Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 1.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 1.1.1

ओमित्येतदक्षरमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १.१.१ ॥

应当修习这个音节,唵(om),即不灭之音。因为歌者正是说着“唵”而歌唱,这便是对它的阐释。

Chāndogya 1.1.2

एषा भूतानां पृथिवी रसः पृथिव्या अपो रसः अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः ॥ १.१.२ ॥

此大地是众生之精华;大地之精华是水;水之精华是草木;草木之精华是人;人之精华是言语;言语之精华是梨俱(ṛk);梨俱之精华是娑摩(sāman);娑摩之精华是优德伽它(udgītha)。

Chāndogya 1.1.3

स एष रसानाꣳ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ १.१.३ ॥

此优德伽它(udgītha)正是诸精华中最精华者,至上、最殊胜,为第八。

Chāndogya 1.1.4

कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ १.१.४ ॥

何者是梨俱?何者是娑摩?何者是夜柔?何者是优德伽它?——如此加以思察。

Chāndogya 1.1.5

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथस्तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १.१.५ ॥

言即是ṛc(歌咏的诗句),气息即是sāman(娑摩歌)。此音节'唵'即是udgītha(高唱)。这是一对:言与气息,ṛc与sāman。

Chāndogya 1.1.6

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सꣳ सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ १.१.६ ॥

此对在音节'唵'中相合。当这对相遇时,它们各自获得对方所愿。

Chāndogya 1.1.7

आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.७ ॥

如此知晓并冥想此音节udgītha的人,必成为满足诸愿者。

Chāndogya 1.1.8

तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.८ ॥

此音节即是允许;凡人所允诺之事,皆只说'唵'。这便是圆满,这便是允许。如此知晓并冥想此音节udgītha的人,必成为满足诸愿者。

Chāndogya 1.1.9

तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमितिशꣳसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ॥ १.१.९ ॥

因此这三明(trayī-vidyā)得以延续。以「唵」发出聆听之召(āśrāvaṇa),以「唵」而诵(śaṃsana),以「唵」高声歌咏为「邬德伽」(udgāna),皆为尊崇此音节,因其伟大与精华。

Chāndogya 1.1.10

तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १.१.१० ॥

因此,知此者与不知此者皆行之。然而明(vidyā)与无明(avidyā)各异;凡以明、以信、以奥义(upaniṣad,秘传之教)所作,唯此更为有力。此即对此音节的进一步阐释。