奥义书 · Maitrāyaṇī 5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Maitrāyaṇī 5.1
चतुर्थः प्रपाठकः ॥
द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो यश्चासावादित्योऽथ द्वौ वा एतावास्तां पञ्चधा नामान्तर्बहिश्चाहोरात्रे तौ व्यावर्तेते असौ वा आदित्यो बहिरात्मान्तरात्मा प्राणो बहिरात्मा गत्यान्तरात्मनानुमीयते । गतिरित्येवं ह्याह यः कश्चिद्विद्वानपहतपाप्माध्यक्षोऽवदातमनास्तन्निष्ठ आवृत्तचक्षुः सोऽन्तरात्मागत्या बहिरात्मनोऽनुमीयते गतिरित्येवं ह्याहाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो यः पश्यति मां हिरण्यवत्स एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति ॥ ५.१ ॥
第四章。此我以两种方式承载自身:它是气息(prāṇa),也是那太阳。这二者以五种名称,在内与外而存在;昼与夜是它们的交替。那太阳是外我,气息是内我;外我由内我的运动而推知。故说:「运动」。凡智者,无罪,为监察者,心地清净,专注于此,眼睛向内者,即是内我;外我由运动而推知。故说:「运动」。今太阳之中的那金色人,视我如金者,他安住于心中的内莲之中,享用食物。
Maitrāyaṇī 5.2
अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स एषोऽग्निर्दिवि श्रितः सौरः कालाख्योऽदृश्यः सर्वभूतान्नमत्ति कः पुष्करः किमयं वेद वा व तत्पुष्करं योऽयमाकाशोऽस्येमाश्चतस्रो दिशश्चतस्र उपदिशः संस्था अयमर्वागग्निः परत एतौ प्राणादित्यावेतावुपासीतोमित्यक्षरेण व्याहृतिभिः सावित्र्या चेति ॥ ५.२ ॥
现在,那在心中莲花之内安住而食用食物者,这太阳之火名为时(Kāla),居于天上,不可见,食用一切众生之食物。那莲花是什么?谁知道它,或那莲花为何?此虚空——其四方与四隅,是其依托。此火近在此处;其彼岸是这二者,气息与太阳。应以音节「Oṃ」、以语(vyāhṛti)与萨维特丽(Sāvitrī)观想这二者,如是。
Maitrāyaṇī 5.3
द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं चाथ यन्मूर्तं तदसत्यं यदमूर्तं तत्सत्यं तद्ब्रह्म यद्ब्रह्म तज्ज्योतिर्यज्ज्योतिः स आदित्यः स वा एष ओमित्येतदात्मा स त्रेधात्मानं व्यकुरुत ओमिति तिस्रो मात्रा एताभिः सर्वमिदमोतं प्रोतं चैवास्मिन्नित्येवं ह्याहैतद्वा आदित्य ओमित्येवं ध्यायंस्तथात्मानं युञ्जीतेति ॥ ५.३ ॥
梵实有两种形态:有形与无形。有形者不真实,无形者才真实。无形即是梵,梵即是光,光即是太阳。这太阳便是名为唵的自我。它以三种方式显现自身。唵中有三个音素,此一切皆由它们织成、贯穿。因此说,这太阳确实就是唵。如此观想唵,便应与自我相合。
Maitrāyaṇī 5.4
अथान्यत्राप्युक्तमथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसावादित्य उद्गीथ एव प्रणव इत्येवं ह्याहोद्गीथः प्रणवाख्यं प्रणेतारं नामरूपं विगतनिद्रं विजरमविमृत्युं पुनः पञ्चधा ज्ञेयं निहितं गुहायामित्येवं ह्याहोर्ध्वमूलं वा आब्रह्मशाखा आकाशवाय्वग्न्युदकभूम्यादय एकेनात्तमेतद्ब्रह्म तत्तस्यैतत्ते यदसावादित्य ओमित्येतदक्षरस्य चैतत्तस्मादोमित्यनेनैतदुपासीताजस्रमित्येकोऽस्य रसं बोधयीत इत्येवं ह्याहैतदेवाक्षरं पुण्यमेतदेवाक्षरं ज्ज्ञात्वा यो यदिच्छति तस्य तत् ॥ ५.४ ॥
