Vedyatra वेदयात्रा
検索

ウパニシャッド · Kauṣītaki 1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

Kauṣītaki 1.1

चित्रो ह वै गार्ग्यायणिर्यक्षमाण आरुणिं वव्रे स ह पुत्रं श्वेतकेतुं प्रजिघाय याजयेति । तं हासीनं पप्रच्छ गौतमस्य पुत्रास्ते संवृतं लोके यस्मिन्माधास्यस्यन्यमुताहो बॊद्ध्वा तस्य लोके धास्यसीति । स होवाच नाहमेतद्वेद हन्ताचार्यं पृच्छानीति । स ह पितरमासाद्य पप्रच्छेतीति मा प्राक्षीत्कथं प्रतिब्रवाणीति । स होवाचाहमप्येतन्न वेद सदस्येव वयं स्वाध्यायमधीत्य हरामहे यन्नः परे ददत्येह्युभौ गमिष्याव इति । स ह समित्पाणिश्चित्रं गार्ग्यायणिं प्रतिचक्रम उपायानीति तं होवाच ब्रह्मार्होसि गौतम यो मामुपागा एहि त्वा ज्ञपयिष्यामीति ॥ १.१ ॥

Citra Gārgyāyaṇi は祭祀を行う際に Āruṇi を選び、息子の Śvetaketu を「行って彼に祭祀を執り行わせよ」と遣わした。そこに座っていた彼に Citra は問うた。「Gautama の息子よ、お前が私や他の者を置くであろうその世界は隠されている。お前はそれを知っているか。」彼は言った。「私はそれを知りません。では、師に尋ねましょう。」彼は父のもとへ行き尋ねた。「彼は私に問いました。どう答えればよいでしょうか。」父は言った。「私も知らない。集会では、ヴェーダを学んで他人が与えるものを受け取るだけだ。さあ、二人で行こう。」彼は手に薪を持って Citra Gārgyāyaṇi に近づいた。「あなたのもとに来ました。」Citra は彼に言った。「Gautama よ、私のもとに来たお前は梵の知識にふさわしい。来なさい、私がそれを知らせよう。」

Kauṣītaki 1.2

स होवाच ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति । तेषां प्राणैः पूर्वपक्ष आप्यायते । अथापरपक्षे न प्रजनयति । एतद्वै स्वर्गस्य लोकस्य द्वारं यश्चन्द्रमास्तं यत्प्रत्याह तमतिसृजतेऽथ य एनं प्रत्याहतमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा परश्वा वा पुरुषो वान्यो वैतेषु स्थानेषु प्रत्याजायते यथाकर्म यथाविद्यम् । तमागतं पृच्छति कोऽसीति तं प्रतिब्रूयाद्विचक्षणादृतवो रेत आभृतं पञ्चदशात्प्रसूतात्पित्र्यावतस्तन्मा पुंसि कर्तर्येरयध्वं पुंसा कर्त्रा मातरि मा निषिक्तः स जायमान उपजायमानो द्वादश त्रयोदश उपमासो द्वादशत्रयोदशेन पित्रा सन्तद्विदेहं तन्म ऋतवो मर्त्यव आरभध्वम् । तेन सत्येन तपसर्तुरस्म्यार्तवोऽस्मि कोऽसि त्वमस्मीति तमतिसृजते ॥ १.२ ॥

彼は言った。この世から去る者は皆、月へ行く。彼らの気息によって月は白分に養われ、黒分では彼らを生み出さない。これこそ天界の門、すなわちその月である。それが拒む者は、解き放たれる。そして雨となってここに降る者は、ここで虫、蛾、鳥、虎、獅子、魚、斧、あるいは人、あるいは他の何かとして、その行為と知識に応じてこれらの場所に再び生まれる。彼が来ると、「お前は誰か」と問われる。彼はこう答えるべきである。「賢明な父によってもたらされた種子として、十五日目から生じた私を、季節たちが男と行為者へ送りますように。男と行為者によって、私が母の中に注がれますように。」生まれ、生じ、十二あるいは十三の月とともに、父によって十二あるいは十三とともに、彼はその身体となる。季節たちが私のために死すべき者を始めますように。その真実と苦行によって私は季節であり、季節に属する者である。お前は誰か。「私はそれである」と言うことで、彼は解き放たれる。

