夜柔吠陀 · 章(Adhyāya) 39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
39.1
स्वाहा प्राणेभ्यः साधिपतिकेभ्यः ।
पृथिव्यै स्वाहा ।
अग्नये स्वाहा ।
अन्तरिक्षे स्वाहा ।
वायवे स्वाहा ।
दिवे स्वाहा ।
सूर्याय स्वाहा ॥ ३९.१ ॥
斡哈(svāhā)。献给与其主宰同在的诸气息,svāhā。献给大地,svāhā。献给阿耆尼(Agni),svāhā。于中空,svāhā。献给风神(Vāyu),svāhā。献给天,svāhā。献给太阳,svāhā。
39.2
दिग्भ्यः स्वाहा ।
चन्द्राय स्वाहा ।
नक्षत्रेभ्यः स्वाहा ।
अद्भ्यः स्वाहा ।
वरुणाय स्वाहा ।
नाभ्यै स्वाहा ।
पूताय स्वाहा ॥ ३९.२ ॥
斡哈(svāhā)。献给方位,svāhā。献给月神,svāhā。献给星宿,svāhā。献给水,svāhā。献给伐楼那(Varuṇa),svāhā。献给脐(中心),svāhā。献给净者,svāhā。
39.3
वाचे स्वाहा ।
प्राणाय स्वाहा ।
प्राणाय स्वाहा ।
चक्षुषे स्वाहा ।
चक्षुषे स्वाहा ।
श्रोत्राय स्वाहा ।
श्रोत्राय स्वाहा ॥ ३९.३ ॥
斡哈(svāhā)。献给言语,svāhā。献给气息,svāhā。献给气息,svāhā。献给眼,svāhā。献给眼,svāhā。献给耳,svāhā。献给耳,svāhā。
39.4
मनसः कामम् आकूतिं वाचः सत्यम् अशीय ।
पशूनाꣳ रूपम् अन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥ ३९.४ ॥
愿我获得心的意愿与决心,言语的真实。愿牲畜之形、食物之精华、名声与光辉安住于我之中,svāhā。
39.5
प्रजापतिः संभ्रियमाणः सम्राट् संभृतो वैश्वदेवः सꣳसन्नो घर्मः प्रवृक्तस् तेज ऽ उद्यत ऽ आश्विनः पयस्या नीयमाने पौष्णो विष्यन्दमाने मारुतः क्लथन् ।
मैत्रः शरसि संताय्यमाने वायव्यो ह्रियमाण ऽ आग्नेयो हूयमानो वाग्घुतः ॥ ३९.५ ॥
生主被聚集时为王者;被聚集者为一切神;沉下的热乳被倾注;光明被举起,属双马童;引导乳汁时属补善;流淌时属风神,滴落;在芦苇中展开时属友神;被携带时属风神之属;被献祭时属火神;以言语献祭。
39.6
सविता प्रथमे ऽहन्न् अग्निर् द्वितीये वायुस् तृतीय ऽ आदित्यश् चतुर्थे चन्द्रमाः पञ्चम ऽ ऋतुः षष्ठे मरुतः सप्तमे बृहस्पतिर् अष्टमे ।
मित्रो नवमे वरुणो दशम ऽ इन्द्र ऽ एकादशे विश्वे देवा द्वादशे ॥ ३९.६ ॥
第一日为萨维特里;第二日为阿耆尼;第三日为伐由;第四日为阿提亚;第五日为月神;第六日为季节;第七日为风暴神;第八日为布里哈斯帕提;第九日为密特拉;第十日为伐楼那;第十一日为因陀罗;第十二日为一切神。
39.7
उग्रश् च भीमश् च ध्वान्तश् च धुनिश् च ।
सासह्वाꣳश् चाभियुग्वा च विक्षिपः स्वाहा ॥ ३९.७ ॥
猛烈者与可怖者,幽暗者与震动者,胜者与进攻者,以及散布者。斯瓦哈。
39.8
अग्निꣳ हृदयेनाशनिꣳ हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना ।
