Vedyatra वेदयात्रा
搜索

奥义书 · Kauṣītaki 3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Kauṣītaki 3.1

प्रतर्दनो ह दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम । युद्धेन च पौरुषेण च तं हेन्द्र उवाच । प्रतर्दन वरं ते ददानीति स होवाच प्रतर्दनः । त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस इति तं हेन्द्र उवाच । न वै वरोऽवरस्मै वृणीते त्वमेव वृणीष्वेत्येवमरो वै किल म इति होवाच प्रतर्दनोऽथो खल्विन्द्रः सत्यादेव नेयाय । सत्यं हीन्द्रः स होवाच । मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्ये । यन्मां विजानीयात् । त्रिशीर्षाणं त्वाष्ट्रमहनमवाङ्मुखान्यतीन्सालावृकेभ्यः प्रायच्छं बह्वीः सन्धा अतिक्रम्य दिवि प्रह्लादीयानतृणमहमन्तरिक्षे पौलोमान्पृथिव्यां कालखाञ्जान् । तस्य मे तत्र न लोम च मामीयते । स यो मां विजानीयान्नास्य केन च कर्मणा लोको मीयते । न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणहत्यया नास्य पापं च न चकृषो मुखान्नीलं वेत्तीति ॥ ३.१ ॥

迪沃达萨之子普拉塔尔达那凭借战斗与男子气概来到因陀罗可爱的居所。因陀罗对他说:“普拉塔尔达那,我将赐你一个恩惠。”普拉塔尔达那说:“你自己为我选择你认为对人最有益的吧。”因陀罗对他说:“选择恩惠的人不会为低于自己的人选择;你自己选吧。”普拉塔尔达那说:“好吧,就为我选那个。”于是因陀罗没有背离真理,因为因陀罗就是真理。他说:“只要认识我;我认为对人最有益的,就是让他认识我。我杀死了三头的特瓦什特里之子;把头朝下的苦行者交给豺狼;越过许多盟约,我在天上碾碎了普拉赫拉达,在虚空中碾碎了普洛曼,在大地上碾碎了卡拉康寒,使其不留草木。他们之中没有一根我的毛发受损。认识我的人,他的世界不会因任何行为而减损:不因杀母,不因杀父,不因偷盗,不因杀胎。罪恶不沾染他,污点也不落在他的脸上。”

Kauṣītaki 3.2

स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व । आयुः प्राणः प्राणो वा आयुः प्राण एवाचामृतम् । यावद्ध्यस्मिञ्छरीरे प्राणो वसति तावदायुः । प्राणेन ह्येवामुष्मिंल्लोकेऽमृतत्वमाप्नोति । प्रज्ञया सत्यसङ्कल्पं स यो ममायुरमृतमित्युपास्ते सर्वमायुरस्मिंल्लोक एति । आप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके । तद्धैक आहुरेकभूयं वै प्राणा गच्छन्तीति । न हि कश्चन शक्नुयात्सकृद्वाचा नाम प्रज्ञापयितुं चक्षुषा रूपं श्रोत्रेण शब्दं मनसा ध्यानमित्येकभूयं वै प्राणाः । एकैकमेतानि सर्वाण्येव प्रज्ञापयन्ति । वाचं वदन्ती सर्वे प्राणा अनुवदन्ति । चक्षुः पश्यत्सर्वे प्राणा अनुपश्यन्ति श्रोत्रं शृण्वत्सर्वे प्राणा अनुशृण्वन्ति मनो ध्यायत्सर्वे प्राणा अनुध्यायन्ति प्राणं प्राणन्तं सर्वे प्राणा अनुप्राणन्तीति । एवमुहैवैतदिति हेन्द्र उवाच । अस्तीत्येव प्राणानां निःश्रेयसादानमिति ॥ ३.२ ॥

