Vedyatra वेदयात्रा
搜索

奥义书 · Bṛhadāraṇyaka 4.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Bṛhadāraṇyaka 4.5.1

(याज्ञवल्क्यमैत्रेयीसंवादब्राह्मणम्)
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च ।
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव ।
स्त्रीप्रज्ञैव तर्हि कात्यायनी ।
अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ ४.५.१ ॥

(耶若那婆底迦与弥特丽对话的梵书)那时耶若那婆底迦有两位妻子,弥特丽和迦私耶尼。其中弥特丽是梵的论说者,迦私耶尼只有女子的见识。那时耶若那婆底迦打算另行一种生活之道。

Bṛhadāraṇyaka 4.5.2

मैत्रेयीति होवाच याज्ञवल्क्यः ।
प्रव्रजिष्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कत्यायन्यान्तं करवाणीति ॥ ४.५.२ ॥

「弥特丽啊,」耶若那婆底迦说,「我将要从此处出家。那就让我为你与这位迦私耶尼把事情安排妥当吧。」

Bṛhadāraṇyaka 4.5.3

सा होवाच मैत्रेयी
यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितम् ।
तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ४.५.३ ॥

弥特丽说:「尊师啊,若整个大地都充满财富,我会因这财富而不死吗?」耶若那婆底迦说:「不会。」你的生活会像那些拥有财产之人的生活一样。但通过财富获得不死,没有希望。

Bṛhadāraṇyaka 4.5.4

सा होवाच मैत्रेयी
येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ ४.५.४ ॥

梅特丽耶说:“若借此不能使我成为不死者,我要它何用?请尊者只把您所知道的告诉我。”

Bṛhadāraṇyaka 4.5.5

स होवाच याज्ञवल्क्यः
प्रिया वै खलु नो भवती सती प्रियमवृधत् ।
हन्त तर्हि ।
भवत्येतद्व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४.५.५ ॥

耶若婆佉说:“你是我们所爱的人,作为所爱的人,你增添了所爱之事。好吧,那么我就向你解释这件事。我解释的时候,你要静心思考。”

Bṛhadāraṇyaka 4.5.6

स होवाच ।
न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे पशूनां कामाय पशवः प्रियं भवत्यात्मनस्तु कामाय पशवः प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ ४.५.६ ॥

他说:“确实,丈夫并非因为丈夫本身而可爱,而是因为阿特曼才使丈夫可爱。确实,妻子并非因为妻子本身而可爱,而是因为阿特曼才使妻子可爱。确实,儿子并非因为儿子本身而可爱,而是因为阿特曼才使儿子可爱。确实,财富并非因为财富本身而可爱,而是因为阿特曼才使财富可爱。确实,牲畜并非因为牲畜本身而可爱,而是因为阿特曼才使牲畜可爱。确实,婆罗门性并非因为婆罗门性本身而可爱,而是因为阿特曼才使其可爱。确实,刹帝利性并非因为刹帝利性本身而可爱,而是因为阿特曼才使其可爱。确实,诸世界并非因为诸世界本身而可爱,而是因为阿特曼才使其可爱。确实,诸神并非因为诸神本身而可爱,而是因为阿特曼才使其可爱。确实,诸吠陀并非因为诸吠陀本身而可爱,而是因为阿特曼才使其可爱。确实,众生并非因为众生本身而可爱,而是因为阿特曼才使其可爱。确实,一切并非因为一切本身而可爱,而是因为阿特曼才使一切可爱。确实,阿特曼应当被见、被闻、被思、被静观,哦,梅特丽耶。确实,当阿特曼被见、被闻、被思、被知时,这一切便都被知了。”

Bṛhadāraṇyaka 4.5.7

ब्रह्म तं परादाद्योऽन्यत्रात्मनो वेदान् वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ४.५.७ ॥

凡视吠陀为异于自我(ātman)者,梵便舍弃他。凡视刹帝利之力为异于自我者,刹帝利之力便舍弃他。凡视诸世界为异于自我者,诸世界便舍弃他。凡视诸神为异于自我者,诸神便舍弃他。凡视吠陀为异于自我者,吠陀便舍弃他。凡视诸有情为异于自我者,诸有情便舍弃他。凡视一切为异于自我者,一切便舍弃他。此即梵,此即刹帝利之力,此即诸世界,此即诸神,此即吠陀,此即诸有情,此即一切——此自我(ātman)即是彼。

