Vedyatra वेदयात्रा
搜索

奥义书 · Praśna 4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Praśna 4.1

अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ ।
भगवन्नेतस्मिन्
पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः
स्वप्नान् पश्यति कस्यैतत् सुखं भवति कस्मिन्नु सर्वे
सम्प्रतिष्टिता भवन्तीति ॥ ४.१ ॥

于是娑梵耶尼·伽尔伽问他:尊者啊,在这个人之中,哪些在睡眠,哪些在醒着?哪一位神在做梦?这份快乐属于谁?一切共同坚立于何处?

Praśna 4.2

तस्मै स होवच ।
यथ गार्ग्य मरीचयोऽर्कस्यास्तं
गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ।
ताः पुनः
पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्वं परे देवे
मनस्येकीभवति
तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न
जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते
न विसृजते नेयायते स्वपितीत्याचक्षते ॥ ४.२ ॥

他对他说:伽尔伽啊,正如太阳落下时,它的一切光线都汇聚于这团光明之中,日出时又再次散开;同样,一切都在至上之神、在心中合为一体。那时,这个人不听、不看、不嗅、不尝、不触、不言、不取、不乐、不泄、不行;人们便说:“他睡了。”

Praśna 4.3

प्राणाग्रय एवैतस्मिन् पुरे जाग्रति ।
गार्हपत्यो ह
वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते
प्रणयनादाहवनीयः प्राणः ॥ ४.३ ॥

正是诸气之火在这座城(身体)中醒着。这下行气是家主火(gārhapatya);遍行气是煮供物之火(anvāhāryapacana),它取自家主火;因为它由家主火引出,所以气息是供奉之火(āhavanīya)。

Praśna 4.4

यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः ।
मनो ह वाव यजमानः ।
इष्टफलमेवोदानः ।
स
एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४.४ ॥

能平等引导吸与呼这两种供奉者,是平气(samāna)。心确实是祭主。上行气(udāna)即是所求的果实。它每日将这位祭主引向梵(brahman)。

Praśna 4.5

अत्रैष देवः स्वप्ने महिमानमनुभवति ।
यद्दृष्टं
दृष्टमनुपश्यति
श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च
प्रत्यनुभूतं
पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं
चाश्रुतं
चानुभूतं चाननुभूतं च स्च्चासच्च सर्वं पश्यति सर्वः
पस्यति ॥ ४.५ ॥

在此,梦中,这位光明者体验其伟大。所见之物,他再见;所闻之物,他再闻,穿越地域与方向亦复如是。所经历之物,他反复经历。所见与未见,所闻与未闻,所经历与未经历,有与非有:他看见一切。他看见一切。

Praśna 4.6

स यदा तेजसाऽभिभूतो भवति ।
अत्रैष देवः स्वप्नान्न
पश्यत्यथ यदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ४.६ ॥

当他被光明所征服时,此神在此不见梦境。那时,在此身中便生起这份安乐。

Praśna 4.7

स यथा सोभ्य वयांसि वसोवृक्षं संप्रतिष्ठन्ते ।
एवं
ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते ॥ ४.७ ॥

温和者啊,正如鸟儿栖息于它们歇宿的树上,同样,那一切确实安立于至上的自我之中。

Praśna 4.8

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च
तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा
च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च ग्राणं च
घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च
वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं
च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च
मन्तव्यं च बुद्धिश्च बोद्धिव्यं चाहङ्कारश्चाहङ्कर्तव्यं च
चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च
विद्यारयितव्यं च ॥ ४.८ ॥

地及地之微细元素,水及水之微细元素,火及火之微细元素,风及风之微细元素,空及空之微细元素;眼与可见者,耳与可闻者,鼻与可嗅者,舌与可尝者,皮肤与可触者,语言与可说者,手与可取者,生殖器与可享受者,肛门与可排泄者,足与可行者,意与可思者,觉与可知者,我执与我执之对象,心识与可觉知者,光明与可照明者,以及生命气息(prāṇa)与可持续者。

Praśna 4.9

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता
बोद्धा कर्ता विज्ञानात्मा पुरुषः ।
स परेऽक्षर आत्मनि
सम्प्रतिष्ठते ॥ ४.९ ॥

这确实是见者、触者、听者、嗅者、尝者、思者、知者和作者;这就是以觉识为自性的补鲁沙(puruṣa)。他安立于至上不灭的自我(ātman)之中。

Praśna 4.10

परमेवाक्षरं प्रतिपद्यते स यो ह वै
तदच्छायमशरीरम्लोहितं
शुभ्रमक्षरं वेदयते यस्तु सोम्य ।
स सर्वज्ञः सर्वो भवति ।
तदेष श्लोकः ॥ ४.१० ॥

温和的孩子,谁知道那无影、无身、无瑕的红色、光明的不灭者,他确实能达到至上的不灭者。他成为全知者,成为一切。关于此,有这样一首颂。

Praśna 4.11

विज्ञानात्मा सह देवैश्च सर्वैः
प्राणा भुतानि संप्रतिष्ठन्ति यत्र
तदक्षरं वेदयते यस्तु सोम्य
स सर्वज्ञः सर्वमेवाविवेशेति ॥ ४.११ ॥

温和的孩子,谁知道那不灭者——觉识之自我与一切诸神、诸气息及一切众生都安立于其中——他便成为全知者,并进入一切之中。