奥义书 · Kauṣītaki 4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Kauṣītaki 4.1
अथ गार्ग्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोऽयमुशिनरेषु संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति सहाजातशत्रुं काश्यमेत्योवाच । ब्रह्म ते ब्रवाणीति तं होवाच अजातशत्रुः । सहस्रं दद्मस्त इत्येतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति ॥ ४.१ ॥
于是,学识渊博的加尔伽耶·巴拉基,曾居于乌什纳罗、摩蹉、俱卢-般遮罗、迦尸-毗提诃之间,来到迦尸王阿阇世面前,说道:“我将为你说梵。”阿阇世对他说:“为了这番言语,我们给你一千。人们奔走呼喊:‘遮那伽,遮那伽!’”
Kauṣītaki 4.2
स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः । बृहत्पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धेति वा अहमेतमुपास इति स यो हैतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा भवति ॥ ४.२ ॥
巴拉基说:“我崇拜那在太阳中的补鲁沙。”阿阇世敌对他说:“关于他不要与我争论。我崇拜他为一切众生之首,高居众生之上,伟大,身着白衣。”凡如此崇拜他的人,便成为一切众生之首,高居于众生之上。
Kauṣītaki 4.3
स होवाचा बालाकिर्य एवैष चन्द्रमसि पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः सोमो राजान्नस्यात्मेति वा अहमेतमुपास इति स यो मेवमुपास्तेऽन्नस्यात्मा भवति ॥ ४.३ ॥
巴拉基说:“我崇拜那在月亮中的补鲁沙。”阿阇世敌对他说:“关于他不要与我争论。我崇拜他为国王苏摩,食物的我。”凡如此崇拜他的人,便成为食物的我。
Kauṣītaki 4.4
स होवाच बालाकिर्य एवैष विद्युति पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठास्तेजस आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते तेजस आत्मा भवति ॥ ४.४ ॥
巴拉基说:“我崇拜那在闪电中的补鲁沙。”阿阇世敌对他说:“关于他不要与我争论。我崇拜他为光辉(tejas)的我。”凡如此崇拜他的人,便成为光辉的我。
Kauṣītaki 4.5
स होवाच बालाकिर्य एवैष स्तनयित्नौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः शब्दस्यात्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते शब्दस्यात्मा भवति ॥ ४.५ ॥
巴拉基说:“我崇拜那在雷鸣中的补鲁沙。”阿阇世敌对他说:“关于他不要与我争论。我崇拜他为声音的我。”凡如此崇拜他的人,便成为声音的我。
Kauṣītaki 4.6
स होवाच बालाकिर्य एवैष आकाशे पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः पूर्णमप्रवर्ति ब्रह्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नो एव स्वयं नास्य प्रजा पुरा कालात्प्रवर्तते ॥ ४.६ ॥
他说:Bālāki,我崇拜那在虚空中的补鲁沙。阿阇多设figure 对他说:不要与我争论。我把它当作圆满、不动的梵来崇拜。如此崇拜它的人,子孙与牲畜充盈;他的后代不会在其时限之前离他而去。
Kauṣītaki 4.7
स होवाच बालाकिर्य एवैष वायौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठा इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते । जिष्णुर्ह वापराजिष्णुरन्यतस्यजायी भवति ॥ ४.७ ॥
他说:Bālāki,我崇拜那在风中的补鲁沙。阿阇多设figure 对他说:不要与我争论。我把它当作因陀罗、毗俱吒、不可战胜的军队来崇拜。如此崇拜它的人成为胜利者;他不被他人战胜,也无人能成为他的征服者。
Kauṣītaki 4.8
स होवाच बालाकिर्य एवैषोऽग्नौ पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठा विषासहिरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विषासहिर्वान्वेष भवति ॥ ४.८ ॥
他说:Bālāki,我崇拜那在火中的补鲁沙。阿阇多设figure 对他说:不要与我争论。我把它当作忍受一切、征服者来崇拜。如此崇拜它的人便能忍受一切并获得胜利。
Kauṣītaki 4.9
