Vedyatra वेदयात्रा
搜索

奥义书 · Bṛhadāraṇyaka 6.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Bṛhadāraṇyaka 6.3.1

तृतीयं ब्राह्मणम् (ज्येष्ठब्राह्मणं वा प्राणविद्याब्राह्मणम्)
स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति
यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् ।
तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा ।
या तिरश्ची निपद्यसेऽहं विधरणी इति ।
तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ ६.३.१ ॥

这是第三梵书,也称长者梵书或气息知识梵书。欲得大者,在太阳北行时,于白半月的吉日,行十二日奥萨德誓,以无花果木的器皿或杯子收集一切草药与果实,将周围扫净涂抹,生起火焰,铺设吉祥草,以酥油浇灌备妥供物,将搅拌的混合物与阳性名称的星宿相混,然后献祭。哦,耶陀伐陀,你之中有多少神灵阻挡斜行之人的欲望,我便向他们献上一份;愿他们满足后,以一切欲望使我满足,娑婆诃。斜卧的你,我是支持者;我以酥油之流礼拜那带来成功者,娑婆诃。

Bṛhadāraṇyaka 6.3.2

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ६.३.२ ॥

以「娑婆诃归于长者,娑婆诃归于最胜者」献入火中后,将滴落的部分注入搅拌的混合物。以「娑婆诃归于气息,娑婆诃归于婆悉吒」献入火中后,将滴落的部分注入混合物。以「娑婆诃归于言语,娑婆诃归于根基」献入火中后,将滴落的部分注入混合物。以「娑婆诃归于眼,娑婆诃归于富足」献入火中后,将滴落的部分注入混合物。以「娑婆诃归于耳,娑婆诃归于住处」献入火中后,将滴落的部分注入混合物。以「娑婆诃归于意,娑婆诃归于后代」献入火中后,将滴落的部分注入混合物。以「娑婆诃归于精液」献入火中后,将滴落的部分注入混合物。

Bṛhadāraṇyaka 6.3.3

अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ६.३.३ ॥

他在火中献供,念“致阿耆尼,娑婆诃”,然后从搅拌器中倒出剩余的汁液(saṃsrava)。依次念“致苏摩,娑婆诃”,“地,娑婆诃”,“空界,娑婆诃”,“天,娑婆诃”,“地空天,娑婆诃”,“致梵,娑婆诃”,“致刹帝利之力,娑婆诃”,“致已生者,娑婆诃”,“致当生者,娑婆诃”,“致一切世界,娑婆诃”,“致全体,娑婆诃”,最后“致生主,娑婆诃”,每次都向火中献供并倒出搅拌器中的汁液。

Bṛhadāraṇyaka 6.3.4

अथैनमभिमृशति भ्रमदसि ।
ज्वलदसि ।
पूर्णमसि ।
प्रस्तब्धमसि ।
एकसभमसि ।
हिङ्कृतमसि ।
हिङ्क्रियमानमसि ।
उद्गीथमसि ।
उद्गीयमानमसि ।
श्रावितमसि ।
प्रत्याश्रावितमसि ।
आर्द्रे संदीप्तमसि ।
विभूरसि ।
प्रभूरसि ।
अन्नमसि ।
ज्योतिरसि ।
निधनमसि ।
संवर्गोऽसीति ॥ ६.३.४ ॥

然后他触摸它,说:“你是旋转者,你是燃烧者,你是圆满者,你是坚定者,你是唯一的集会,你以‘哼’声被歌唱,你被以‘哼’声歌唱,你是乌德吉塔,你是被歌唱者,你被宣告,你被应答,你在湿润中燃烧得很旺,你是遍在者,你是强大者,你是食物,你是光明,你是归宿(nidhana),你是收摄者(saṃvarga)。”

Bṛhadāraṇyaka 6.3.5

अथैनमुद्यच्छत्यामंस्यामं हि ते महि ।
स हि राजेशानोऽधिपतिः ।
स मां राजेशनोऽधिपतिं करोत्विति ॥ ६.३.५ ॥

然后他举起它,说:“我将握住你,因为你伟大。他确实是国王、主宰、统治者。愿他使我成为国王、主宰、统治者。”

