奥义书 · Bṛhadāraṇyaka 5.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Bṛhadāraṇyaka 5.14.1
(गायत्रब्रह्मोपासनाब्राह्मणम् )
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५.१४.१ ॥
大地、虚空、天——这是八个音节。加耶特里的一足是八个音节。这正是它的形态。若如此知晓加耶特里的这一足,他便能征服这三界中所有的一切。
Bṛhadāraṇyaka 5.14.2
ऋचो यजूषि सामानीत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ५.१४.२ ॥
诗颂、祭祀祷文与歌咏——这是八个音节。加耶特里的一足是八个音节。这正是它的形态。若如此知晓加耶特里的这一足,他便能征服三明(trayī vidyā)所包含的一切。
Bṛhadāraṇyaka 5.14.3
प्राणोऽपानो व्यान इत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
यद्वै चतुर्थं तत्तुरीयम् ।
दर्शतं पदमिति ददृश इव ह्येषः ।
परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति ।
एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ५.१४.३ ॥
普拉纳、阿帕纳、吠阳纳——这是八个音节。加耶特里的一足是八个音节。这正是它的形态。若如此知晓加耶特里的这一足,他便能征服一切众生。此后是它的第四足,可见之足,超越尘埃(paro-rajā),放光明。第四者即是图里耶(turīya)。“可见之足”意为它仿佛被看见。“超越尘埃”意为它照耀于一切尘埃之上。如此知晓加耶特里此足者,以吉祥与名声而光耀。
Bṛhadāraṇyaka 5.14.4
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता ।
तद्वै तत्सत्ये प्रतिष्ठितम् ।
चक्षुर्वै सत्यम् ।
चक्षुर्हि वै सत्यम् ।
तस्माद्यदिदानीं द्वौ विवदमानावेयातमहमदर्शमहमश्रौषमिति ।
य एवं ब्रूयादहमदर्शमिति ।
तस्मा एव श्रद्दध्याम ।
तद्वै तत्सत्यं बले प्रतिष्ठितम् ।
प्राणो वै बलम् ।
तत्प्राणे प्रतिष्ठितम् ।
तस्मादाहुर्बलं सत्यादोगीय इति ।
एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता ।
सा हैषा गयांस्तत्रे ।
प्राणा वै गयाः ।
तत्प्राणास्तत्रे ।
तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम ।
स यामेवामूं सावित्रीमन्वाहैषैव सा ।
स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५.१४.४ ॥
此加耶特里安立于这第四足,即可见之足,超越尘埃(paro-rajas)。她安立于真实之中。眼睛即是真实,因为眼睛确实是真实。因此,当两人争论而来,一人说“我见到了”,一人说“我听到了”,我们便相信说“我见到了”的人。她安立于力量之中。气息即是力量,而她安立于气息之中。因此人们说力量比真实更大。如此,此加耶特里安立于内在自我(adhyātman)之中。她守护诸“gaya”,即诸气息,因为气息即是诸gaya,它们由她守护。因为她守护诸gaya,故名加耶特里。人所诵的萨维特里即是此同一者。为谁而诵,她便守护那人的气息。
Bṛhadāraṇyaka 5.14.5
तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः ।
वागनुष्टुप् ।
एतद्वाचमनुब्रूम इति ।
न तथा कुर्यात् ।
गायत्रीमेव सावित्रीमानुब्रूयात् ।
यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ ५.१४.५ ॥
有人以阿努什图普格式诵读此萨维特丽,说:“语言即是阿努什图普;我们诵读此语言。”不应如此。应当以伽雅特丽本身来诵读萨维特丽。即使如此知晓的人获得很多,也不及伽雅特丽的一个音步。
Bṛhadāraṇyaka 5.14.6
स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् ।
अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् ।
अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
नैव केन चनाप्यम् ।
कुत उ एतावत्प्रतिगृह्णीयात् ॥ ५.१४.६ ॥
若有人获得这完满的三界,便可得此(伽雅特丽)的第一足。若有人获得与此三明相等的一切,便可得其第二足。若有人获得与这些众生相等的一切,便可得其第三足。此后,其第四足即是可见之足,它在“尘埃之外”照耀。这是任何人都无法达到的。人怎能连这些都获得?
Bṛhadāraṇyaka 5.14.7
तस्या उपस्थानम् ।
गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदि ।
अपदसि ।
न हि पद्यसे ।
नमस्ते तुरीयाय दर्शताय पदाय परोरजसे ।
असावदो मा प्रापदिति ।
यं द्विष्यादसावस्मै कामो मा समर्धीति वा ।
न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते ।
अहमदः प्रापमिति वा ॥ ५.१४.७ ॥
其亲近(礼拜)之法是:“啊,伽雅特丽,你是一足、二足、三足、四足;你无足,你不可得。敬礼你那可见的第四足,在尘埃之外。愿那远处者来到我这里。”或者:“愿那欲望降临于我所憎恨的人,或愿我的愿望得以成就。”对于如此礼拜的人,那愿望并不仅仅因此而成就。或者:“愿我得到那远处者。”
Bṛhadāraṇyaka 5.14.8
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथाः ।
अथ कथं हस्तीभूतो वहसीति ।
मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच ।
तस्या अग्निरेव मुखम् ।
यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहति ।
एवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति ॥ ५.१४.८ ॥
毗提诃王遮那迦对布狄拉·阿什瓦塔拉什维说:“你既知伽雅特丽,便说吧。那么,你变成了象,又如何负载它?”他答道:“君王,我们不知其口。”他说:“它的口即是火。正如将大量柴薪投入火中,火便把一切焚尽;同样,如此知晓的人,即使作了许多恶,也都焚尽,变得清净、纯洁、不老、不死。”