स होवाच बालाकिर्य एवैषोऽप्सु पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठा नाम्न्यस्यात्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नाम्न्यस्यात्मा भवतीत्यधिदैवतमथाध्यात्मम् ॥ ४.९ ॥
他说:Bālāki,我崇拜那在水中的补鲁沙。阿阇多设figure 对他说:不要与我争论。我把它当作其我(ātman)在名中来崇拜。如此崇拜它的人,其我在名中:这是神性的(adhidaivata)一面;现在说内在的(adhyātma)一面。
Kauṣītaki 4.10
स होवाच बालाकिर्य एवैष आदर्शे पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रतिरूपो हैवास्य प्रजायामाजायते नाप्रतिरूपः ॥ ४.१० ॥
巴拉基说:“我所崇拜的,就是镜中所见的这个人。”阿阇多设图对他说:“不要与他争论。应当把他当作影像(pratirūpa)来崇拜。”如此崇拜他的人,他的后代中生出的是有影像者,而非无影像者。
Kauṣītaki 4.11
स होवाच बालाकिर्य एवैष प्रतिश्रुत्कायां पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठा द्वितीयोऽनपग इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विन्दते द्वितीयाद्द्वितीयवान्भवति ॥ ४.११ ॥
巴拉基说:“我所崇拜的,就是回声中所闻的这个人。”阿阇多设图对他说:“不要与他争论。应当把他当作永不分离的第二者(anapaga)来崇拜。”如此崇拜他的人,获得第二者,成为有第二者的人。
Kauṣītaki 4.12
स होवाच बालाकिर्य एवैष शब्दः पुरुषमन्वेति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठा असुरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य प्रजा पुरा कालात्संमोहमेति ॥ ४.१२ ॥
巴拉基说:“跟随人的这个声音,我所崇拜的正是它。”阿阇多设图对他说:“不要与他争论。应当把它当作生气(asu)来崇拜。”如此崇拜它的人,自己和子孙都不会在时限之前陷入迷惑。
Kauṣītaki 4.13
स होवाच बालाकिर्य एवैष च्छायापुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठा मृत्युरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य प्रजा पुरा कालात्प्रमीयते ॥ ४.१३ ॥
巴拉基说:“这个影子人,我所崇拜的正是他。”阿阇多设图对他说:“不要与他争论。应当把他当作死亡(mṛtyu)来崇拜。”如此崇拜他的人,自己和子孙都不会在时限之前死去。
Kauṣītaki 4.14
स होवाच बालाकिर्य एवैष शारीरः पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः प्रजापतिरिति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रजायते प्रजया पशुभिः ॥ ४.१४ ॥
他说:巴拉基说:「我崇拜这个具身的补鲁沙。」阿阇多设咄罗对他说:「不要把他说成生主。我把他当作生主来崇拜。」如此崇拜他的人,会因子嗣、后代与牲畜而兴旺。
Kauṣītaki 4.15
स होवाच बालाकिर्य एवैष प्राज्ञ आत्मा येनैतत्पुरुषः सुप्तः स्वप्नमाचरति तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठा यमो राजेति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते सर्वं हास्मा इदं श्रैष्ठ्याय गम्यते ॥ ४.१५ ॥
他说:巴拉基说:「我崇拜这个智慧之我,人在睡眠中借着它在梦中游行。」阿阇多设咄罗对他说:「不要把他说成阎摩王。我把他当作阎摩王来崇拜。」如此崇拜他的人,会因此得到这一切的殊胜。
Kauṣītaki 4.16
स होवाच बालाकिर्य एवैष दक्षिणेऽक्षन्पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठा नाम्न आत्माऽग्नेरात्मा ज्योतिष आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवति ॥ ४.१६ ॥
他说:巴拉基说:「我崇拜这位在右眼中的补鲁沙。」阿阇多设咄罗对他说:「不要把他说成名之我、火之我、光之我。我崇拜他。」如此崇拜他的人,便成为这一切的我。
Kauṣītaki 4.17
स होवाच बालाकिर्य एवैष सव्येऽक्षन्पुरुषस्तमेवाहमुपास इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः सत्यस्यात्मा विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपास इति स यो हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवतीति ॥ ४.१७ ॥