शर्वं मतस्नाभ्याम् ईशानं मन्युना महादेवम् अन्तःपर्शव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम् ॥ ३९.८ ॥
以心供奉阿耆尼,以心尖供奉阿舍尼,以整颗心供奉帕舒帕提,以肝供奉婆婆,以两肾供奉湿婆,以脾(摩尼由)供奉伊萨那,以内肋骨供奉摩诃提婆,以瓦尼什图供奉猛烈之神,以婆悉吒之颚、尸陵尼及柯希亚部位供奉。
39.9
उग्रं लोहितेन मित्रꣳ सौव्रत्येन रुद्रं दौर्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साध्यान् प्रमुदा ।
भवस्य कण्ठ्यꣳ रुद्रस्यान्तःपार्श्व्यं महादेवस्य यकृच् छर्वस्य वनिष्ठुः पशुपतेः पुरीतत् ॥ ३९.९ ॥
以血供奉猛烈者,以守持誓约供奉密特拉,以违犯誓约供奉楼陀罗,以嬉戏供奉因陀罗,以力量供奉摩录多,以喜悦供奉萨提耶。供奉婆婆之喉、楼陀罗之内肋、摩诃提婆之肝、湿婆之瓦尼什图及帕舒帕提之普利陀。
39.10
लोमभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा त्वचे स्वाहा लोहिताय स्वाहा लोहिताय स्वाहा मेदोभ्यः स्वाहा मेदोभ्यः स्वाहा ।
माꣳसेभ्यः स्वाहा माꣳसेभ्यः स्वाहा स्नावभ्यः स्वाहा स्नावभ्यः स्वाहास्थभ्यः स्वाहास्थभ्यः स्वाहा मज्जभ्यः स्वाहा मज्जभ्यः स्वाहा ।
रेतसे स्वाहा पायवे स्वाहा ॥ ३९.१० ॥
向毛发献供 svāhā,向毛发献供 svāhā;向皮肤献供 svāhā,向皮肤献供 svāhā;向血液献供 svāhā,向血液献供 svāhā;向脂肪献供 svāhā,向脂肪献供 svāhā。向肌肉献供 svāhā,向肌肉献供 svāhā;向筋腱献供 svāhā,向筋腱献供 svāhā;向骨骼献供 svāhā,向骨骼献供 svāhā;向骨髓献供 svāhā,向骨髓献供 svāhā。向精液献供 svāhā;向肛门献供 svāhā。
39.11
आयासाय स्वाहा प्रायासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा ।
शुचे स्वाहा शोचते स्वाहा शोचमानाय स्वाहा शोकाय स्वाहा ॥ ३९.११ ॥
向劳累献供 svāhā;向疲惫献供 svāhā;向相聚献供 svāhā;向分离献供 svāhā;向起身献供 svāhā。向悲伤献供 svāhā;向哀悼者献供 svāhā;向被哀悼者献供 svāhā;向忧愁献供 svāhā。
39.12
तपसे स्वाहा तप्यते स्वाहा तप्यमानाय स्वाहा तप्ताय स्वाहा घर्माय स्वाहा ।
निष्कृत्यै स्वाहा प्रायश्चित्त्यै स्वाहा भेषजाय स्वाहा ॥ ३९.१२ ॥
向苦行献供 svāhā;向被炙热者献供 svāhā;向正被烧灼者献供 svāhā;向被烧热者献供 svāhā;向热力献供 svāhā。向赎罪献供 svāhā;向补赎献供 svāhā;向药剂献供 svāhā。
39.13
यमाय स्वाहान्तकाय स्वाहा मृत्यवे स्वाहा ब्रह्मणे स्वाहा ब्रह्महत्यायै स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा द्यावापृथिवीभ्याꣳ स्वाहा ॥ ३९.१३ ॥
向阎摩致敬,斯瓦哈。向终结者(安塔卡)致敬,斯瓦哈。向死亡(mṛtyu)致敬,斯瓦哈。向梵致敬,斯瓦哈。向杀婆罗门之罪致敬,斯瓦哈。向一切天神致敬,斯瓦哈。向天地致敬,斯瓦哈。