他说:“我是prāṇa,以意识为ātman。应当将我当作生命与不死来观想。生命即是prāṇa,prāṇa即是生命;prāṇa实为不死。只要prāṇa住在此身中,便有生命。唯凭prāṇa,才能在彼世获得不死。若有人以智慧与真实的决心观想我为‘我的生命、我的不死’,他便在此世获得完整的寿命,并在天界获得不坏的不死。”有人说:“诸prāṇa合为一体而去。”然而没有人能同时以言语说出名字,以眼见出形色,以耳听出声音,以心念出思想;所以诸prāṇa是一体的。这些各自显示一事,而所有prāṇa都随从每一个。言语在说话时,所有prāṇa都随之;眼睛在看时,所有prāṇa都随之;耳朵在听时,所有prāṇa都随之;心在思考时,所有prāṇa都随之;prāṇa在呼吸时,所有prāṇa都随之。确实如此。因陀罗说:“是的,确实如此。在诸prāṇa中领受至善,正是这样。”

Kauṣītaki 3.3

जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्न इति । एवं हि पश्याम इति । अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योतथापयति । तस्मादेतदेवोऽथमुपासीत । यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः । सह ह्येतावस्मिञ्छरीरे वसतः सहोत्क्रामतस्तस्यैषैव दृष्टिः । एतद्विज्ञानम् । यत्रैतत्पुरुषः सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति । तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति । स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतो सर्वा दिशॊ विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः । तस्यैषैव सिद्धिरेतद्विज्ञानम् । यत्रैतत्पुरुष आर्तो मरिष्यन्नाबल्यं न्येत्य मोहं नैति तदाहुः । उदक्रमीच्चित्तम् । न शृणोति न पश्यति वाचा वदति न ध्यायत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः ॥ ३.३ ॥

我们看到,失去言语的哑者仍然活着;失去视力的盲人仍然活着;失去听力的聋人仍然活着;失去心智的孩童仍然活着;断了手臂的人仍然活着,断了大腿的人仍然活着。我们就是这样看到的。那么,确实只有以觉知为自我(ātman)的生气(prāṇa)抓住这身体并将其支撑起来。因此,应当只观想此事。生气即是觉知,觉知即是生气。这二者共同住于此身,共同离去;这就是他的见解,这就是智慧。当此人入睡而不做任何梦时,生气便唯一地合为一体。于是言语与一切名称一同融入其中,眼与一切形色一同,耳与一切声音一同,意与一切所思之对象一同。当他醒来时,如同燃烧的火焰向四方迸出火星,这样从这个自我(ātman)中,诸生气各自散向其所在之处;从生气产生诸神,从诸神产生诸世界。这就是他的成就,这就是智慧。当此人饱受痛苦、将近死亡,陷入虚弱与昏迷时,人们说:他的心识已经离去。他不听,不看,用言语说话却不思考;此时他之中的生气便唯一地合为一体。于是言语与一切名称一同,眼与一切形色一同,耳与一切声音一同,意与一切所思之对象一同。当他醒来时,如同燃烧的火焰迸出火星,这样从这个自我(ātman)中,诸生气各自散向其所在之处;从生气产生诸神,从诸神产生诸世界。

Kauṣītaki 3.4

स यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति वागस्मात्सर्वाणि नामान्यभिविसृजते सृजते । वाचा सर्वाणि नामान्याप्नोति प्राणोऽस्मात्सर्वान्गन्धानभिविसृजते प्राणेन सर्वान्गन्धानाप्नोति चक्षुरस्मात्सर्वाणि रूपाण्यभिविसृजते चक्षुषा सर्वाणि रूपाण्याप्नोति श्रोत्रमस्मात्सर्वाञ्च्छब्दानभिविसृजते श्रोत्रेण सर्वाञ्च्छब्दानाप्नोति मनोऽस्मात्सर्वाणि ध्यातान्यभिविसृजते मनसा सर्वाणि ध्यातान्याप्नोति सैषा प्राणे सर्वाप्तिः । यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः स ह ह्येतावस्मिञ्च्छरीरे वसतः सहोत्क्रामतः । अथ खलु यथाऽस्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तद्व्याख्यास्यामः ॥ ३.४ ॥

当他离开这个身体时,他与所有这些一同离开。言语从他身上放下所有名称,他通过言语获得所有名称。气息从他身上放下所有气味,他通过气息获得所有气味。眼睛从他身上放下所有形色,他通过眼睛获得所有形色。耳朵从他身上放下所有声音,他通过耳朵获得所有声音。意从他身上放下所有所思之境,他通过意获得所有所思之境。这就是在prāṇa中的全部获得。所谓prāṇa即是prajñā(智慧),所谓prajñā即是prāṇa;这二者共同住在此身中,并一同离去。现在我们将说明,在此prajñā中,一切众生如何合为一体。

