奥义书 · Praśna 5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Praśna 5.1
अथ हैनं शैब्यः सत्यकामः पप्रच्छ ।
स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत ।
कतमं वाव स तेन लोकं जयतीति ।
तस्मै स होवाच ॥ ५.१ ॥
于是希毗之子萨蒂亚卡玛问他:尊者,人中那在临终时冥思音节唵的人,借此赢得何种世界?他对他说道:
Praśna 5.2
एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।
तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ ५.२ ॥
萨蒂亚卡玛啊,这音节唵确实就是上位和下位的梵。因此智者借此同一依托,便得到二者之一。
Praśna 5.3
स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपध्यते ।
तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ ५.३ ॥
若他冥思唵的一个音素(一个mātrā),便因此被认识,迅速在此世间再生。梨俱诗句引他到人类世界;在那里,他具备苦行、梵行与信心,体验到伟大。
Praśna 5.4
अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् ।
स सोमलोके विभुतिमनुभूय पुनरावर्तते ॥ ५.४ ॥
若他以两个音素在心中安定,则夜柔诗句引他穿过虚空至月亮世界。他在月亮世界体验荣耀后,又再度返回。
Praśna 5.5
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः ।
यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरुशयं पुरुषमीक्षते ।
तदेतौ श्लोकौ भवतः ॥ ५.५ ॥
若以三个音节的唵这一单一音节默想那至上之人,他便安立于光明、安立于太阳之中。如蛇脱去其皮,他也脱离罪恶。他借由诸娑摩歌被引向梵界。他从这众生之中,看见那居于身中、高于至高者的人。关于此,有两首颂。
Praśna 5.6
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता
अन्योन्यसक्ताः अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु
सम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥ ५.६ ॥
三个音素,属于死亡,被使用。它们相互关联,不单独使用。当它们在外、内、中的行为中被正确运用时,知者不动摇。
Praśna 5.7
ऋग्भिरेतं यजुर्भिरन्तरिक्षं
सामभिर्यत् तत् कवयो वेदयन्ते ।
तमोङ्कारेणैवायतनेनान्वेति विद्वान्
यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ५.७ ॥
以利克诗句知此,以夜柔诗句知虚空,以娑摩歌知智者所宣示的那一切。知者正是借唵之依托而达到它——那寂静、不老、不死、无畏、至上者。