Bṛhadāraṇyaka 4.5.8

स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ४.५.८ ॥

譬如鼓被击打时,无法单独捕捉外在的各种声音,但若捕捉到鼓本身,或捕捉到击鼓之声,声音便被把握。同样,自我(ātman)是通过其根本实在而被认识,而非通过各自分离的外在声音。

Bṛhadāraṇyaka 4.5.9

स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ४.५.९ ॥

譬如海螺被吹奏时,无法单独捕捉外在的各种声音,但若捕捉到海螺本身,或捕捉到吹螺之声,声音便被把握。同样,自我(ātman)是通过其根本实在而被认识,而非通过各自分离的外在声音。

Bṛhadāraṇyaka 4.5.10

स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः ॥ ४.५.१० ॥

譬如琵琶(vīṇā)被弹奏时,无法单独捕捉外在的各种声音,但若捕捉到琵琶本身,或捕捉到弹奏之声,声音便被把握。同样,自我(ātman)是通过其根本实在而被认识,而非通过各自分离的外在声音。

Bṛhadāraṇyaka 4.5.11

स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि ।
अस्यैवैतानि सर्वाणि निश्वसितानि ॥ ४.५.११ ॥

就像用湿柴点燃的火中分别冒出烟雾,哦,弥勒女,这伟大存在的呼出,便是《梨俱吠陀》、《夜柔吠陀》、《娑摩吠陀》、《阿闼婆-安吉罗》、史事、往世书、诸明、奥义书、颂诗、经句、释义与注疏。祭祀、供品、食物、饮料、此世、彼世以及一切众生,都是它的呼吸。

Bṛhadāraṇyaka 4.5.12

स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥ ४.५.१२ ॥

正如大海是一切水的唯一归宿,皮肤是一切触觉的唯一归宿;同样,两鼻孔是一切气味的唯一归宿;舌是一切滋味的唯一归宿;眼是一切色相的唯一归宿;耳是一切声音的唯一归宿;意是一切思念的唯一归宿;心是一切明智的唯一归宿;双手是一切作为的唯一归宿;生殖器是一切欢乐的唯一归宿;肛门是一切排泄的唯一归宿;双足是一切道路的唯一归宿;言语是一切吠陀的唯一归宿。

Bṛhadāraṇyaka 4.5.13

स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव ।
एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनयति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ ४.५.१३ ॥

正如一块岩盐,内外皆是纯然一味的咸,哦,弥勒女,此我也是内外皆纯然一团净智。它从诸大种中升起,又复消融于其中。死后便无所谓知觉,哦,弥勒女,我如是说。耶若婆佉如是说。

Bṛhadāraṇyaka 4.5.14

सा होवाच मैत्रेयी
अत्रैव मा भगवान्मोहान्तमापीपदत् ।
न वा अहमिमं विजानामीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥ ४.५.१४ ॥

弥勒女说:“尊者啊,就在这里,您使我陷入了迷惑之深渊,因为我不明白这一点。”耶若婆佉说:“哦,弥勒女,我并不是说迷惑。这个我确实是不坏的,哦,弥勒女;它的本性是不可被断灭、不可被毁坏的。”

Bṛhadāraṇyaka 4.5.15

यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरं रसयते, तदितर इतरमभिवदति, तदितर इतरं शृणोति, तदितर इतरं मनुते. तदितर इतरं स्पृशति, तदितर इतरं विजानाति ।
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते न रिष्यति ।
विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेयि ।
एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ ४.५.१५ ॥

在仿佛有二元之处,一者看见另一者,嗅到另一者,品尝另一者,与另一者言语,听见另一者,思念另一者,触摸另一者,认识另一者。但当对他而言一切都只是自我(ātman)时,那他用什么去看谁,用什么去嗅谁,用什么去尝谁,用什么去与谁言语,用什么去听谁,用什么去思念谁,用什么去触摸谁,用什么去认识谁?那借以认识这一切者,又能用什么去认识?他就是这自我,被描述为“非此,非此”。他不可把握,因为他不被把握;他不可毁坏,因为他不被毁坏;他无所执著,因为他不附着;他无所缚,不受苦,不被伤害。弥多丽啊,“认识认识者,又用什么去认识?”——这便是我给你的教导。仅此便是不死,耶若那婆耳迦说完便离去了。