他说:巴拉基说:「我崇拜这位在左眼中的补鲁沙。」阿阇多设咄罗对他说:「不要把他说成真理之我、闪电之我、光辉之我。我崇拜他。」如此崇拜他的人,便成为这一切的我。
Kauṣītaki 4.18
तत उ ह बालाकिस्तूष्णीमास तं होवाचाजातशत्रुरेतावन्नु बालाका३इ इत्येतावद्धीति होवाच बालाकिस्तं होवाचाजातशत्रुर्मृषा वै किल मा समवादयिष्ठा ब्रह्म ते ब्रवाणीति । स होवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्य इति तत उ ह बालाकिः समित्पाणिः प्रतिचक्रामोपायानीति तं होवाचजातशत्रुः प्रतिलोमरूपमेव स्याद्यत्क्षत्रियो ब्राह्मणमुपनयेत् । एहि व्येव त्वा ज्ञपयिष्यामीति तं ह पाणावभिपद्य प्रवव्राज तौ ह सुप्तं पुरुषमीयतुस्तं हाजातशत्रुरामन्त्रयांचक्रे । बृहत्पाण्डरवासः सोमराजन्निति । स उ ह तूष्णीमेव शिश्ये । तत उ हैनं यष्ट्याविचिक्षेप स तत एव समुत्तस्थौ तं होवाचाजातशत्रुः । क्वैष एतद्वालोके पुरुषोऽशयिष्ट क्वैतदभूत्कुत एतदागा३दिति । तत उ ह बालाकिर्न विजज्ञौ ॥ ४.१८ ॥
于是伯拉基沉默了。阿阇世对他说:“伯拉基,就只有这些吗?”伯拉基说:“是的,就只有这些。”阿阇世说:“你对我说谎,说你要向我讲说梵。那创造这些人、这作为属于其人的,唯有他才应当被认识。”于是伯拉基手持柴薪返回,说:“我来做您的弟子。”阿阇世说:“刹帝利为婆罗门授启,那是颠倒的次第。来吧,我亲自教导你。”他拉着他的手,二人走向一个熟睡的人。阿阇世呼唤他:“披着大白衣的月亮王啊!”他默然酣睡。于是阿阇世用杖敲他,他便起身。阿阇世问道:“这个人先前睡在哪里?他在哪里?他从何处来?”伯拉基不能明白。
Kauṣītaki 4.19
तं होवाचाजातशत्रुर्यत्रैष एतद्बालाके पुरुषोऽशयिष्ट यत्रैतदभूद्यत एतदागाद्धिता नाम हृदयस्य नाड्यो हृदयात्पुरीततमभिप्रतन्वन्ति तद्यथा सहस्रधा केशो विपाटितस्तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ति । शुक्लस्य कृष्णस्य पीतस्य लोहितस्येति तासु तदा भवति । यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यस्मिन्प्राण एवैकधा भवति तथैनं वाक्सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतो सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकास्तद्यथा क्षुरः क्षुरध्यानेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलाय एवमेवैष प्राज्ञ आत्मेदं शरीरमात्मानमनुप्रविष्ट आ लोमभ्य आ नखेभ्यः ॥ ४.१९ ॥
阿阇世对他说:“伯拉基,这人所睡之处,他所在之处,以及他所来之处,便是称为‘希塔’的诸脉,它们从心中伸展出来。如同一根头发剖分成千份那样细微,它们呈黄褐、白、黑、黄、红诸色而存在。当睡者不见任何梦境时,他之中便唯有生气合为一体。那时,言语连同一切名字回归于他之中,眼睛连同一切形色,耳朵连同一切声音,意念连同一切思想。当他醒来时,如同烈火之中飞出火星遍布四方,从此自我中,诸生气各归其位;从生气而有诸神,从诸神而有诸世界。如同刀子安放在刀鞘中,又如毗湿婆盎罗在其巢中,这智慧之自我便进入此身,直至毛发与指甲。”
Kauṣītaki 4.20
तमेतमात्मानमेतमात्मनोऽन्ववस्यति यथा श्रेष्ठिनं स्वास्तद्यथा श्रेष्ठैः स्वैर्भुङ्क्ते यथा वा श्रेष्ठिनं स्वा भुञ्जन्त्येवमेवैष प्राज्ञात्मैतैरात्मभिर्भुङ्क्ते । एवं वै तमात्मानमेत आत्मानो भुञ्जन्ति । स यावद्ध वा इन्द्र एतमात्मानं न विजज्ञे तावदेनमसुरा अभिबभूवुः । स यदा विजज्ञेऽथ हत्वासुरान्विजित्य सर्वेषां देवानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं परीयाय एवैवं विद्वान्सर्वान्पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद य एवं वेद ॥ ४.२० ॥
寻求此自我于此自我之中的人,如同首领的亲属跟随他,如同首领与自己人同享,或如同自己人侍奉首领,智慧之自我便与这些自我同享。如是,这些自我侍奉那自我。在因陀罗尚未知此自我时,阿修罗战胜了他。当他知道时,便杀死并征服了阿修罗,获得了对一切天神的至上、自主与主权。同样,如此知道的智者,灭除一切恶之后,获得对一切众生的至上、自主与主权。知如此者,知如此者。