Vedyatra वेदयात्रा
搜索

奥义书 · Aitareya 1.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Aitareya 1.3.1

स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति ॥ १.३.१ ॥

他思索道:“这些是世界和世界的守护者;我要为它们创造食物。”

Aitareya 1.3.2

सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत । या वै सा मूर्तिरजायतान्नं वै तत् ॥ १.३.२ ॥

他加热诸水;从被加热的水中生出一个形体(mūrti)。所生的那个形体,正是食物(anna)。

Aitareya 1.3.3

तदेनत्सृष्टं पराङ्त्यजिघांसत्तद्वाचाऽजिघृक्षत् तन्नाशक्नोद्वाचा ग्रहीतुम् । स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥ १.३.३ ॥

那被创造之物转身而去,想要离开他;他想用言语抓住它,却不能用言语抓住。若他用言语抓住了它,那么仅仅说话,他便会因食物而满足。

Aitareya 1.3.4

तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत्प्राणेन ग्रहीतुम् । स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत् ॥ १.३.४ ॥

他想以气息(prāṇa)抓住它,却不能以气息抓住它。若他以气息抓住它,他便会对着它呼吸,从而以食物而得饱足。

Aitareya 1.3.5

तच्चक्षुषाऽजिघृक्षत् तन्नाशक्नोच्चक्षुषा ग्रहीतुम् । स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा हैवानमत्रप्स्यत् ॥ १.३.५ ॥

他想以眼睛抓住它,却不能以眼睛抓住它。若他以眼睛抓住它,他便会因看见它而以食物得饱足。

Aitareya 1.3.6

तच्छ्रोत्रेणाजिघृक्षत् तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम् । स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत् ॥ १.३.६ ॥

他想以听觉抓住它,却不能以听觉抓住它。若他以听觉抓住它,他便会因听见它而以食物得饱足。

Aitareya 1.3.7

तत्त्वचाऽजिघृक्षत् तन्नाशक्नोत्त्वचा ग्रहीतुम् । स यद्धैनत्त्वचाऽग्रहैष्यत् स्पृष्ट्वा हैवान्नमत्रप्स्यत् ॥ १.३.७ ॥

他想以皮肤抓住它,却不能以皮肤抓住它。若他以皮肤抓住它,他便会因触摸它而以食物得饱足。

Aitareya 1.3.8

तन्मनसाऽजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुम् । स यद्धैनन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत् ॥ १.३.८ ॥

它想用意念去把握它,却不能用意念把握。若它以意念把握了,仅凭思想便能以食物得到满足。

Aitareya 1.3.9

तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन ग्रहीतुम् । स यद्धैनच्छिश्नेनाग्रहैष्यद्वित्सृज्य हैवानमत्रप्स्यत् ॥ १.३.९ ॥

它想用生殖器去把握它,却不能用生殖器把握。若它以生殖器把握了,便在泄出之后以食物得到满足。

Aitareya 1.3.10

तदपानेनाजिघृक्षत् तदावयत् सैषोऽन्नस्य ग्रहो यद्वायुरनायुर्वा एष यद्वायुः ॥ १.३.१० ॥

它想用下行气(apāna)去把握它,于是它被抓住了。这便是食物的把握,即气息。实则这气息是无生命的。

Aitareya 1.3.11

स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति । स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥ १.३.११ ॥

他思量:「没有我,这又怎能存在?」他思量:「我应经由哪条路进入?」他思量:「若它由言语说出,由气息呼吸,由眼睛所见,由耳朵所闻,由皮肤所触,由意念所思,由下行气呼出,由生殖器排出——那么我是谁?」

Aitareya 1.3.12

स एतमेव सीमानं विदर्यैतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वास्तदेतन्नाऽन्दनम् । तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति ॥ १.३.१२ ॥

他劈开这道缝合处,从此门进入。此门名为 vidṛti,即是 nandana。它有三处居所(āvasatha)和三种梦境状态。「这是一处居所,这是一处居所,这是一处居所。」

Aitareya 1.3.13

स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म ततममपश्यत् । इदमदर्शनमिती ३ ॥ १.३.१३ ॥

他降生后环顾众生:「这里还有谁会说别的?」他看见这位原人即是梵,最为遍在。「我已见此」——ITI。

Aitareya 1.3.14

तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १.३.१४ ॥

因此此名为「伊檀陀罗」(Idaṃdra);实则名为因陀罗。此因陀罗虽即是其自身,却以间接的方式称为「因陀罗」。诸天神喜爱间接之道;诸天神的确喜爱间接之道。