Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 3.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 3.12.1

गायत्री वा ईदꣳ सर्वं भूतं यदिदं किं च वाग्वै गायत्री वाग्वा इदꣳ सर्वं भूतं गायति च त्रायते च ॥ ३.१२.१ ॥

此处存在的一切,即一切众生,实则都是伽耶特丽。言语即是伽耶特丽,因为这一切、一切众生确实就是言语;它歌唱,也守护。

Chāndogya 3.12.2

या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याꣳहीदꣳसर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ ३.१२.२ ॥

那伽耶特丽实即此大地,而一切众生都安立于此大地之上。无人能超越此者。

Chāndogya 3.12.3

या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३.१२.३ ॥

那大地实即此人身中的此身,因为生命之气(prāṇa)都安立于其中。无人能超越这些。

Chāndogya 3.12.4

यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ३.१२.४ ॥

人之中的这个身体,确实就是那个;人内部的这颗心也是那个,因为诸生气(prāṇa)都安立于其中。这便是它们所不超越的。

Chāndogya 3.12.5

सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ३.१२.५ ॥

此Gāyatrī有四足,分为六种;这已在一首颂(ṛc)中被述说。

Chāndogya 3.12.6

तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३.१२.६ ॥

他的伟大如此;而原人更为伟大。一切众生是他的一足;他的三足是天上的不死者。

Chāndogya 3.12.7

यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ३.१२.७ ॥

那所谓梵(brahman),确实就是这个。人之外的这片虚空,就是人之外的那片虚空。

Chāndogya 3.12.8

अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ३.१२.८ ॥

实际上,这个内在的人就是那虚空(ākāśa);那作为虚空的内在之人,即是它。

Chāndogya 3.12.9

अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णमप्रवर्तिनीꣳश्रियं लभते य एवं वेद ॥ ३.१२.९ ॥

实际上,这是心中的虚空(ākāśa);这是圆满、不溢出的;如此知晓之人,便获得圆满而不衰减的吉祥(śrī)。