奥义书 · Maitrāyaṇī 7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Maitrāyaṇī 7.1
अग्निर्गायत्रं त्रिवृद्रथन्तरं वसन्तः प्राणो नक्षत्राणि वसवः पुरस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति अचिन्त्योऽमूर्तो गभीरो गुणभुग्मयोऽनिर्वृत्तिर्योगीश्वरः सर्वज्ञो मेघोऽप्रमेयोऽनाद्यन्तः श्रीमान् अजो धीमाननिर्देश्यः सर्वसृक् सर्वस्यात्मा सर्वभुक् सर्वस्येशानः सर्वस्यान्तरान्तरः ॥ ७.१ ॥
阿耆尼是伽耶特利韵律,三重(颂),罗他恰拉颂,春天,气息,星宿,诸婆薮。它们在东方升起,发热,降雨,赞颂,再次进入,从内部的孔隙中观看。他不可思议,无形,深邃,享受诸德,由幻化而成,不息,瑜伽之主,全知,云,不可量度,无始无终,光荣,不生,智慧,不可言说,一切的创造者,一切的自我,一切的享受者,一切的主宰,一切的最内者。
Maitrāyaṇī 7.2
इन्द्रस्त्रिष्टुप् पञ्चदशो बृहद्ग्रीष्मो व्यानः सोमो रुद्रा दक्षिणत उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेण ईक्षन्ति अनाद्यन्तोऽपरिमितोऽपरिच्छिन्नोऽपरप्रयोज्यः स्वतन्त्रोऽलिङ्गोऽमूर्तोऽनन्तशक्तिर्धाता भास्करः ॥ ७.२ ॥
因陀罗是三颂韵律,十五重(颂),婆利诃特颂,夏天,遍行气,苏摩,楼陀罗。它们在南方升起,发热,降雨,赞颂,再次进入,从内部的孔隙中观看。他无始无终,不可量度,不可分割,不受他者驱使,自在,无相,无形,具无限之力,持者,太阳。
Maitrāyaṇī 7.3
मरुतो जगती सप्तदशो वैरूपम् वर्षा अपानः शुक्र आदित्याः पश्चादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति तच्छान्तमशब्दमभयमशोकमानन्दम् तृप्तम् स्थिरमचलममृतमच्युतम् ध्रुवम् विष्णुसंज्ञितम् सर्वापरं धाम ॥ ७.३ ॥
诸摩录多、遮伽提韵律、十七分、韦卢帕,雨、下行气、光明者与阿提耶们从西方升起,发热,降雨,被赞颂,再次进入,并从孔隙中向内观看。那是寂静、无声、无畏、无忧、喜乐、满足、坚定、不动、不死、不灭、恒常、名为毗湿奴的,超越一切的住所。
Maitrāyaṇī 7.4
विश्वे देवा अनुष्टुबेकविंशो वैराजः शरत्समानो वरुणः साध्या उत्तरत उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति अन्तःशुद्धः पूतः शून्यः शान्तोऽप्राणो निरात्मानन्तः ॥ ७.४ ॥
诸毗湿婆提婆、阿奴输杜卜韵律、二十一分、韦罗阇,秋季、平衡气、伐楼那与萨提耶们从北方升起,发热,降雨,被赞颂,再次进入,并从孔隙中向内观看。那是内在清净、纯洁、空无、寂静、无气息、无我、无限的。
Maitrāyaṇī 7.5
मित्रावरुणौ पङ्क्तिस्त्रिणवत्रयस्त्रिंशो शाक्वररैवते हेमन्त शिशिरा उदानोऽङ्गिरसश्चन्द्रमा ऊर्ध्वा उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति प्रणवाख्यं प्रणेतारम् भारूपम् विगतनिद्रम् विजरम् विमृत्युम् विशोकम् ॥ ७.५ ॥
