Vedyatra वेदयात्रा
搜索

奥义书 · Maitrāyaṇī 2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Maitrāyaṇī 2.1

अथ भगवाञ्च्हाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज बृहद्रथेक्ष्वाकुवंशध्वजशीर्षात्मजः कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं वा व खल्वात्मा ते कतमो भगवान्वर्ण्य इति तं होवाच इति ॥ २.१ ॥

于是尊者舍迦延那大为欢喜,对国王说:伟大的国王布利诃德罗陀,你是甘蔗王族旗帜之首的王子,你已经圆满了事业;你以摩卢特之名而闻名。这个或那个,究竟是你的自我,尊者应当宣说的?他就这样对他说。

Maitrāyaṇī 2.2

य एषो बाह्यावष्टम्भनेनोर्ध्वमुत्क्रान्तो व्यथमानोऽव्यथमानस्तमः प्रणुदत्येष आत्मेत्याह भगवानथ य एष संप्रसादोऽस्माञ्च्हरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति ॥ २.२ ॥

那通过外在支撑向上升起、先颤抖后不再颤抖、驱散黑暗的,便是我(ātman),尊者如是说。而那从此身站起、到达至上光明、以其自身之形显现的,也是我(ātman),他如是说。这是不死,这是无畏,这就是梵(brahman)。

Maitrāyaṇī 2.3

अथ खल्वियं ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं भगवता मैत्रेयेण व्याख्याताहं ते कथयिष्यामीत्यथापहतपाप्मानस्तिग्मतेजस ऊर्ध्वरेतसो वालखिल्या इति श्रुयन्तेऽथैते प्रजापतिमब्रुवन्भगवञ्शकटमिवाचेतनमिदं शरीरं कस्यैष खल्वीदृशो महिमातीन्द्रियभूतस्य येनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयितास्य को भगवन्नेतदस्माकं ब्रूहीति तान्होवाच ॥ २.३ ॥

现在,国王啊,这梵智——或说一切奥义书之智——已由我们尊贵的弥勒所阐明,我将告诉你。听说无罪、光辉锐利、精液向上的伐罗希利耶(Vālakhilya)曾对生主(Prajāpati)说:“尊者啊,此身如车一般无知。究竟是谁,拥有这种超越感官之存在的伟大,借其力使此身如有知觉般被安立,并由其推动?尊者,请告诉我们。”他便对他们说:

Maitrāyaṇī 2.4

यो ह खलु वाचोपरिस्थः श्रूयते स एव वा एष शुद्धः पूतः शून्यः शान्तो प्राणोऽनीशत्माऽनन्तोऽक्षय्यः स्थिरः शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठत्यनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ते होचुर्भगवन्कथमनेनेदृशेनानिच्च्हेनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति कथमिति तान्होवाच ॥ २.४ ॥

所谓超越言语而立者,这便是清净、洁净、无属性、寂静、生气(prāṇa)、无主宰、我(ātman)、无限、不坏、坚定、永恒、不生、自在、安住于自身的伟大之中的那一位;由他,此身被安立如有知觉一般,他便是其推动者。他们说:“尊者啊,这样一位无欲者,如何使此身被安立如有知觉、而他又是其推动者?如何做到?”他便对他们说:

Maitrāyaṇī 2.5

स वा एष सूक्ष्मोऽग्राह्योऽदृश्यः पुरुषसंज्ञको बुद्धिपूर्वमिहैवावर्ततेंऽशेन सुषुप्तस्यैव बुद्धिपूर्वं निबोधयत्यथ योह खलु वावाइतस्यांशोऽयं यश्चेतनमात्रः प्रतिपूरुषं क्षेत्रज्ञः सण्कल्पाध्यवसायाभिमानलिण्गः प्रजापतिर्विश्वक्षस्तेन चेतनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ते होचुर्भगवन्नीदृशस्य कथमंशेन वर्तनमिति तान्होवाच ॥ २.५ ॥

他是这微妙、不可把握、不可见者,名为补鲁莎(Puruṣa);他带着觉知于此返回。他以自身之一分唤醒深眠者的觉知。而他的那一分,这纯粹的意识,即每个人中的知场者,以意志、决定与自我意识为标志,便是生主(Prajāpati),遍见者;借此意识,此身被安立如有知觉,而他便是其推动者。他们说:“尊者啊,如何依一位这样的存在之一分而住?”他便对他们说:

Maitrāyaṇī 2.6

प्रजापतिर्वा एषोऽग्रेऽतिष्ठत्स नारमतैकः स आत्मनमभिध्यायद्बव्हीः प्रजा असृजत्त अस्यैवात्मप्रबुद्धा अप्राणा स्थाणुरिव तिष्ठमाना अपश्यत्स नारमत सोऽमन्यतैतासं प्रतिबोधनायाभ्यन्तरं प्राविशानीत्यथ स वायुमिवात्मानं कृत्वाभ्यन्तरं प्राविशत्स एको नाविशत्स पञ्चधात्मानं प्रविभज्योच्यते यः प्राणोऽपानः समान उदानो व्यान इति ॥ २.६ ॥

