奥义书 · Bṛhadāraṇyaka 3.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Bṛhadāraṇyaka 3.2.1
(आर्तभागब्राह्मणं वा जारत्कारवब्राह्मणम्)
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ ।
याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति ।
अष्टौ ग्रहा अष्टावतिग्रहा इति ।
ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ ३.२.१ ॥
(《阿尔塔跋伽梵书》,或《耆罗迦罗婆梵书》。)于是耆罗迦罗婆·阿尔塔跋伽问他。耶若婆底耶说:“杯(graha)有几个,超杯(atigraha)有几个?”“八杯,八超杯。”“那八杯和八超杯是哪些?”
Bṛhadāraṇyaka 3.2.2
प्राणो वै ग्रहः ।
सोऽपानेनातिग्रहेण गृहीतः ।
प्राणेन हि गन्धाञ्जिघ्रति ॥ ३.२.२ ॥
气息(prāṇa)即是杯(graha)。它被超杯,即下行气(apāna)所执持。因为正是借气息而嗅闻诸香。
Bṛhadāraṇyaka 3.2.3
वाग्वै ग्रहः ।
स नाम्नातिग्रहेण गृहीतः ।
वाचा हि नामान्यभिवदति ॥ ३.२.३ ॥
言语(vāk)即是杯(graha)。它被超杯,即名字(nāman)所执持。因为正是借言语而称说诸名。
Bṛhadāraṇyaka 3.2.4
जिह्वा वै ग्रहः ।
स रसेनातिग्रहेण गृहीतः ।
जिह्वया हि रसान् विजानाति ॥ ३.२.४ ॥
舌确实是一种摄取者(graha)。它被超摄取者——味(rasa)所摄取,因为正是通过舌才认知各种味道。
Bṛhadāraṇyaka 3.2.5
चक्षुर्वै ग्रहः ।
स रूपेणातिग्रहेण गृहीतः ।
चक्षुषा हि रूपाणि पश्यति ॥ ३.२.५ ॥
眼确实是一种摄取者(graha)。它被超摄取者——色(rūpa)所摄取,因为正是通过眼才看见各种形色。
Bṛhadāraṇyaka 3.2.6
श्रोत्रं वै ग्रहः ।
स शब्देनातिग्रहेण गृहीतः ।
श्रोत्रेण हि शब्दाञ्शृणोति ॥ ३.२.६ ॥
耳确实是一种摄取者(graha)。它被超摄取者——声(śabda)所摄取,因为正是通过耳才听见各种声音。
Bṛhadāraṇyaka 3.2.7
मनो वै ग्रहः ।
स कामेनातिग्रहेण गृहीतः ।
मनसा हि कामान् कामयते ॥ ३.२.७ ॥
意确实是一种摄取者(graha)。它被超摄取者——欲(kāma)所摄取,因为正是通过意才产生对欲望之物的渴求。
Bṛhadāraṇyaka 3.2.8
हस्तौ वै ग्रहः ।
स कर्मणातिग्रहेण गृहीतः ।
हस्ताभ्यां हि कर्म करोति ॥ ३.२.८ ॥
手确实是摄取者(graha)。它被行动所摄取,被超摄取者(atigraha)所摄取。因为人以手行动。
Bṛhadāraṇyaka 3.2.9
त्वग्वै ग्रहः ।
स स्पर्शेनातिग्रहेण गृहीतः ।
त्वचा हि स्पर्शान् वेदयत ।
इत्यष्टौ ग्रहा अष्टावतिग्रहाः ॥ ३.२.९ ॥
皮肤确实是摄取者(graha)。它被触觉所摄取,被超摄取者(atigraha)所摄取。因为人通过皮肤感知触碰。因此有八个摄取者和八个超摄取者。
Bṛhadāraṇyaka 3.2.10
याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमिति ।
अग्निर्वै मृत्युः सोऽपामन्नम् ।
अप पुनर्मृत्युं जयति ॥ ३.२.१० ॥
"耶若婆提亚!"他说,"这一切都是死亡之食,那么哪位神灵的食物是死亡?""火确实是死亡;它是水的食物。知此者再次战胜死亡。"
Bṛhadāraṇyaka 3.2.11
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति ।
नेति होवाच याज्ञवल्क्यः ।
अत्रैव समवनीयन्ते ।
स उच्छ्वयति ।
आध्मायति ।
आध्मातो मृतः शेते ॥ ३.२.११ ॥
"耶若婆提亚!"他说,"此人死亡之处,气息(prāṇa)是否从他身上离去?"耶若婆提亚说:"不。""它们在此聚集。他鼓胀起来,膨胀;鼓胀的死者躺着。"
Bṛhadāraṇyaka 3.2.12
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते ।
किमेनं न जहातीति ।
नामेति ।
अनन्तं वै नामानन्ता विश्वे देवाः ।
अनन्तमेव स तेन लोकं जयति ॥ ३.२.१२ ॥
耶若伐尔基耶说:此人死时,什么不离开他?是名字。名字是无尽的,诸天神也是无尽的。他借此赢得无尽的世界。
Bṛhadāraṇyaka 3.2.13
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीति ।
आहर सौम्य हस्तम् आर्तभाग ।
आवामेवैतस्य वेदिष्यावो न नावेतत्सजन इति ।
तौ होत्क्रम्य मन्त्रयां चक्राते ।
तौ ह यदूचतुः कर्म हैव तदूचतुः ।
अथ ह यत्प्रशंसतुः कर्म हैव तत्प्रशशंसतुः ।
पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ।
ततो ह जारत्कारव आर्तभाग उपरराम ॥ ३.२.१३ ॥
耶若伐尔基耶说:当这位死者的言语没入火中,气息没入风中,眼睛没入太阳,意识没入月亮,方位没入耳中,身体没入大地,我(ātman)没入虚空,草木与体毛没入植物,头发没入水中,血与精液被安放——那么此人此时在哪里?温和的阿尔塔巴伽啊,把手拿来。唯有我们二人知道此事;不要在众人面前说。二人走出去商议。他们所说的确是行为,他们所赞美的也确是行为。以善行而成为善人,以恶行而成为恶人。于是耶若伐罗卡之子阿尔塔巴伽沉默了。