密特拉与伐楼那、般克提韵律、三十九分、三十三,沙克伐与雷瓦塔,寒冬与凉季,上行气,安吉罗娑们与月亮向上升起,发热,降雨,被赞颂,再次进入,并从孔隙中向内观看。那是以唵字(praṇava)命名的,引导者,具光明之相,无睡眠,无衰老,无死亡,无忧。
Maitrāyaṇī 7.6
शनिराहुकेतूरगरक्षोयक्षनरविहगशरभेभादयोऽधस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेणेक्षन्ति यः प्राज्ञो विधरणः सर्वान्तरोऽक्षरः शुद्धः पूतः भान्तः क्षान्तः शान्तः ॥ ७.६ ॥
土星、罗睺、计都,蛇、罗刹、夜叉、人、鸟、沙罗婆、象等从下方升起,发热,降雨,被赞颂,再次进入,并从孔隙中向内观看。那是有智慧的、持载者、居于一切之内者、不灭者,清净、纯洁、光耀、忍耐、寂静的。
Maitrāyaṇī 7.7
एष हि खल्वात्मन्तर्हृदयेऽणीयानिद्धोऽग्निरिव विश्वरूपोऽस्यैवान्नमिदं सर्वमस्मिन्नोता इमाः प्रजाः। एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोकोऽविचिकित्सोऽविपाशः सत्यसङ्कल्पः सत्यकामः एष परमेश्वरः एष भूताधिपतिः एष भूतपालः एष सेतुः विधरणः एष हि खल्वात्मेशानः शम्भुर्भवो रुद्रः प्रजापतिर् विश्वसृग्घिरण्यगर्भः सत्यं प्राणो हंसः शस्ताच्युतो विष्णुर्नारायणः यश्चैषोऽग्नौ यश्चायं हृदये यश्चासावादित्ये स एष एकः तस्मै ते विश्वरूपाय सत्ये नभसि हिताय नमः ॥ ७.७ ॥
此即心中之我(ātman),细于微尘,如火燃烧,具一切形。此中有一切食物,此中贯穿着一切众生。此我无罪,无老,无死,无忧,无疑,无缚,意志真实,愿望真实。此即至上主,此即众生之主,此即众生之护持者,此即桥梁与支撑。此即我、自在主、湿婆(Śambhu)、婆婆(Bhava)、楼陀罗(Rudra)、生主(Prajāpati)、一切创造者、金胎(Hiraṇyagarbha)、真理、气息(prāṇa)、天鹅(haṃsa)、被赞美而不坏者、毗湿奴、那罗延。在火中者、在心中者、在彼太阳中者,乃是唯一。敬礼于具一切形、在真实中、在虚空中、施利益者。
Maitrāyaṇī 7.8
अथेदानीं ज्ञानोपसर्गा राजन्मोहजालस्यैष वै योनिः यदस्वर्गैः सह स्वर्गस्यैष वाट्ये पुरस्तादुक्तेऽप्यधः स्तम्बेनाश्लिष्यन्ति अथ ये चान्ये ह नित्यप्रमुदिता नित्यप्रवसिता नित्ययाचनका नित्यं शिल्पोपजीविनोऽथ ये चान्ये ह पुरयाचका अयाज्ययाचकाः शुद्रशिष्याः शूद्रश्च शास्त्रविद्वांसोऽथ ये चान्ये ह चाटजटनटभटप्रव्रजितरङ्गावतारिणो राजकर्मणि पतितादयोऽथये चान्ये ह यक्षराक्षसभूतगणपिशाचोरगग्रहादीनामर्थं पुरस्कृत्य शमयाम इत्येवं ब्रुवाणा अथ ये चान्ये ह वृथा कषायकुण्डलिनः कापालिनोऽथ ये चान्ये ह वृथा तर्कदृष्टान्तकुहकेन्द्रजालैर्वैदिकेषु परिस्थातुमिच्च्हन्ति तैः सह न संवस्त् प्रकाश्यभूता वै ते तस्करा अस्वर्ग्या इत्येवं ह्याह नैरात्म्यवादकुहकैर्मिथ्यादृष्टान्तहेतुभिः । भ्राम्यन्लोको न जानाति वेदविद्यान्तरन्तु यत् ॥ ॥ ७.८ ॥