Kauṣītaki 1.3

स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकं तस्य ह वा एतस्य ब्रह्मलोकस्यारोहृदो मुहूर्तॊऽन्वेष्टिहा विरजा नदील्यो वृक्षः सालज्यं संस्थानमपराजितमायतनमिन्द्रप्रजापती द्वारगोपौ । विभुप्रमितं विचक्षणाऽऽसन्द्यमितौजाः पर्यङ्कः प्रिया च मानसी प्रतिरूपा च चाक्षुषी पुष्पाण्यावयतौ वै च जगान्यम्बाश्चाम्बावयवीश्चाप्सरसः । अम्बया नद्यस्तमित्थंविदागच्छति तं ब्रह्मा हाभिधावत मम यशसा विजरां वा अयं नदीं प्रापन्न वा अयं जरयिष्यतीति ॥ १.३ ॥

この神々の道に至ると、彼はアグニの世界に来、ヴァーユの世界、ヴァルナの世界、太陽の世界、インドラの世界、プラジャーパティの世界、そしてブラフマンの世界に来る。そのブラフマンの世界には「アーローハルダ」という湖があり、一瞬で渡られる。アンヴェシュティハーとヴィラジャー川、イリヤーの木、サーラジャの住処、征服されぬ館があり、インドラとプラジャーパティが二人の門番である。ヴィブプラミタとヴィチャクシャナーは座席であり、パラマウジャーは寝台である。プリヤーとマーナシー、プラティルーパーとチャークシュシーは二人の織り手であり、花々、ジャガーン、母たち、アンバーヴァヤヴィーと天女たちがいる。アンバーによって川がある。このように知る者はそこに至る。ブラフマーが彼に駆け寄って言う。「私の栄光によって、この者は老いない川に至った。彼は老いないであろう。」

Kauṣītaki 1.4

तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं चूर्णहस्ताः शतं फलहस्ताः शतमाञ्जनहस्ताः शतं माल्याहस्ताः ब्रह्मालङ्कारेणालङ्कुर्वन्ति स ब्रह्मालङ्कारेणालङ्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति स आगच्छत्यारं हृदं तन्मनसात्येति तमित्वा सम्प्रतिविदो मज्जन्ति स आगच्छति मुहूर्तान्येष्टिहांस्तेऽस्मादपद्रवन्ति स आगच्छति विरजां नदीं तां मनसैवात्येति । तत्सुकृतदुष्कृते धूनुते । तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन धावयन्रथचक्रे पर्यवेक्षत, एवमहोरात्रे पर्यवेक्षत एवं सुकृतदुष्कृते सर्वाणि च द्वन्द्वानि स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान्ब्रह्मैवाभिप्रैति ॥ १.४ ॥

五百のアプサラスたちが彼に駆け寄る——百人は粉を手に、百人は果実を手に、百人は眼墨を手に、百人は花環を手に——ブラフマンの飾りで彼を飾る。ブラフマンの飾りで飾られ、ブラフマンを知る者はただブラフマンへと向かう。彼はアーラの湖に至り、心によってのみそれを渡る。彼を知る者たちがそこで沐浴する。彼は刹那を過ぎてアンヴェシュティハーのもとに至り、彼女らは彼から逃げ去る。彼はヴィラジャー川に至り、心によってのみそれを渡る。すると彼は善と悪を振り払う。愛しい親族は彼の善を受け取り、疎い者は彼の悪を受け取る。戦車で走る者が車輪を見るように、彼は昼と夜を見る。このように善と悪、すべての対立の組を見る。善と悪を超えて、ブラフマンを知る者はただブラフマンへと向かう。

Kauṣītaki 1.5

स आगच्छतील्यं वृक्षं तं ब्रह्मगन्धः प्रविशति, स आगच्छति सालज्यं संस्थानं तं ब्रह्मरसः प्रविशति, आगच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति स आगच्छति । इन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः स आगच्छति विभुप्रमितं तं ब्रह्मयशः प्रविशति स आगच्छति विचक्षणामासन्दीं बृहद्रथन्तरे सामनी पूर्वौ पादौ श्यैत नौधसे चापरौ वैरूपवैराजे अनूच्येते शाक्वररैवते तिरश्ची सा प्रज्ञा प्रज्ञया हि विपश्यति स आगच्छ्त्यमितौजसं पर्यङ्कं स प्राणस्तस्य भूतं च भविष्यच्च पूर्वौ पादौ श्रीश्चेरा चापरौ बृहद्रथन्तरे अनूच्ये भद्रयज्ञायज्ञीये शीर्षण्यमृचश्च सामानि च प्राचीनातानानि यजूंषि तिरश्चीनानि सोमांशव उपस्तरणमुद्गीथ उपश्रीः श्रीरुपबर्हणं तस्मिन्ब्रह्मास्ते तमित्थंवित्पादेनैवाग्र आरोहति । तं ब्रह्माह कोऽसीति तं प्रतिब्रूयात् ॥ १.५ ॥

