Vedyatra वेदयात्रा
搜索

奥义书 · Kaṭha 2.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Kaṭha 2.1.1

पराञ्चि खानि व्यतृणत् स्वयम्भू-
स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्ष-
दावृत्तचक्षुरमृतत्वमिच्छन् ॥ २.१.१ ॥

自存者(Svayambhū)把诸感官之门向外开凿;因此人向外看,而不见内在的我(ātman)。某位坚定的人渴求不死,便转回双眼,看见了内在的我。

Kaṭha 2.1.2

पराचः कामाननुयन्ति बाला-
स्ते मृत्योर्यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्वं विदित्वा
ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २.१.२ ॥

愚人追随向外的欲望,落入遍布的死亡罗网。而智者既已认知不死(amṛtatva),便不在此无常之中祈求那恒常(dhruva)。

Kaṭha 2.1.3

येन रूपं रसं गन्धं शब्दान् स्पर्शाँश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते ।
एतद्वै तत् ॥ २.१.३ ॥

凭借它可以认知色、味、香、声、触以及欢愉,也正是凭借它而被认知。此处还有什么剩余?此即是彼(tat)。

Kaṭha 2.1.4

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २.१.४ ॥

凭借它可以看见梦境与醒觉两种状态,认识了广大遍在的我(ātman),智者便不再忧愁。

Kaṭha 2.1.5

य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।
एतद्वै तत् ॥ २.१.५ ॥

若有人知道这位食蜜者——近在身边的生命我(jīva,ātman)——是过去与未来的主宰,他便不想躲避它。此即是彼(tat)。

Kaṭha 2.1.6

यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत ।
एतद्वै तत् ॥ २.१.६ ॥

那先从苦行之热而生、先于众水而生、入于洞穴而居、与众生同观之者——此即是彼。

Kaṭha 2.1.7

या प्राणेन संभवत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत ।
एतद्वै तत् ॥ २.१.७ ॥

与气息(prāṇa)一同生起的、充满诸神的阿底提——入于洞穴而居、与众生一同生起者——此即是彼。

Kaṭha 2.1.8

अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ।
एतद्वै तत् ॥ २.१.८ ॥

洞悉一切生者的阿耆尼,置于两根钻木之中,如同被孕妇妥善护持的胎儿;每日被警醒、奉献供物的人们所赞颂——此即是彼。

Kaṭha 2.1.9

यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन ।
एतद्वै तत् ॥ २.१.९ ॥

太阳从中升起、又在其中落下的那一者——一切诸神都依止于它,无人能越过它。此即是彼。

Kaṭha 2.1.10

यदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ २.१.१० ॥

此处所有,彼处亦有;彼处所有,此处亦然。若人于此见似乎的多样,便从死亡走向死亡。

Kaṭha 2.1.11

मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ २.१.११ ॥

此唯以心可得;此处毫无多样。若人于此见似乎的多样,便从死亡走向死亡。

Kaṭha 2.1.12

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।
एतद्वै तत् ॥ २.१.१२ ॥

拇指大小的人住于自我之中。他是过去与未来的主宰;人不因他而退缩。此即彼。

Kaṭha 2.1.13

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ।
एतद्वै तत् ॥ २.१.१३ ॥

拇指大小的人如同无烟之光。他是过去与未来的主宰;他今日在,明日也在。此即彼。

Kaṭha 2.1.14

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ २.१.१४ ॥

如同雨水落在山间崎岖之地,四散奔流,所以那见诸法各自分立的人,便追逐于这些法之后。

Kaṭha 2.1.15

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ २.१.१५ ॥

如同清水倒入清水之中,便完全相同;同样,瞿昙啊,知晓真理的牟尼之我也变得如此。