起初,生主独自一人,并不欢喜。他思惟自身,创造了众多生物。从他而生的众生,在自我中觉醒,却无气息,如柱子般伫立。他看见了,仍不欢喜。他想:“我要进入其中唤醒他们。”他化作风,进入内部,却并非独自进入。他将自己分为五种,被称为气息(prāṇa)、下行气(apāna)、平行气(samāna)、上行气(udāna)和遍行气(vyāna)。

Maitrāyaṇī 2.7

अथ योऽयमूर्ध्वमुत्क्रामतीत्येष वाव स प्राणोऽथ योऽयमवाञ्चं संक्रामत्वेष वाव सोऽपानोऽथ योयं स्थविष्ठमन्नधातुमपाने स्थापयत्यणिष्ठं चाण्गेऽण्गे समं नयत्येष वाव स समानोऽथ योऽयं पीताशितमुद्गिरति निगिरतीति चैष वाव स उदानोऽथ येनैताः शिरा अनुव्याप्ता एष वाव स व्यानः ॥ २.७ ॥

向上而出者,即是气息(prāṇa)。向下而行者,即是下行气(apāna)。将食物最粗的精华安置于下行气中,并将最细的精华平均输送到每一肢体者,即是平行气(samāna)。将所饮所食向上呕出、向下吞咽者,即是上行气(udāna)。这些脉管由之遍布四方者,即是遍行气(vyāna)。

Maitrāyaṇī 2.8

अथोपांशुरन्तर्याम्यमिभवत्यन्तर्याममुपांशुमेतयोरन्तराले चौष्ण्यं मासवदौष्ण्यं स पुरुषोऽथ यः पुरुषः सोऽग्निर्वैश्वानरोऽप्यन्यत्राप्युक्तमयमग्निर्वैश्वानरो योऽयमनन्तः पुरुषो येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यदेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥ २.८ ॥

然后,低语(upāṃśu)环绕内制者(antaryāmin),在内制者与低语之间有热,如月份般的热。那就是补鲁莎(puruṣa)。这位补鲁莎就是毗舍那罗火,别处也有所说。这毗舍那罗火就是这无尽的补鲁莎,食物借之而煮熟,所吃之物借之而消化。他的声音便是以双耳掩闭所听到的声音。当他将要离去时,便听不到这声音。

Maitrāyaṇī 2.9

स वा एष पञ्चधात्मानं प्रविभज्य निहितो गुहायां मनोमयः प्राणशरीरो बहुरूपः सत्यसं कल्प आत्मेति स वा एषोऽस्य हृदन्तरे तिष्ठन्नकृतार्थोऽमन्यतार्थानसानि तत्स्वानीमानि भित्त्वोदितः पञ्चभी रश्मिभिर्विषयानत्तीति बुद्धीन्द्रियाणि यानीमान्येतान्यस्य रश्मयः कर्मेन्द्रियाण्यस्य हया रथः शरीरं मनो नियन्ता प्रकृतिमयोस्य प्रतोदनेन खल्वीरितं परिभ्रमतीदं शरीरं चक्रमिव मृते च नेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ॥ २.९ ॥

此即自身,分为五种,安住于洞穴之中,由意所成,以气息为身体,具多种形态,意愿真实,即是自我(ātman)。此即自身,站立于心中,不满足,思惟:“愿我能获得诸境。”因此,他穿透自身的诸门,以五道光而升起,享受感官之境。这些即是知觉之根,是他的光线;行动之根是他的马;身体是车;意是御者;由自然所成的,是他的鞭子。受其鞭打驱策,此身如轮般旋转。当死亡时,此身不会如有意识般留存;而推动它的,正是此人。

Maitrāyaṇī 2.10

स वा एष आत्मेत्यदो वशं नीत इव सितासितैः कर्मफलैरभिभूयमान इव प्रतिशरीरेषु चरत्यव्यक्तत्वात्सूक्ष्मत्वाददृश्यत्वादग्राह्यत्वान्निर्ममत्वा च्चानवस्थोऽकर्ता कर्तेवावस्थितः ॥ २.१० ॥

此自我(ātman)仿佛被白与黑的业果所制服、所支配,在每一个身体中流转。因其不可显现、微细、不可见、不可把握,且无“我所”之念,它虽无定处、非作者,却仿佛作者般安住。

Maitrāyaṇī 2.11

स वा एष शुद्धः स्थिरोऽचलश्चालेपोऽव्यग्रो निःस्पृहः प्रेक्षकवदवस्थितः स्वस्य चरितभुग्गुणमयेन पटेनात्मानमन्तर्धीयावस्थित इत्यवस्थित इति ॥ २.११ ॥

此自我(ātman)清净、坚定、不动、无染、不乱、无欲,如旁观者般安住。作为自身行为果报的享受者,它以由诸德(guṇa)织成的帛幔遮蔽自己,如是安住;如是安住。