Vedyatra वेदयात्रा
搜索

奥义书 · Taittirīya 1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Taittirīya 1.1

ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १.१ ॥

唵。愿密特拉对我们吉祥,愿伐楼那对我们吉祥。愿阿耶曼对我们吉祥。愿因陀罗与布里哈斯帕蒂对我们吉祥。愿步伐宽广的毗湿奴对我们吉祥。向梵致敬。向你致敬,风神。你确实是显现的梵。我要称你为显现的梵。我将说正道(ṛta)。我将说真理。愿它保护我,愿它保护说话者。保护我,保护说话者。唵。平安,平安,平安。

Taittirīya 1.2

ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १.२ ॥

唵。我们将解说音韵学(śīkṣā):音(varṇa)、声调(svara)、音长(mātrā)、力度(bala)、和谐(sāma)与连接(santāna)。音韵学一章就此宣说。

Taittirīya 1.3

सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासँहिता इत्याचक्षते । अथाधिलोकम् ।
पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः
वायुः सन्धानम् । इत्यधिलोकम् । अथाधिजौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् ।
आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् । आचार्यः पूर्वरूपम्
अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनँसन्धानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।
पितोत्तररूपम् । प्रजा सन्धिः । प्रजननँसन्धानम् । इत्यधिप्रजलम्
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् ।
इत्यध्यात्मम् । इतीमा महासँहिताः । य एवमेता महासँहिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन ॥ १.३ ॥

愿我们二人一同获得光荣,一同获得梵的光辉。现在我们将解说《集》的奥义,分为五部分:关于诸世界、关于诸光明、关于知识、关于后代、关于自我。它们被称为大集。现在说关于诸世界:地是前形,天是后形,虚空是接合,风是连接。这是关于诸世界的。现在说关于诸光明:火是前形,太阳是后形,水是接合,闪电是连接。这是关于诸光明的。现在说关于知识:师是前形,弟子是后形,知识是接合,教导是连接。这是关于知识的。现在说关于后代:母是前形,父是后形,子嗣是接合,生育是连接。这是关于后代的。现在说关于自我:下颌是前形,上颌是后形,言语是接合,舌是连接。这是关于自我的。这些便是大集。若有人如此知晓这些经过解说的大集,便与子嗣、牲畜、梵的光辉、食物、天界和世界相连。

Taittirīya 1.4

यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्संबभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय
आवहन्ती वितन्वाना कुर्वाणाऽचीरमात्मनः । वासाँसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह ।
लोमशां पशुभिः सह स्वाहा । आमायन्तु ब्रह्मचारिणः स्वाहा । विमायन्तु ब्रह्मचारिणः स्वाहा । प्रमायन्तु ब्रह्मचारिणः स्वाहा ।
दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा
यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा ।
तस्मिन् सहस्रशाखे । निभगाहं त्वयि मृजे स्वाहा । यथाऽऽपः प्रवतायन्ति यथा मासा अहर्जरम् ।
एवं मां ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ १.४ ॥

彼在诗律中为牛,具一切形相,从不死而生于诸韵律之上——愿那因陀罗以其智慧充满我。神啊,愿我成为不死的持有者。愿我的身体警觉,舌头最为甘美,愿我以双耳多闻。你是梵的宝藏,为智慧所覆;请守护我所听闻的。为自己带来、展开、织造不坏的衣裳——衣裳、我的牛、饮食,永远;从那里为我带来吉祥。向罗摩舍与牲畜,娑訶。愿梵行者来到我这里,娑訶。愿他们特别来到我这里,娑訶。愿他们前进,娑訶。愿梵行者自制,娑訶。愿他们平静,娑訶。愿我在人群中有名声,娑訶。愿我胜过富人,娑訶。啊,婆伽,愿我得到你,娑訶。啊,婆伽,愿你进入我,娑訶。在那千枝吠陀中,我无分,在你之中净化自己,娑訶。如水向下流,如月份在日中老去,愿梵行者从四面八方到我这里来,啊创造者,娑訶。你是邻居;照耀我,来到我这里。

Taittirīya 1.5

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामुह स्मैतां चतुर्थीं माहाचमस्यः प्रवेदयते । मह इति ।
तद् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः ।
मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतीँषि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूँषि
मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् ।
अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म ।
सर्वेऽस्मै देवा बलिमावहन्ति ॥ १.५ ॥

Bhūḥ、bhuvaḥ、suvaḥ:这是三个语音(vyāhṛti)。Māhācamasya宣布第四个语音“mahaḥ”。那就是梵(brahman),那就是我(ātman)。其余的神是它的肢体。“Bhūḥ”是此界,“bhuvaḥ”是虚空,“suvaḥ”是彼界,“mahaḥ”是太阳。一切世界都因太阳而被光耀。“Bhūḥ”是火,“bhuvaḥ”是风,“suvaḥ”是太阳,“mahaḥ”是月亮。一切光明都因月亮而被光耀。“Bhūḥ”是诵诗(ṛc),“bhuvaḥ”是歌咏(sāman),“suvaḥ”是祭文(yajus),“mahaḥ”是梵。一切吠陀都因梵而被光耀。“Bhūḥ”是气息(prāṇa),“bhuvaḥ”是下行气(apāna),“suvaḥ”是遍行气(vyāna),“mahaḥ”是食物。一切气息都因食物而被光耀。这四个语音各有四重。知晓它们的人便知晓梵。一切神都为他带来供奉。