Kauṣītaki 3.5

वागेवास्या एकमङ्गमुदूढं तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा । घ्राणमेवास्या एकमङ्गमुदूढं तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षुरेवास्या एकमङ्गमुदूढं तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या एकमङ्गमुदूढं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा जिह्वैवास्या एकमङ्गमुदूढं तस्यान्नरसः परस्तात्प्रतिविहिता भूतमात्रा हस्तावेवास्या एकमङ्गमुदूढं तयोः कर्म परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या एकमङ्गमुदूढं तस्य सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रा उपस्थ एवास्या एकमङ्गमुदूढं तस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता भूतमात्रा पादावेवास्या एकमङ्गमुदूढं तयोरित्या परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या एकमङ्गमुदूढं तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता भूतमात्रा ॥ ३.५ ॥

言语独自是此(识)的一肢,被携带而去;对它而言有名称,被置于其外作为元素分量。嗅觉独自是此的一肢,被携带而去;其气味是被置于其外的元素分量。眼独自是此的一肢,被携带而去;其形色是被置于其外的元素分量。耳独自是此的一肢,被携带而去;其声音是被置于其外的元素分量。舌独自是此的一肢,被携带而去;其饮食之味是被置于其外的元素分量。双手独自是此的一肢,被携带而去;其作为是被置于其外的元素分量。身体独自是此的一肢,被携带而去;其苦乐是被置于其外的元素分量。生殖器独自是此的一肢,被携带而去;其喜悦、欢乐与子嗣是被置于其外的元素分量。双足独自是此的一肢,被携带而去;其行走是被置于其外的元素分量。智慧独自是此的一肢,被携带而去;对它而言有可由思维所知者与欲望,被置于其外作为元素分量。

Kauṣītaki 3.6

प्रज्ञया वाचं समारुह्य वाचा सर्वाणि सामान्याप्नोति । प्रज्ञया प्राणं समारुह्य प्राणेन सर्वान्गन्धानाप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वाञ्च्छब्दानाप्नोति प्रज्ञया जिह्वां समारुह्य जिह्वया सर्वानन्नरसानाप्नोति प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति प्रज्ञया शरीरं समारुह्य शरीरेण सुखदुःखे आप्नोति प्रज्ञयोपस्थं समारुह्योपस्थेनानन्दं रतिं प्रज्ञामाप्नोति प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा इत्या आप्नोति प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामानाप्नोति ॥ ३.६ ॥

借由慧(prajñā),攀升于言语,便借由言语获得一切颂歌(sāman)。借由慧,攀升于气息(prāṇa),便借由气息获得一切气味。借由慧,攀升于眼,便借由眼获得一切色相。借由慧,攀升于耳,便借由耳获得一切声音。借由慧,攀升于舌,便借由舌获得一切食物之味。借由慧,攀升于双手,便借由双手获得一切作业。借由慧,攀升于身体,便借由身体获得苦与乐。借由慧,攀升于生殖器,便借由它获得喜悦与欢愉。借由慧,攀升于双足,便借由双足获得一切行走。借由慧,攀升于智性(dhī)本身,便借由智性获得应当了知的诸欲。

Kauṣītaki 3.7

न हि प्रज्ञापेता वाङ्नाम किञ्चन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतन्नाम प्राज्ञासिषमिति । न हि प्रज्ञापेतः प्राणो गन्धं कञ्चन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं गन्धं प्राज्ञासिषमिति । न हि प्रज्ञापेतं चक्षू रूपं किञ्चन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतद्रूपं प्राज्ञासिषमिति न प्रज्ञापेतं श्रोत्रं शब्दं कञ्चन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतं शब्दं प्राज्ञासिषमिति न हि प्रज्ञापेता जिह्वान्नरसं कञ्चन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतमन्नरसं प्राज्ञासिषमिति न प्रज्ञापेतौ हतौ कर्म किञ्चन प्रज्ञपयेतामन्यत्र मे मनोऽभूदित्याह नाहमेतत्कर्म प्राज्ञासिषमिति न हि प्रज्ञापेतं शरीरं सुखदुःखं किञ्चन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतत्सुखदुःखं प्राज्ञासिषमिति न हि प्रज्ञापेत उपस्थ आनन्दं रतिं प्रजातिं काञ्चन प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह । नाहमेतमानन्दं न रतिं प्रजातिं प्राज्ञासिषमिति न हि प्रज्ञापेतौ पादावित्यां काञ्चन प्रज्ञापयेतामन्यत्र मे मनोऽभूदित्याह । नाहमेतामित्यां प्राज्ञसिषमिति न हि प्रज्ञापेता धीः काचन सिद्ध्येन्न प्रज्ञातव्यं प्रज्ञायेत् ॥ ३.७ ॥

