Vedyatra वेदयात्रा
搜索

梨俱吠陀 · 赞歌 5.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.2.1

कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा॑ बिभर्ति॒ न द॑दाति पि॒त्रे ।
अनी॑कमस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ॥

年轻的母亲将这位少年牢牢怀在腹中,不交给父亲。人们不毁坏他的火焰;他们看见他被安置在前方,立于不老之处。

5.2.2

कमे॒तं त्वं यु॑वते कुमा॒रं पेषी॑ बिभर्षि॒ महि॑षी जजान ।
पू॒र्वीर्हि गर्भः॑ श॒रदो॑ व॒वर्धाप॑श्यं जा॒तं यदसू॑त मा॒ता ॥

少女啊,你所怀的这位少年是谁?那研磨的大王后生下了他。胎中之子经历了许多个秋天而长大;母亲生下那已出生的孩子时,我亲眼看见了。

5.2.3

हिर॑ण्यदन्तं॒ शुचि॑वर्णमा॒रात्क्षेत्रा॑दपश्य॒मायु॑धा॒ मिमा॑नम् ।
द॒दा॒नो अ॑स्मा अ॒मृतं॑ वि॒पृक्व॒त्किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ॥

我从远处、从田野看见那金齿、色彩光明者正在制作武器,并将不朽、熟成的供物赐予他。那些不崇拜因陀罗、没有颂歌的人,又能对我怎样?

5.2.4

क्षेत्रा॑दपश्यं सनु॒तश्चर॑न्तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानम् ।
न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो॑ भवन्ति ॥

我从田野看见他漫游,如欢快的畜群,光辉灿烂。她们没有抓住他,因为他已经出生。事实上,白发的女子又变成了少女。

5.2.5

के मे॑ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां॑ गो॒पा अर॑णश्चि॒दास॑ ।
य ईं॑ जगृ॒भुरव॒ ते सृ॑जन्तु॒ आजा॑ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥

愿他们把我的野少年与牛群一起放出,如那些牧人不受阻碍的人一样。捉住他的人应当放开他;那通晓牲畜的人当来到我们这里。

5.2.6

व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु ।
ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या॑सो भवन्तु ॥

敌人把财富之王、住处之主置于凡人之间。愿阿特里的祈祷释放他;愿被诋毁的敌人受到诋毁。

5.2.7

शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा॑दमुञ्चो॒ अश॑मिष्ट॒ हि षः ।
ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न्होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ॥

正如你释放了被缚于千根柱上的舍那舍别,所以,阿耆尼啊,呼唤者啊,智者啊,请解开我们身上的绳索;来这里坐下。

5.2.8

हृ॒णी॒यमा॑नो॒ अप॒ हि मदैयेः॒ प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।
इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥

阿耆尼啊,虽然你离我而去,受赞颂的、守护诸神誓约者对我说话;因陀罗以智慧看见你,受他的教导,我来到这里。

5.2.9

वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा ।
प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ॥

阿耆尼以他伟大的光明照耀,以他的威力使一切显现;他战胜非神的幻术,并磨砺他的双角以毁灭罗刹。

5.2.10

उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ ।
मदे॑ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥

愿他响亮的声音在天上;愿阿耆尼锋利的武器杀死罗刹;在他的欢喜中,它们确实击打;火焰不弯曲,非神的阻挠者转身退去。

5.2.11

ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षम् ।
यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्याः॒ स्व॑र्वतीर॒प ए॑ना जयेम ॥

多生的阿耆尼啊,这首赞歌献给你;我作为智慧的、受启示的诗人,如工匠造车一般将它精心制作;神阿耆尼啊,若你驾起青色的骏马,我们便借此赢得沐浴阳光的水。

5.2.12

तु॒वि॒ग्रीवो॑ वृष॒भो वा॑वृधा॒नोऽश॒त्र्व॑र्यः सम॑जाति॒ वेदः॒ इती॒मम॒ग्निम॒मृता॑ अवोचन् ।
ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ह॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥

愿他,颈项强壮、如公牛、日益增长,与无敌的雅利安人结合,获得智慧;众不死者如此赞颂了这位阿耆尼;愿他庇护坐在吉祥草上的摩奴,愿他庇护献上祭品的摩奴。