Vedyatra वेदयात्रा
搜索

梨俱吠陀 · 赞歌 1.52

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.52.1

त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते ।
अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥

颂扬那寻得天界的公羊,与他一同前行的有百位光辉的同伴。如同迅捷的马,我愿以善颂使坐于祭祀中的因陀罗之车转向救助。

1.52.2

स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे ।
इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां॑सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ॥

他如山岳般在坚固之处屹立不动,拥有千倍的助力,在众力之中增长。当因陀罗击杀围困河流的弗栗多,因苏摩而欢喜,便释放了诸水。

1.52.3

स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ ।
इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥

他是门中的门闩,在乳房中闪耀,有月亮般的基座,因醉意而增长;我借智者之口呼唤他。那因陀罗,伟大的施予者,我以善业的虔诚之思呼唤,因为正是他以苏摩充盈。

1.52.4

आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्वः॑ स्वा अ॒भिष्ट॑यः ।
तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ॥

在天上,坐于圣草的诸神充盈他,如同闪耀如海的诸愿;随着那位因陀罗,在与弗栗多的战斗中,援助与英勇之力、不倦不伤的军队挺立而起。

1.52.5

अ॒भि स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ ।
इन्द्रो॒ यद्व॒ज्री धृ॒षमा॑णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ॥

在他的欢欣中,朝着他自己的恩惠,在他战斗时,援助如战车沿斜坡奔驰而出;那持金刚的因陀罗,因苏摩而勇气倍增,打破了伐罗的围栏,如同特里多所做的那样。

1.52.6

परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॑ अ॒पो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।
वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥

他周围光线流动,力量闪耀,包裹诸水,坐于虚空的根基之上。在弗栗多的斜坡上,当你,因陀罗,以雷霆击打那以勇士之声咆哮者的两颚时。

1.52.7

ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना ।
त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ॥

因陀罗啊,犹如波浪不能淹没湖泊,使你增长的颂歌也不会抵挡你。特瓦什塔也增长了你相称的力量,并锻造了具有无可抗拒之力的金刚杵。

1.52.8

ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः ।
अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥

因陀罗啊,你是聚集祭仪的主宰!杀死弗栗多之后,你驾着赤褐色的马为摩奴寻找众水。你双臂持握铁制金刚杵,并把太阳安放在天空,使其可被看见。

1.52.9

बृ॒हत्स्वश्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।
यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥

当人类的助手因惧怕升往天界,借因陀罗的庇护唱出宏大、光明而令人欢喜的赞歌时,人类的领袖马鲁特们也一同欢欣。

1.52.10

द्यौश्चि॑द॒स्याम॑वाँ॒ अहेः॑ स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते ।
वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॒ रोद॑सी॒* मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ॥

连天空也因这条蛇的咆哮而颤抖;因陀罗啊,你的金刚杵因恐惧而使它震动。当弗栗多束缚两界之时,你在压榨苏摩的醉意中,以力量劈开了他的头颅。

1.52.11

यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टयः॑ ।
अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥

因陀罗啊,当十臂的大地展开白昼,众生广布之时,就在此处,慷慨者啊,你那闻名的力量以其威力增长,直达天空。

1.52.12

त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मनः॒ स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।
च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो अ॒पः स्वः॑ परि॒भूरे॒ष्या दिव॑म् ॥

你在这广阔虚空的彼岸,以自身之力充盈,为了护佑,坚定之心的因陀罗啊。你使大地成为力量的尺度,创造了诸水与光明,作为无所不包的主宰,你抵达天空。

1.52.13

त्वं भु॑वः प्रति॒मानं॑ पृथि॒व्या ऋ॒ष्ववी॑रस्य बृह॒तः पति॑र्भूः ।
विश्व॒माप्रा॑ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ॥

你与大地相匹敌,你成为了伟大的、拥有众多英雄者的主宰。以你的伟力,你充满了整个中间虚空;的确,再没有别的像你这样的。

1.52.14

न यस्य॒ द्यावा॑पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः ।
नोत स्ववृ॑ष्टिं॒ मदे॑ अस्य॒ युध्य॑त॒ एको॑ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ॥

天与地不及他的广大,河流也到不了虚空的尽头;在他的欢欣中,无人与他自己的雨相争;唯独他一件接一件地完成了一切。

1.52.15

आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा ।
वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ॥

在那场战斗中,摩路多诸神在此赞颂,诸天神都与你一同欢喜。因因陀罗啊,当你以猛烈的一击打击弗栗多时,你击中他的车轮,将他击倒。