现在,大王,阻碍知识者,乃迷惑之网的根源:那些与非天界之人一同攀附于下方柱子的人,正如前面关于天界所说。同样,那些常常欢喜、常常流浪、常常乞求、常常以手艺谋生的人;那些在城中乞讨、向不配者求取、拥有首陀罗弟子的人,以及精通经典的首陀罗;还有谄媚者、披发苦行者、演员、战士、游方僧、舞台表演者以及在王家服务中堕落之人;还有为了夜叉、罗刹、鬼众、魔鬼、蛇与星宿而说“我们将平息它们”的人;以及徒然穿着赭色衣服、戴着耳环的迦婆梨迦;还有徒然想凭借诡辩、譬喻、欺骗与幻术立足于吠陀事物之中的人。不应与他们同住;他们是公开的盗贼,不导向天界。如此,世间确实因无我论的欺骗、虚假的譬喻与理由而迷惑游荡,不知吠陀知识的区别。
Maitrāyaṇī 7.9
बृहस्पतिर्वै शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः क्षयायेमामविद्यामसृजत् तया शिवमशिवमित्युद्दिशन्त्यशिवं शिवमिति वेदादिशास्त्रहिंसकधर्माभिध्यानमस्त्विति वदन्ति अतो नैनामभिधीयेतान्यथैषा बन्ध्येवैषा रतिमात्रं फलमस्या वृत्तच्युतस्येव नारम्भणीयेत्येवं ह्याह दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सितुं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्ते ॥ विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते ॥ अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितं मन्यमानाः । दन्द्रम्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ॥ ७.९ ॥
布利哈斯帕蒂化为首克罗,为因陀罗的无畏与阿修罗的毁灭而创造了这无明(avidyā)。借它,人们把吉祥称为不吉祥,把不吉祥称为吉祥;他们说:「愿有对吠陀及其他典籍有害的法之冥想。」因此不应另行传授此法。它是不育的,其唯一的果实是感官之乐,不应像堕离正行者那样去从事。因为他如此说:这两者,无明与知识,被认为相距甚远、相反而分歧。我认为那吉克多是渴求知识的人;许多欲望未能诱惑你。知晓知识与无明二者的人,借无明度过死亡,借知识获得不死。被包裹在无明之中,自以为智慧博学的愚人四处流浪,如同被盲人引导的盲人。
Maitrāyaṇī 7.10
देवासुरा ह वै य आत्मकामा ब्रह्मणोऽन्तिकं प्रयाताः तस्मै नमस्कृत्वोचुः भगवन् वयमात्मकामाः स त्वं नो ब्रूहीति अतश्चिरं ध्यात्वाऽमन्यतान्यतामानो वै तेऽसुरा अतोऽन्यतममेतेषामुक्तम् तदिमे मूढा उपजीवन्त्यभिष्वङ्गिणस्तर्याभिघातिनोऽनृताभिशंसिनः सत्यमिवानृतं पश्यन्तीन्द्रजालवदित्यतो यद्वेदेष्वाभिहितं तत्सत्यं यद्वेदेषूक्तं तद्विद्वांस उपजीवन्ति तस्माद्ब्राह्मणो नावैदिकमधीयीतायमर्थः स्यादिति ॥ ७.१० ॥
诸神与阿修罗,欲求自我(ātman),前往梵天处。向他顶礼后说:尊者,我们欲求自我,请告诉我们。于是他长久冥想思索;阿修罗的心意不同,因此为他们宣说了另一种教导。这些愚痴者,执着、伤害他人、说谎,把虚假视为真实,如同魔术幻象。因此,吠陀中所宣说的才是真实,学者们依靠吠陀所说而生活。因此婆罗门不应学习非吠陀之物,以免产生这样的意思。