别处也这样说:所谓优陀陀,实即普拉纳瓦;所谓普拉纳瓦,即是优陀陀。那太阳便是优陀陀,它即是普拉纳瓦。故说,名为普拉纳瓦的优陀陀是推动者,超越名与色,不眠、不老、不死;应以五种方式知之,安置于心洞之中。故说:其根在上,枝条延伸至梵天;它被空、风、火、水、地等一并执持。此即是梵。它对你的秘密是:彼处的太阳即是唵,即此音节。因此应当通过唵而恒常冥想,唯一者显示其本质。故说:此不灭的音节确实吉祥。知此音节者,凡有所愿,皆得所愿。
Maitrāyaṇī 5.5
अथान्यत्राप्युक्तं स्तनयत्येपास्य तनूर्या ओमिति स्त्रीपुंनपुंसकमिति लिण्गवत्येषाथाग्निर्वायुरादित्य इति भास्वत्येषाथ रुद्रो विष्णुरित्यधिपतिरित्येषाथ गार्हपत्यो दक्षणाग्निराहवनीय इति मुखवत्येषाथ ऋग्यजुःसामेति विजानात्येषथ भूर्भुवस्वरिति लोकवत्येषाथ भूतं भव्यं भविष्यदिति कालवत्येषाथ प्राणोऽग्निः सूर्यः इति प्रतापवत्येषाथान्नमापश्चन्द्रमा इत्याप्यायनवत्येषाथ बुद्धिर्मनोऽहण्कार इति चेतनवत्येषाथ प्राणोऽपानो व्यान इति प्राणवत्येके त्यजामीत्युक्तैताह प्रस्तोतार्पिता भवतीत्येवं ह्याहैतद्वै सत्यकाम परं चापरं च यदोमित्येतदक्षरमिति ॥ ५.५ ॥
别处也这样说:这是唵之身,它如雷鸣。它具有阴性、阳性与中性之性别。作为火、风、日而光耀;作为楼陀罗、毗湿奴、主宰而显现;作为家火、南火、供火而有口。它知《梨俱》、《夜柔》、《娑摩》。它拥有地、空、天诸界。它拥有过去、现在、未来诸时。作为气息、火、日而具热;作为食物、水、月而具滋养;作为智、心、我慢而具觉知;作为生气、下气、遍气而具呼吸。有人说“我舍弃”,说了这话,这些便被奉献给赞唱者。故说:撒谛迦摩啊,这实是高与低,即是唵;此音节(阿刹罗)。
Maitrāyaṇī 5.6
अथ व्यात्तं वा इदमासीत्सत्यं प्रजापतिस्तपस्तप्त्वा अनुव्याहरद्भूर्भुवःस्वरित्येषा हाथ प्रजापतेः स्थविष्ठा तनूर्वा लोकवतीति स्वरित्यस्याः शिरो नाभिर्भुवो भूः पादा आदित्यश्चक्षुरायत्तः पुरुषस्य महतो मात्राश्चक्षुषा ह्ययं मात्राश्चरिति सत्यं वै चक्षुरक्षिण्युपस्थितो हि पुरुषः सर्वार्थेषु वदत्येतस्माद्भूर्भुवःस्वरित्युपासीतान्नं हि प्रजापतिर्विश्वात्मा विश्वचक्षुरिवोपासितो भवतीत्येवं ह्याहैषा वै प्रजापतिर्विश्वभृत्तनूरेतस्यामिदं सर्वमन्तर्हितमस्मिंश्च सर्वस्मिन्नेषान्तर्हितेति तस्मादेषोपासीतेति ॥ ५.६ ॥
起初,此世界是敞开的。真实的生主(Prajāpati)修行苦行,念诵“bhūr bhuvaḥ svaḥ”。这是生主最为坚实的身体,包含诸世界。svaḥ是他的头,bhuvaḥ是他的肚脐,bhūḥ是他的双足。太阳是他的眼睛,依赖于大补卢沙(puruṣa)的量度,因为这些量度正是借眼睛而运行。真理是眼睛安住于眼睛之中,因为补卢沙在一切事务中都借眼睛言说。因此应当观想“bhūr bhuvaḥ svaḥ”。食物即是生主,被奉为一切的我(ātman)和一切的眼睛。他如是说:这生主便是承载宇宙的身体;一切皆含摄于其中,而它也含摄于一切之中。因此应当观想它。
Maitrāyaṇī 5.7
तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता स वा एवं प्रवरणाय आत्मकामेनेत्याहुर्ब्रह्मवादिनोऽथ भर्गो देवस्य धीमहीति सविता वै तेऽवस्थिता योऽस्य भर्गः कं सञ्चितयामीत्याहुर्ब्रह्मवादिनोऽथ धियो यो नः प्रचोदयादिति बुद्धयो वै धियस्ता योऽस्माकं प्रचोदयादित्याहुर्ब्रह्मवादिनोऽथ भर्ग इति यो ह वा अस्मिन्नादित्ये निहितस्तारकेऽक्षिणि चैष भर्गाख्यो भाभिर्गतिरस्य हीति भर्गो भर्जति वैष भर्ग इति ब्रह्मवादिनोऽथ भर्ग इति भासयतीमाँल्लोकानिति रञ्जयतीमानि भूतानि गच्च्हत इति गच्च्हत्यस्मिन्नागच्च्हत्यस्मा इमाः प्रजास्तस्माद्भारकत्वाद्भर्गः शत्रून्सूयमानत्वात्सूर्यः सव्नात्सविता दानादादित्यः पवनात्पावमानोऽथायोऽथायनादादित्य इत्येवं ह्याह खल्वात्मनात्मामृताख्यश्चेता मन्ता गन्ता स्रष्टा नन्दयिता कर्ता वक्ता रसयिता घ्राता स्पर्शयिता च विभुविग्रहे सन्निष्ठा इत्येवं ह्याहाथ यत्र द्वैतीभूतं विज्ञानं तत्र हि शृणोति पश्यति जिघ्रतीति रसयते चैव स्पर्शयति सर्वमात्मा जानीतेति यत्राद्वैतीभूतं विज्ञानं कार्यकारणनिर्मुक्तं निर्वचनमनौपम्यं निरुपाख्यं किं तदण्ग वाच्यम् ॥ ५.७ ॥
'Tat savitur vareṇyam'——那位彼处的Āditya即是Savitṛ。言梵者说,对于欲求自我(ātman)的人,他是最好的所择。'Bhargo devasya dhīmahi'——那bhargas安住于Savitṛ之中。'Yo naḥ pracodayāt'——智性即是dhiyas,愿它们策动我们。言梵者说,名为bhargas的光明置于此日与眼的瞳孔之中,是其所归。它灼烧,照亮诸世界,令众生喜悦;一切皆入其中,又从其中而来。因承载而为bhargas,因驱动敌人而为sūrya,因驱动而为savitṛ,因施与而为āditya,因净化而为pāvamāna,因运行而为āditya。故说:名为不死的自我,是感知、思维、行走、创造、令喜悦、作为、言说、品尝、嗅闻、触摸者,安住于遍在之身。意识若是二元,则听、见、嗅、尝、触;意识若已不二,脱离因果,无可比拟、不可言说、无可名状,朋友,那又该说什么呢?
Maitrāyaṇī 5.8
एष हि खल्वात्मेशानः शंभुर्भवो रुद्रः प्रजापतिर्विश्वसृड्ढिरण्यगर्भः सत्यं प्राणो हंसः शान्तो विष्णुर्नारायणोऽर्कः सविता धाता सम्राडिन्द्र इन्दुरिति य एष तपत्यग्निना पिहितः सहस्राक्षेण हिरण्मयेनानन्देनैष वाव विजिज्ञासितव्योऽन्वेष्टव्यः सर्वभूतेभ्योऽभयं दत्त्वारण्यं गत्वाथ बहिःकृतेन्द्रियार्थान्स्वशरीरादुपलभतेऽथैनमिति विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ५.८ ॥
此自我实为主宰、Śambhu、Bhava、Rudra、Prajāpati、宇宙的创造者、Hiraṇyagarbha、真理、气息、天鹅、寂静者、Viṣṇu、Nārāyaṇa、太阳、Savitṛ、建立者、至上之王、Indra、月。那被火覆盖、千眼、以金色喜乐照耀者,唯有他值得认知和寻求。向一切众生施以无畏、入于森林,将感官对象转向外部,便在自己的身体中找到他。于是见他为一切形相,赤金色、全知、至高的归宿,唯一放光之明。这千道光芒、以百种方式存在的太阳,作为众生的气息升起。