Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 1.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 1.3.1

अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । उद्यꣳ स्तमो भयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १.३.१ ॥

现在就神性层面而言:应当把那边发光发热的太阳观想为优迦陀(udgītha)。它升起时为众生歌唱。它升起时驱散黑暗与恐惧。如此知晓者,便成为驱散恐惧与黑暗的人。

Chāndogya 1.3.2

समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ १.३.२ ॥

这个与那个确实相同:这个是热的,那个也是热的。人们称这个为“svara”(声),称那个为“pratisvara”(回声)。因此应当把这个和那个观想为优迦陀。

Chāndogya 1.3.3

अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । अथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् । तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ १.३.३ ॥

现在,应当把vyāna(遍布之气)观想为优迦陀。使气息呼出者为prāṇa(生气);使气息吸入者为apāna(下行气)。prāṇa与apāna的交汇处即是vyāna,而vyāna即是言语。因此人在既不呼气也不吸气时发出言语。

Chāndogya 1.3.4

या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ १.३.४ ॥

作为言语的,即是ṛk(颂诗);因此人在既不呼气也不吸气时念诵ṛc。作为ṛk的,即是sāman(歌咏);因此人在既不呼气也不吸气时歌唱sāman。作为sāman的,即是udgītha;因此人在既不呼气也不吸气时唱出udgītha。

Chāndogya 1.3.5

अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानꣳ स्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १.३.५ ॥

因此,其他有力的行为,如钻木取火、快速飞驰之物的运动、拉开坚硬的弓,并非通过屏住呼吸(prāṇa)和屏住呼气(apāna)而完成。因此应当把遍布全身的气息(vyāna)当作udgītha来观想。

Chāndogya 1.3.6

अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षतेऽन्नं थमन्ने हीदꣳ सर्वꣳ स्थितम् ॥ १.३.६ ॥

现在,应当观想udgītha的音节。在'udgītha'中,'ut'是气息(prāṇa),因为依靠气息才能上升。'Gī'是言语(vāk);言语被称为'gir'。'Tha'是食物(anna),因为这一切都安立于食物之中。

Chāndogya 1.3.7

द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थꣳ सामवेद एवोद्यजुर्वेदो गीर्ऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १.३.७ ॥

天空确实是'ut',中空是'gī',大地是'tha'。太阳确实是'ut',风是'gī',火是'stha'。《娑摩吠陀》确实是'ut',《夜柔吠陀》是'gī',《梨俱吠陀》是'stha'。对于如此知晓这些udgītha音节并加以观想的人,言语会挤出乳汁;他成为拥有食物并享用食物的人。

Chāndogya 1.3.8

अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ १.३.८ ॥

现在,应当观想愿望实现(āśīḥ)与兴盛(samṛddhi)的途径。以某个娑摩(sāman)来赞颂时,就应当亲近那同一个娑摩。

Chāndogya 1.3.9

यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ १.३.९ ॥

在某一颂中若有属于某仙人的颂,当赞颂某神时,就应当归依那位神。

Chāndogya 1.3.10

येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तꣳ स्तोममुपधावेत् ॥ १.३.१० ॥

以何韵律赞颂,就应归依那韵律;以何赞歌形式被赞颂,就应归依那赞歌形式。

Chāndogya 1.3.11

यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ १.३.११ ॥

以何方向赞颂,就应归依那方向。

Chāndogya 1.3.12

आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १.३.१२ ॥

最后,亲近自我(ātman),专注于所愿,保持警觉而赞颂;因为人所愿之事,就在近处实现。以何所愿而赞颂,就应以那所愿赞颂。