奥义书 · Chāndogya 5.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 5.11.1
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाँसां चक्रुः को नु आत्मा किं ब्रह्मेति ॥ ५.११.१ ॥
普拉奇那舍罗·奥波摩尼婆、萨提亚耶若尼·保卢希、因陀罗迪由那·跋罗维耶、阇那·沙尔迦罗乞沙、布弟罗、阿什婆塔罗阿什毗——这些大家主与大吠陀学者聚集商议:“谁是我(atman)?梵是什么?”
Chāndogya 5.11.2
ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तँ हन्ताभ्यागच्छामेति तँ हाभ्याजग्मुः ॥ ५.११.२ ॥
他们互相说:“尊贵的阿卢尼之子优达罗迦如今正在研习这“吠舍瓦那罗”之我。来,我们去见他。”于是他们便前往他那里。
Chāndogya 5.11.3
स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ ५.११.३ ॥
他思忖道:“这些大家主与大学者将向我发问,而我无法对他们一一完全作答。好吧,我还是去教导另一个人吧。”
Chāndogya 5.11.4
तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तँहन्ताभ्यागच्छामेति तँहाभ्याजग्मुः ॥ ५.११.४ ॥
阿湿婆跋提对他们说:“诸位尊者,这位迦叶夷王现在正在冥想这个吠舍婆那罗自我(ātman)。来吧,我们去找他。”他们便来到他跟前。
Chāndogya 5.11.5
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः सञ्जिहान उवाच न मे स्तेनो जनपदे न कर्दर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५.११.५ ॥
他们到达后,他为每人准备了不同的礼物。第二天清晨起身后,他说:“在我的国土中,没有盗贼,没有吝啬之人,没有酗酒者,没有不供奉圣火的人,没有无知者,也没有放纵的男子或女子。那么我怎么可能是一个行祭者呢?尊贵的诸位,我给每位祭司多少财物,就同样给你们多少。请留在此处。”
Chāndogya 5.11.6
ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तँहैव वदेदात्मानमेवेमं वैश्वानरँ सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ ५.११.६ ॥
他们说:“人所为何而行,便应说明那个目的。你现在正冥想这个吠舍婆那罗自我(ātman),请把这正是告诉我们。”
Chāndogya 5.11.7
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयै वैतदुवाच ॥ ५.११.७ ॥
他对他们说:“明天早上我会给你们答复。”于是他们在上午手持薪柴返回。他接受他们为弟子,便说了这些话。