॥ ५.३.४ ॥

“那你为何说你已受过教导?不知道这些的人,即便受过教导,又怎能如此说话?”于是他沮丧地走到父亲那里的半途,对父亲说:“先生,您在未曾教导我之前就说过:‘我要教导你。’”

Chāndogya 5.3.5

पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकञ्चनाशकं विवक्तुमिति स होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकञ्चन वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५.३.५ ॥

一位刹帝利族的亲属向我提出了五个问题,我一个也答不上来。他说:正如你不能回答它们,我也一个都不知道。如果我知道,我怎会不告诉你呢?

Chāndogya 5.3.6

स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हाञ्चकार स ह प्रातः सभाग उदेयाय तँ होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ५.३.६ ॥

于是乔达摩走了半路去见国王。他到达后,国王以礼相待。次日早晨,他上到议事堂,国王对他说:尊敬的乔达摩,请从人间的财富中选择一项恩惠。乔达摩说:国王啊,人间的财富仍归你所有;只请告诉我你最后对那孩子所说的那句话。于是他感到困惑。

Chāndogya 5.3.7

तँ ह चिरं वसेत्याज्ञापयाञ्चकार तँ होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ५.३.७ ॥

国王命他长期留下。随后对他说:乔达摩,正如你所说,这门知识以前从你这里传给婆罗门从未有过。因此在一切世界中,统治权都只属于刹帝利。于是他便把这些告诉了他。