Maitrāyaṇī 7.11
एतद्वा व तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यत्परं तेजस्तत्त्रेधाभिहितमग्ना आदित्ये प्राण एतद्वा व तत्स्वरूपं नभसः खेऽन्तर्भूतस्य यदोमित्येतदक्षरमनेनैव तदुद्बुध्यति उदयति उच्छ्वसति अजस्रं ब्रह्मधीयालम्बं वात्रैवैतत्समीरणे नभसि प्रशाखयैवोत्क्रम्य स्कन्धात्स्कन्धमनुसरति। अप्सु प्रक्षेपको लवणस्येव घृतस्य चौष्ण्यमिवाभिध्यातुर्विस्तृतिरिवैतदित्यात्रोदाहरन्ति। अथ कस्मादुच्यते वैद्युतो यस्मादुच्चारितमात्र एव सर्वं शरीरं विद्योतयति तस्मादोमित्यनेनैतदुपासीतापरिमितं तेजः ।
१ पुरुषश्चक्षुषो योऽयं दक्षिणोऽक्षिण्यवस्थितः ।
इन्द्रोऽयमस्य जायेयं सव्ये चाक्षिण्यवस्थिता ॥
२ समागमस्तयोरेव हृदयान्तर्गते सुषौ ।
तेजस्तल्लोहितस्यात्र पिण्ड एवोभयोस्तयोः ॥
३ हृदयादायाति तावच्चक्षुष्यस्मिन्प्रतिष्ठिता ।
सारणी सा तयोर्नाडी द्वयोरेका द्विधा सती ॥
४ मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ॥
५ खजाग्नियोगाद् हृदि सम्प्रयुक्तमणोर्ह्यणुर्द्विरणुः कण्ठदेशे ।
जिह्वाग्रदेशे त्र्यणुकं च विद्धि विनिर्गतं मातृकमेवमाहुः ॥
६ न पश्यन्मृत्युमं पश्यति न रोगं नोत दुःखताम् ।
सर्वं हि पश्यन्पश्यति सर्वमाप्नोति सर्वशः ॥
७ चाक्षुषः स्वप्नचारी च सुप्तः सुप्तात्परश्च यः ।
भेदाश्चैतेऽस्य चत्वारस्तेभ्यस्तुर्यं महत्तरम् ॥
८ त्रिष्वेकपाच्चरेद्ब्रह्म त्रिपाच्चरति चोत्तरे ।
सत्यानृतोपभोगार्थाः द्वैतीभावो महात्मन इति
द्वैतीभावो महात्मन इति ॥ ॥ ७.११ ॥
这确实是那位存在于天空之中的至高光明的真实形相,它被宣说为三重:在火中,在太阳中,在气息中。这确实是存在于虚空之内的唵字(Om)的形相。借由它,人醒来、升起、呼吸;它成为对梵的冥想之不断依托。他们举例说:如盐溶于水,如酥油的热,如修习者的扩展。为何说它如闪电?因为一经发声,它便照亮全身;因此应当借唵来观想这无量之光。站在右眼中的人是因陀罗,他的妻子站在左眼中。他们的相会发生在心中的中脉(suṣumnā)里;那里红色的光明便是二者的聚合。从心而来者安立于此眼;它是二者的导引脉(nāḍī),二者虽为二而实为一,乃是双重之物。心念击打身体之火;它推动风;在胸中流转的风发出深沉的声音。与虚空之火相结合而在心中相连的原子,在喉部的双原子,以及在舌尖的三原子——应当知道这些;作为母音而发出,他们如此说。不见死亡者,既不见此,也不见疾病与苦痛;见到一切,便于一切处以一切方式获得一切。醒位、梦游者、熟睡者,以及超越熟睡者——这是其四个分位;超越它们的是第四位,更为广大。在三者之中,一足的梵运行;在上,三足的梵运行;大我的二元性是为了享受真与假。