Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 40

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

40.1

ईशा वास्यम् इदꣳ सर्वं यत् किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ॥ ४०.१ ॥

这一切,凡在这变动的世界中变动之物,都应由主(Īśa)所遮覆。以舍离而享用之;不要贪求他人的财富。

40.2

कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतꣳ समाः ।
एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे ॥ ४०.२ ॥

在此行持诸业,愿活一百岁。如此对你而言别无他途;业不附着于人。

40.3

असुर्या नाम ते लोका ऽअन्धेन तमसावृताः ।
ताꣳस् ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः ॥ ४०.३ ॥

那些名为阿修利耶的世界被盲目的黑暗所覆盖。凡自杀之人,死后都往那里去。

40.4

अनेजद् एकं मनसो जवीयो नैनद् देवा ऽ आप्नुवन् पूर्वम् अर्शत् ।
तद् धावतो ऽन्यान् अत्य् एति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति ॥ ४०.४ ॥

那一者虽不动,却比意更疾;诸神先前未能追及,因它奔在前面。它虽站立不动,却超越奔跑者;摩怛利湿婆在其中安置诸水。

40.5

तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके ।
तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः ॥ ४०.५ ॥

它动,也不动;它远,也近。它在此一切之内,也在此一切之外。

40.6

यस् तु सर्वाणि भूतान्य् आत्मन्न् एवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न वि चिकित्सति ॥ ४०.६ ॥

而见一切众生皆在自我之中、自我亦在一切众生之中的人,此后便不再疑惑。

40.7

यस्मिन्त् सर्वाणि भूतान्य् आत्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक ऽ एकत्वम् अनुपश्यतः ॥ ४०.७ ॥

对于知者而言,一切众生都已成为唯一的自我,见到一体的人,还有何迷惑、何悲伤呢?

40.8

स पर्य् अगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरꣳ शुद्धम् अपापविद्धम् ।
कविर् मनीषी परिभूः स्वयंभूर् याथातथ्यतो ऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ४०.८ ॥

他遍在一切:光明、无身、无伤、无筋、清净、不被罪恶所刺。他是先知、智者、至上者、自生者,依据真实为永恒的岁月安排了万物。

40.9

अन्धं तमः प्र विशन्ति ये ऽसंभूतिम् उपासते ।
ततो भूय ऽ इव ते तमो य ऽ उ संभूत्याꣳ रताः ॥ ४०.९ ॥

崇拜非生起者进入盲目的黑暗;只沉溺于生起者,则仿佛走入更深的黑暗。

40.10

अन्यद् एवाहुः संभवाद् अन्यद् आहुर् असंभवात् ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥ ४०.१० ॥

他们说,有一物异于生起,又说另一物异于非生起。我们从智者那里如此听闻,他们为我们清楚地解说了它。

40.11

संभूतिं च विनाशं च यस् तद् वेदोभयꣳ सह ।
विनाशेन मृत्युं तीर्त्वा संभूत्यामृतम् अश्नुते ॥ ४०.११ ॥

能将生起与毁灭两者一并了知的人,借毁灭超越死亡,借生起获得不死。

40.12

अन्धं तमः प्र विशन्ति ये ऽविद्याम् उपासते ।
ततो भूय ऽ इव ते तमो य ऽ उ विद्यायाꣳ रताः ॥ ४०.१२ ॥

崇拜无明者进入盲目的黑暗;只沉溺于知识者,则仿佛走入更深的黑暗。

40.13

अन्यद् एवाहुर् विद्याया ऽ अन्यद् आहुर् अविद्यायाः ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे ॥ ४०.१३ ॥

他们说,有一物异于知识,又说另一物异于无明。我们从智者那里如此听闻,他们为我们清楚地解说了它。

40.14

विद्यां चाविद्यां च यस् तद् वेदोभयꣳ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ॥ ४०.१४ ॥

知晓明与无明二者者,以无明度过死亡,以明得至甘露(不死)。

40.15

वायुर् अनिलम् अमृतम् अथेदं भस्मान्तꣳ शरीरम् ।
ओ३म् क्रतो स्मर क्लिबे स्मर कृतꣳ स्मर ॥ ४०.१५ ॥

愿气息归于不死之风,愿此身终于灰烬。唵!愿念之心,当忆起;身啊,当忆起;当忆所作之业。

40.16

अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम ऽ उक्तिं विधेम ॥ ४०.१६ ॥

啊,阿耆尼!引导我们走善道以得财富。啊,天神!你知晓一切道路。请使弯曲的罪离开我们;我们向你献上最多的敬礼之语。

40.17

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
यो ऽसाव् आदित्ये पुरुषः सो ऽसाव् अहम् ।
ओ३म् खं ब्रह्म ॥ ४०.१७ ॥

真理之面被金色器皿所覆盖。那在太阳中的神我,即是我。唵!虚空即是梵。