Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 8.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 8.6.1

अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८.६.१ ॥

心脏的这些脉络呈现为赭黄、细微、白、深蓝、黄和红色。那太阳是赭黄色;这是白色,这是深蓝,这是黄色,这是红色。

Chāndogya 8.6.2

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ ८.६.२ ॥

就像一条宽广的大路通向两个村庄——这个和那个——同样,太阳的这些光线通向两个世界,这一个和那一个。它们从那太阳延伸出来;流经这些脉络,从这些脉络扩散开来,并且仍然与那太阳相连。

Chāndogya 8.6.3

तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ८.६.३ ॥

当他入睡,完全宁静安详,不知梦境时,他便已进入这些脉络。那时没有任何恶来触及他,因为那时他已充满光明。

Chāndogya 8.6.4

अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ८.६.४ ॥

此后,当此人被虚弱所困、被人抬走时,围坐在他周围的人说:

Chāndogya 8.6.5

अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८.६.५ ॥

此后,当他离开此身时,便沿着这些光线向上升去。他念诵“唵”而上行;心能抛到多远,他便能到达太阳多远。这确实是诸世界之门:对知者是入口,对不知者则是阻碍。

Chāndogya 8.6.6

तदेष श्लोकः। शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८.६.६ ॥

这里有一颂:心脏有一百零一条脉络;其中一条通向头顶。沿着它向上行去的人便得不死;其余的则向各方延伸,它们在离去之时出现,在离去之时出现。