Vedyatra वेदयात्रा
検索

ウパニシャッド · Bṛhadāraṇyaka 2.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

Bṛhadāraṇyaka 2.4.1

(मैत्रेयीब्राह्मणम्)
मैत्रेयीति होवाच याज्ञवल्क्यः उद्यास्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ २.४.१ ॥

(マイトレーイーのブラーフマナ)ヤージュニャヴァルキヤはマイトレーイーに言った。「マイトレーイーよ、私はこの生活の状態(家住期)から出て行こうとしている。では、これによってお前とカートヤーヤニーとの分け前を取り決めよう。」

Bṛhadāraṇyaka 2.4.2

सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २.४.२ ॥

マイトレーイーは言った。「尊師よ、もしこの大地全体が財産で満ちていたなら、それによって私は不死になれるでしょうか。」ヤージュニャヴァルキヤは言った。「いいえ。財産を持つ者の生活がそうであるように、お前の生活もそうなるだろう。しかし、財によって不死を得る望みはない。」

Bṛhadāraṇyaka 2.4.3

सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ २.४.३ ॥

マイトレーイーは言った。「それによって私が不死にならないのなら、それを私がどうしましょう。尊き方よ、あなたがご存じのことをこそ私に説いてください。」

Bṛhadāraṇyaka 2.4.4

स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे ।
एह्यास्स्व ।
व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ २.४.४ ॥

ヤージュニャヴァルキヤは言った。「おお、そなたは我らにとって愛しい。愛しい言葉を語る。さあ、座りなさい。そなたに説き明かそう。私が説くとき、そなたはそれを瞑想せよ。」

Bṛhadāraṇyaka 2.4.5

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ २.४.५ ॥

ヤージュニャヴァルキヤは言った。「まことに、夫は妻のために愛しいのではなく、自己(アートマン)のために夫は愛しい。まことに、妻は夫のために愛しいのではなく、自己のために妻は愛しい。まことに、息子たちは息子のために愛しいのではなく、自己のために息子たちは愛しい。まことに、財は財のために愛しいのではなく、自己のために財は愛しい。まことに、ブラフマンはブラフマンのために愛しいのではなく、自己のためにブラフマンは愛しい。まことに、王権は王権のために愛しいのではなく、自己のために王権は愛しい。まことに、諸世界は諸世界のために愛しいのではなく、自己のために諸世界は愛しい。まことに、神々は神々のために愛しいのではなく、自己のために神々は愛しい。まことに、生きものは生きもののために愛しいのではなく、自己のために生きものは愛しい。まことに、一切は一切のために愛しいのではなく、自己のために一切は愛しい。マイトレーイーよ、自己こそ見られるべく、聞かれるべく、思惟されるべく、瞑想されるべきものである。自己を見、聞き、思惟し、知ることによって、このすべてが知られるのだ。」

Bṛhadāraṇyaka 2.4.6

ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ २.४.६ ॥

自己(アートマン)以外に梵を知る者を、梵は見捨てる。自己以外にクシャトラ(王権)を知る者を、クシャトラは見捨てる。自己以外に諸世界を知る者を、諸世界は見捨てる。自己以外に神々を知る者を、神々は見捨てる。自己以外に存在するものを知る者を、存在するものは見捨てる。自己以外に一切を知る者を、一切は見捨てる。この梵、このクシャトラ、これらの世界、これらの神々、これらの存在、この一切――それはこのアートマンである。

Bṛhadāraṇyaka 2.4.7

स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ २.४.७ ॥

太鼓が打たれているとき、外から響く音だけを捉えることはできない。しかし太鼓そのものを捉えれば、あるいは太鼓を打つ音を捉えれば、その音は捉えられたことになる。

Bṛhadāraṇyaka 2.4.8

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ २.४.८ ॥

法螺貝が吹かれているとき、外から響く音だけを捉えることはできない。しかし法螺貝そのもの、あるいは法螺貝を吹く音を捉えれば、その音は捉えられたことになる。

Bṛhadāraṇyaka 2.4.9

स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ २.४.९ ॥

ヴィーナーが奏でられているとき、外から響く音だけを捉えることはできない。しかしヴィーナーそのもの、あるいはその演奏の音を捉えれば、その音は捉えられたことになる。

Bṛhadāraṇyaka 2.4.10

स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येव वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि ।
अस्यैवैतानि निश्वसितानि ॥ २.४.१० ॥

濡れた薪に火をつけると別々の煙が立ちのぼるように、愛する人よ、これらはこの偉大な存在の吐息である。すなわち、リグ・ヴェーダ、ヤジュル・ヴェーダ、サーマ・ヴェーダ、アタルヴァ・アンギラス、歴史、プラーナ、諸学、ウパニシャッド、詩節、経句、註釈と解説。これらはまさにその吐息である。

Bṛhadāraṇyaka 2.4.11

स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥ २.४.११ ॥

あらゆる水の唯一の帰着点が大海であるように、あらゆる触覚の唯一の帰着点は皮膚である。あらゆる香りの唯一の帰着点は二つの鼻孔であり、あらゆる味の帰着点は舌、あらゆる形の帰着点は眼、あらゆる音の帰着点は耳、あらゆる意図の帰着点は意、あらゆる知識の帰着点は心臓、あらゆる行為の帰着点は両手、あらゆる喜びの帰着点は生殖器、あらゆる排泄の帰着点は肛門、あらゆる道の帰着点は両足、あらゆるヴェーダの帰着点は言葉である。

Bṛhadāraṇyaka 2.4.12

स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् ।
यतोयतस्त्वाददीत लवणम् ।
एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ २.४.१२ ॥

水に投げ入れた岩塩の塊が水そのものに溶けて、もう取り出せないようなものである。しかしどこから水を味わっても塩辛い。同じように、愛する人よ、この偉大で、無限で、際限のない、純粋な認識の塊は、これら諸元素から生じ、またそれらの中へ消滅する。死後には認識はない、と私は言う。ヤージュニャヴァルキヤはこう言った。

Bṛhadāraṇyaka 2.4.13

सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
अलं वा अर इदं विज्ञानाय ॥ २.४.१३ ॥

マイトレーイーは言った。「尊い方よ、ここで私を迷わせてくださいました——死後には認識がないと。」彼は言った。「愛する人よ、私は迷いのことを言っているのではない。これは実に理解にとって十分である。」

Bṛhadāraṇyaka 2.4.14

यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति ।
यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
विज्ञातारमरे केन विजानीयादिति ॥ २.४.१४ ॥

そこに二元があるかのように、一方が他方を嗅ぎ、一方が他方を見、一方が他方を聞き、一方が他方に語り、一方が他方を思い、一方が他方を知る。しかし、彼にとってすべてがアートマンそのものとなった時、何によって誰を嗅ぐのか。何によって誰を見るのか。何によって誰を聞くのか。何によって誰に語るのか。何によって誰を思うのか。何によって誰を知るのか。これら全てを知らしめるものによって、何を知るのか。愛する人よ、知る者を何によって知るのか。