言语,即认知之能,不能使任何名称被认识,它说:'若无我心,我便不会知道这个名称。'气息不能使任何气味被认识,它说:'若无我心,我便不会知道这个气味。'眼睛不能使任何形色被认识,它们说:'若无我心,我们便不会知道这个形色。'耳朵不能使任何声音被认识,它们说:'若无我心,我们便不会知道这个声音。'舌头,即认知之能,不能使任何食物滋味被认识,它说:'若无我心,我便不会知道这个滋味。'双手不能使任何行为被认识,它们说:'若无我心,我们便不会知道这个行为。'身体不能使苦乐被认识,它说:'若无我心,我便不会知道这苦乐。'生殖器不能使喜乐、爱欲或生育被认识,它说:'若无我心,我便不会知道这喜乐、爱欲或生育。'双足不能使任何行走被认识,它们说:'若无我心,我们便不会知道这行走。'因为智性,即认知之能,不能带来任何成就;应当被认识的,并未被认识。

Kauṣītaki 3.8

न वाचं विजिज्ञासीत वक्तारं विद्यान्न गन्धं विजिज्ञासीत घ्रातारं विद्यान्न रूपं विजिज्ञासीत रूपविद्यं विद्यान्न शब्दं विजिज्ञासीत श्रोतारं विद्यान्नान्नरसं विजिज्ञासीतान्नरसविज्ञातारं विद्यान्न कर्म विजिज्ञासीत कर्तारं विद्यान्न सुखदुःखे विजिज्ञासीत सुखदुःखयोर्विज्ञातारं विद्यान्नानन्दं न रतिं न प्रजातिं विजिज्ञासीतानन्दस्य रतेः प्रजातेर्विज्ञातारं विद्यान्नेत्यां विजिज्ञासीतैतारं विद्यात् । न मनो विजिज्ञासीत मन्तारं विद्यात् । ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतं यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युर्यद्वा प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः ॥ ३.८ ॥

不应求知言语,应知说话者。不应求知气味,应知嗅者。不应求知形色,应知识别形色者。不应求知声音,应知听者。不应求知食物之味,应知辨别食味者。不应求知行为,应知行为者。不应求知苦乐,应知辨别苦乐者。不应求知喜乐、欢愉与子嗣,应知辨别喜乐、欢愉与子嗣者。不应求知见之作用,应知见者。不应求知意,应知思者。这些确实是十种与觉知相关的元素之量,以及十种与元素相关的觉知之量;若无元素之量,觉知之量便不存在;若无觉知之量,元素之量也不存在。

Kauṣītaki 3.9

न ह्यन्यतरतो रूपं किञ्चन सिद्ध्येन्नो एतन्नाना तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः । न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् । एष ह्येवैनं साधुकर्म कारयति तं यमेभ्यो लोकेभ्यो उन्निनीषत एष उ एवैनमसाधु कर्म कारयति तं यमधो निनीषते । एष लोकपाल एष लोकाधिपतिरेष सर्वेश्वरः स म आत्मेति विद्यात्स म आत्मेति विद्यात् ॥ ३.९ ॥

并非单凭一物便能成就形色;它是多样的。正如车轮之辋固定于辐条,辐条固定于毂,同样,这些元素之量固定于觉知之量,而觉知之量固定于气息。此气息即是觉知之我,是喜乐、不老、不死者。它不因善行而增,也不因恶行而减。正是此气息使人行善,若它欲将人引向诸界之上;也正是此气息使人行恶,若它欲将人引向下方。此即诸界的守护者,此即诸界的主宰,此即一切的主。应当知道:他是我的自我;应当知道:他是我的自我。