彼はイリヤの木に至り、ブラフマンの香りが彼に入る。サーラジャの場所に至り、ブラフマンの精髄が彼に入る。無敵の住処に至り、ブラフマンの輝きが彼に入る。彼は進む。門番であるインドラとプラジャーパティは彼から逃げ去る。彼は進む。遍在する者によって量られたブラフマンの栄光が彼に入る。彼はヴィチャクシャナーと呼ばれる座に至る。ブリハットとラタンタラの歌が前の足であり、ナウダサのものである。後ろの足はヴァイルーパとヴァイラージのものである。シャークヴァラとライヴァタは横に唱えられる。その知は横のものである。知によって人は明らかに見るからである。彼は無限の力の寝台、すなわち息に至る。その過去と未来が前の足、栄光と食物が後ろの足である。ブリハットとラタンタラがその朗誦であり、バドラとヤジュニャーヤジュニーヤがその頭である。韻文と歌は前に伸ばされたもの、祭詞は横のものである。ソーマの分け前がその敷物であり、ウドギータがその近き栄光、栄光がその枕である。その上にブラフマンが座す。このように知る者は足だけで前へ登る。ブラフマンは彼に問う。あなたは誰か。彼は答えるべきである。

Kauṣītaki 1.6

ऋतुरस्म्यार्तवोऽस्म्याकाशाद्योनेः सम्भूतो भार्या एतत्संवत्सरस्य तेजोभूतस्य भूतस्यात्मभूतस्य त्वमात्मासि यस्त्वमसि सोहमस्मीति तमाह कोऽहमस्मीति सत्यमिति ब्रूयात्किं तद्यत्सत्यमिति यदन्यद्देवेभ्यश्च प्राणेभ्यश्च तत्सदथ यद्देवाच्च प्राणाश्च तत्त्यं तदेतया वाचाभिव्याह्रियते सत्यमित्येतावदिदं सर्वमिदं सर्वमसि । इत्येवैनं तदाह । तदेतदृक्श्लोकेनाभ्युक्तं यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः । स ब्रह्मेति हि विज्ञेय ऋषिर्ब्रह्ममयो महानिति ॥ १.६ ॥

私は季節であり、季節に属する者であり、空という胎から生まれた。これは年の妻であり、光輝より成る存在、自己となった存在のものである。あなたは自己である。あなたが何であるか、それが私である。彼に問われる。私は誰か。彼は言うべきである、真実であると。真実とは何か。神々と気息とは異なるものが sat であり、神々と気息から出るものが tyam である。これを言葉によって satyam と言う。これがすべてであり、これらすべてはあなたである。このように彼に告げる。これについて一つのṛc詩節が宣言される。腹はヤジュス、頭はサーマン、形はṛcである不滅の者、彼はブラフマンとして知られるべきであり、ブラフマンより成る偉大な聖者である。

Kauṣītaki 1.7

तमाह केन मे पौंस्रानि नामान्याप्नोतीति प्राणेनेति ब्रूयात् । केन स्त्रीनामानीति वाचेति केन नपुंसकनामानीति मनसेति केन गन्धानिति घ्राणेनेति ब्रूयात् । केन रूपाणीति चक्षुषेति केन शब्दानिति श्रोत्रेणेति केनान्नरसानिति जिह्वयेति केन कर्माणीति हस्ताभ्यामिति केन सुखदुःखे इति शरीरेणेति केनानन्दं रतिं प्रजापतिमित्युपस्थेनेति । केनेत्या इति पादाभ्यामिति केन धियो विज्ञातव्यं कामानिति प्रज्ञयेति ब्रूयात्तमह । आपो वै खलु मे ह्यसावयं ते लोक इति सा या ब्रह्मणॊ जितिर्या व्यष्टिस्तां जितिं जयति तां व्यष्टिं व्यश्नुते य एवं वेद य एवं वेद ॥ १.७ ॥

アジャータシャトルはバーラーキに言った。「何によって彼は私の男性名を得るのか?」と問われたなら、「プラーナ(気息)によって」と答えるべきである。「何によって女性名を?」「言葉(ヴァーチ)によって」。「何によって中性名を?」「意(マナス)によって」。「何によって香りを?」「鼻によって」。「何によって形を?」「眼によって」。「何によって音を?」「耳によって」。「何によって食物の味を?」「舌によって」。「何によって行為を?」「両手によって」。「何によって苦楽を?」「身体によって」。「何によって喜び、歓喜、生主を?」「生殖器によって」。「何によって動きを?」「両足によって」。「何によって知性で知られるべき欲望を?」「智慧(プラジュニャー)によって」。彼にこう言うべきである。「まことに水は私のものである。それがあなたの世界である。」これがブラフマンの勝利であり、これが散布である。このように知る者は、その勝利を獲得し、その散布に至る。このように知る者、このように知る者。