奥义书 · Praśna 6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Praśna 6.1
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ ।
भगवन्
हिरण्यनाभः
कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत ।
षोडशकलं
भारद्वाज पुरुषं वेत्थ ।
तमहं कुमारम्ब्रुवं नाहमिमं
वेद ।
यध्यहमिममवेदिषं कथं ते नावक्ष्यमिति ।
समूलो वा
एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् ।
स तूष्णीं रथमारुह्य प्रवव्राज ।
तं त्वा पृच्छामि क्वासौ
पुरुष इति ॥ ६.१ ॥
于是苏刻沙·跋罗堕遮问他:“尊者!柯萨罗的王子希兰雅那跋来到我这里,问了这个问题:‘婆罗堕遮啊,你知道那十六分的补鲁沙吗?’我对那位青年说:‘我不知道他。若我知道,怎会不告诉你?说谎的人连根枯萎;所以我不应说谎。’他默然登上车子离去了。现在我问您:那补鲁沙在哪里?”
Praśna 6.2
तस्मै स होवाच ।
इहैइवान्तःशरीरे सोभ्य स पुरुषो
यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ ६.२ ॥
他对他说:亲爱的,就在这身体之内,有那位补鲁沙,十六个甘拉(kalā)由他而生。
Praśna 6.3
स ईक्षाचक्रे ।
कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि
कस्मिन्वा प्रतिष्टिते प्रतिष्टस्यामीति ॥ ६.३ ॥
他思考:当什么离去时我将离去?当什么确立时我将确立?
Praśna 6.4
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः
पृथिवीन्द्रियं मनः ।
अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म
लोका
लोकेषु च नाम च ॥ ६.४ ॥
他创造了生气(prāṇa);从生气生出信念、虚空、风、光、水、地、诸根与意。食物;从食物生出精力、苦行、咒语、业,诸世界,以及世界中的名称。
Praśna 6.5
स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं
प्राप्यास्तं
गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते ।
एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः
पुरुषं
प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं
प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ६.५ ॥
如同这些流淌的河流,趋向大海,到达大海后便消逝,其名与形被破坏,而它只被称为'海';同样,这位见者的这十六分,趋向补鲁沙,到达补鲁沙后便消逝,其名与形被破坏,而他只被称为'补鲁沙'。他成为无分之者,并且不朽。关于此有这样一颂。
Praśna 6.6
अरा इव रथनाभौ कला यस्मिन्प्रतिष्टिताः ।
तं वेध्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६.६ ॥
如同辐条安置于车轮的毂中,诸羯罗(kalā)皆安立于他之中。你们应当认识那位可被洞察的补鲁沙,使死亡不再使你们痛苦。
Praśna 6.7
तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद ।
नातः
परमस्तीति ॥ ६.७ ॥
他对他们说:“我所知的这至高梵(brahman),仅止于此;此外再无更高者。”
Praśna 6.8
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविध्यायाः
परं परं तारयसीति ।
नमः परमऋषिभ्यो नमः
परमऋषिभ्यः ॥ ६.८ ॥
他们尊敬地说:“你就是我们的父亲,引导我们超越无明,超越那更高者。”向至高仙人致敬,向至高仙人致敬。