奥义书 · Praśna 3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Praśna 3.1
अथ हैनं कौशल्यष्चाश्वलायनः पप्रच्छ ।
भगवन् कुत
एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा
प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते
कथमध्यात्ममिति ॥ ३.१ ॥
于是憍舍罗·阿湿伐罗衍那问他:尊者,这气息(prāṇa)从何而生?它如何进入这身体,或者如何分化自身而安住?它因何而离去?如何说它在外、又在内?
Praśna 3.2
तस्मै स होउवाचातिप्रष्चान् पृच्छसि ब्रह्मिष्ठोऽसीति
तस्मात्तेऽहं ब्रवीमि ॥ ३.२ ॥
他对他说:你问得太多了;你是最忠于梵(brahman)的人。因此我告诉你。
Praśna 3.3
आत्मन एष प्राणो जायते ।
यथैषा पुरुषे
छायैतस्मिन्नेतदाततं
मनोकृतेनायात्यस्मिञ्शरीरे ॥ ३.३ ॥
从自我(ātman)生出这气息(prāṇa)。如同影子在人身上,它在他之中延展;依心意的作用,它来到这身体中。
Praśna 3.4
यथा सम्रादेवाधिकृतान् विनियुङ्क्ते ।
एतन् ग्रामानोतान्
ग्रामानधितिष्टस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्
पृथगेव सन्निधत्ते ॥ ३.४ ॥
犹如君王委派其官员,说:“去往这些村庄,统治那些村庄”,同样,这一气(prāṇa)也分别安置其他诸气,将它们置于各自的位置。
Praśna 3.5
पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः
स्वयं
प्रातिष्टते मध्ये तु समानः ।
एष ह्येतद्धुतमन्नं समं
नयति
तस्मादेताः सप्तार्चिषो भवन्ति ॥ ३.५ ॥
在肛门与生殖器中是下行气(apāna);在眼与耳中,经由口与鼻,气(prāṇa)自身显现;在中间的是平衡气(samāna)。正是它均匀地输送这被奉献的食物,因此由此生出七道火焰。
Praśna 3.6
हृदि ह्येष आत्मा ।
अत्रैतदेकशतं नाडीनं तासां शतं
शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः
प्रतिशाखानाडीसहस्राणि
भवन्त्यासु व्यानश्चरति ॥ ३.६ ॥
此我(ātman)在心中。由此发出一百零一条脉络(nāḍī);其中每一条有一百条,每一条之中又有七十二条,每一条又有七十二条,另有数千条支脉。在这些脉络中,vyāna流行运作。
Praśna 3.7
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन
पापमुभाभ्यामेव मनुष्यलोकम् ॥ ३.७ ॥
此后,上行的 udāna 经由其中一条脉络,以功德引向功德之界,以罪过引向罪过之界;而唯有二者兼具,才引向人间之界。
Praśna 3.8
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं
प्राणमनुगृह्णानः ।
पृथिव्यां या देवता सैषा पुरुषस्य
अपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ३.८ ॥
太阳确是外在的生气(prāṇa),它升起,因为它升起时护佑眼中的生气。大地中的神,正是支撑人身下行气(apāna)的那一位;其间的虚空即是平衡气(samāna),它便是遍行气(vyāna)。
Praśna 3.9
तेजो ह वा उदानस्तस्मादुपशान्ततेजाः ।
पुनर्भवमिन्द्रियैर्मनसि सम्पध्यमानैः ॥ ३.९ ॥
热(tejas)确是上行气(udāna);因此,热力已平息之人,当诸根融入意中时,便得再生。
Praśna 3.10
यच्चित्तस्तेनैष प्राणमायाति ।
प्राणस्तेजसा युक्तः सहात्मना
तथासङ्कल्पितं लोकं नयति ॥ ३.१० ॥
他以怎样的心意,便以那心意趋向生气;生气与热力相合,与自我(ātman)同在,便依所立之愿引他到达其所向的世界。
Praśna 3.11
य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो
भवति तदेषः श्लोकः ॥ ३.११ ॥
如此知晓而认识生气(prāṇa)的人,他的子孙不会消亡,他成为不死者。关于此,有这样一首偈颂。
Praśna 3.12
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते
विज्ञायामृतमश्नुत इति ॥ ३.१२ ॥
知晓气息的生起、来去、住处、遍在,以及五种形式的内在本性,便能获得不死。知晓之后便获得不死,如此。