Bṛhadāraṇyaka 6.3.6

अथैनमाचामति
तत्सवितुर्वरेण्यम् ।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ।
भूः स्वाहा ।
भर्गो देवस्य धीमहि
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता ।
भुवः स्वाहा ।
धियो यो नः प्रचोदयात् ।
मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः ।
माध्वीर्गवो भवन्तु नः ।
स्वः स्वाहा ।
सर्वां च सावित्रीमन्वाह ।
सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति ।
प्रातरादित्यमुपतिष्ठते ।
दिशामेकपुण्डरीकमसि ।
अहं मनुष्याणामेकपुण्डरीकं भूयासमिति ।
यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ ६.३.६ ॥

然后他漱水以行仪式:“我们冥想富有光辉的天神萨维德里的卓越光明。”愿风为遵循真理者吹来蜜;愿河流流出蜜;愿草药对我们甘美。Bhūḥ svāhā。愿夜晚与黎明甘甜,愿大地世界充满甘甜,愿天空成为我们的父亲。Bhuvaḥ svāhā。那位驱动我们思想的神。愿树木为我们充满甘甜,愿太阳充满甘甜,愿牛群对我们甘美。Svaḥ svāhā。随后他诵读整部《萨维德里》及所有“甜蜜”诗节,最后说:“愿我成为这一切——bhūr bhuvaḥ svaḥ svāhā。”漱水、洗手之后,他坐在火的后面,面向东方。黎明时他面对太阳站立:“你是方位中的唯一莲花;愿我成为人类中的唯一莲花。”他循原路返回,坐于火后,诵念传承的世系。

Bṛhadāraṇyaka 6.3.7

तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६.३.७ ॥

乌达拉迦·阿鲁尼对瓦查萨涅耶·耶若婆尔迦的弟子说了这些话,然后说:“如果有人把水洒在这截枯干的树桩上,它会长出枝条、抽出叶子吗?”

Bṛhadāraṇyaka 6.3.8

एतमु हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६.३.८ ॥

瓦查萨涅耶之子耶若婆尔迦对摩度迦·百耆耶的弟子说了同样的教导,然后说:“如果有人把水洒在这截枯干的树桩上,它会长出枝条、抽出叶子吗?”

Bṛhadāraṇyaka 6.3.9

एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६.३.९ ॥

摩度迦·百耆耶对朱拉·跋伽维提的弟子说了同样的教导,然后说:“如果有人把水洒在这截枯干的树桩上,它会长出枝条、抽出叶子吗?”

Bṛhadāraṇyaka 6.3.10

एतमु हैव चूलो भागवित्तिर्जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६.३.१० ॥

Bhāgavitti Cūla 对 Jānaka Āyaḥsthūṇa 的弟子说:「如果有人把水浇在这截枯树桩上,它会长出枝条,生出叶子吗?」

Bṛhadāraṇyaka 6.3.11

एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ६.३.११ ॥

Jānaki Āyaḥsthūṇa 对 Jābāla 之子、名叫 Satyakāma 的弟子说了同样的话:「如果有人把水浇在这截枯树桩上,它会长出枝条,生出叶子吗?」

Bṛhadāraṇyaka 6.3.12

एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोव अचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ।
तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ ६.३.१२ ॥

Satyakāma Jābāla 对他的弟子说:「如果有人把水浇在这截枯树桩上,它会长出枝条,生出叶子吗?」这一教导不应传给没有儿子的人,也不应传给不是弟子的人。

Bṛhadāraṇyaka 6.3.13

चतुरौदुम्बरो भवति ।
औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ ।
दश ग्राम्याणि धान्यानि भवन्ति ।
व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च ।
तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति ।
आज्यस्य जुहोति ॥ ६.३.१३ ॥

有四件用优敦波罗(无花果)木制成的器具:木勺(sruva)、木杯(camasa)、木柴(idhma)以及两根木搅棒(upamanthanī)。有十种村庄谷物:稻米和大麦、芝麻和黑绿豆、细小稷与狐尾稷、小麦、扁豆、鹰嘴豆以及芝麻饼。他将它们磨碎,与凝乳、蜂蜜和酥油混合,并以澄清黄油作为供奉献上。