Taittirīya 1.6

स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके ।
य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले । भूरित्यग्नौ प्रतितिष्ठति ।
भुव इति वायौ
सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् ।
इति प्राचीनयोग्योपास्स्व ॥ १.६ ॥

在心中有此虚空,在其中有此金色、不死、由意所成的补卢沙(puruṣa)。在上颚与悬雍垂之间垂挂着如乳头般的物事,其来源是因陀罗。在发际分开、穿过头顶骨处,它向上升去。以“bhūḥ”而立于火中,以“bhuvaḥ”而立于风中,以“suvaḥ”而立于太阳中,以“mahaḥ”而立于梵中。他获得自主(svārājya),成为意、语、视、听与知的主宰。于是他成为这样:以虚空为身、以真实为自我、喜乐于气息、以意为喜乐、充满寂静、不死的梵。古之贤者啊,如此去冥想吧。

Taittirīya 1.7

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा ।
इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म माँसँस्नावास्थिमज्जा ।
एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदँ सर्वम् । पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति ॥ १.७ ॥

地、中空、天、方位与中间方位;火、风、日、月与星辰;水、草药、树木、虚空与我(ātman)——此为关于元素者。现说关于内在者:外气、遍气、下气、上气、平气;眼、耳、意、语、皮肤;皮、肉、筋、骨、髓。ṛṣi陈述此后说:这一切是五组。以五组,他确实完成了五组。

Taittirīya 1.8

ओमिति ब्रह्म । ओमितीदँसर्वम् । ओमित्येतदनुकृतिर्हस्म वा अप्यो श्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति ।
ओँशोमिति शस्त्राणि शँसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति ।
ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ॥ १.८ ॥

唵即梵。唵即此一切。唵即其应和;因此人们说“使之听闻”而令其诵出。以唵唱诵娑摩歌。以“唵,舍”诵唱诸shastra。祭司以唵作应答。梵祭司以唵发起。以唵许可火祭。婆罗门将要开口时,以唵说:“愿我得梵”;他确实得到了梵。

Taittirīya 1.9

ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च ।
शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च ।
मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च ।
सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ १.९ ॥

理与诵习传授吠陀;真与诵习传授吠陀;苦行与诵习传授吠陀;克制与诵习传授吠陀;寂静与诵习传授吠陀;诸火与诵习传授吠陀;火祭与诵习传授吠陀;客人与诵习传授吠陀;人之职责与诵习传授吠陀;子嗣与诵习传授吠陀;生育与诵习传授吠陀;种族的延续与诵习传授吠陀。“真”——罗提塔拉的真语如此说。“苦行”——原始苦行者如此说。“唯有诵习传授吠陀”——毛德加利亚的那伽如此说。这确是苦行;这确是苦行。

Taittirīya 1.10

अहं वृक्षस्य रेरिवा कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणँसवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ १.१० ॥

我是树上摇动的果实,我的名声如山巅。向上纯净,富有力量与财富,我是不死者。我具有财富与光辉的灿烂,有善慧,被甘露所洒。这是特利商库的吠陀之言。

Taittirīya 1.11

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ।
देवपितृकार्याभ्यां न प्रमदितव्यम्
मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि ।
यान्यस्माकꣳ सुचरितानि तानि त्वयोपास्यानि । नो इतराणि
ये के चास्मच्छ्रेयाँसो ब्राह्मणाः तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् ।
भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्
ये यत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा वर्तेथाः । अथाभ्याख्यातेषु ।
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकायाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः ।
एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ १.११ ॥

老师传授吠陀之后训诫弟子:要说真话。要行法。不可荒废吠陀的学习。以令老师欢喜的礼物,不要断绝你的家族之线。不可疏忽于真理。不可疏忽于法。不可疏忽于善。不可疏忽于兴盛。不可疏忽于诵习与讲说。不可疏忽于对诸神与祖先的职责。以母为神而侍奉。以父为神而侍奉。以师为神而侍奉。以客为神而侍奉。只应行无可非议的行为,不应行其他。只应效法我们的善行,不应效法其他。对于比我们更尊贵的婆罗门,你应以座位相待。以信而施,不以不信而施。以庄严而施。以知耻而施。以畏惧过错而施。以相互同意而施。若你对行为或品行有疑惑,就应像那里思虑周详、克制、温和、爱好法的婆罗门那样行事。在被控告的情形中也应如此。这是训令,这是教导,这是吠陀的奥义,这是教诲。应当如此观想。

Taittirīya 1.12

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् ।
तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १.१२ ॥

愿密特拉对我们吉祥,愿伐楼那吉祥。愿阿耶曼对我们吉祥。愿因陀罗与布里哈斯帕蒂对我们吉祥。愿步伐宽广的毗湿奴对我们吉祥。敬礼梵。敬礼于你,哦风神。你确实是可以直接感知的梵。我确实要称你为可以直接感知的梵。我宣说了正理。我宣说了真实。愿它保护我。愿它保护说话的人。保护我,保护说话的人。唵,平安,平安,平安。