Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 1.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 1.2.1

देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १.२.१ ॥

诸神与阿修罗(asura),二者皆为生主(Prajāpati)之裔,相互争斗。于是诸神取用乌德伽(udgītha,圣音),心想:「以此我们将胜过他们。」

Chāndogya 1.2.2

ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे तꣳ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ १.२.२ ॥

他们以鼻中之气息(prāṇa)为乌德伽而崇拜之。阿修罗以恶行刺穿了它;因此,人借此既嗅到芳香,也嗅到恶臭,因为它被罪恶所刺穿。

Chāndogya 1.2.3

अथ ह वाचमुद्गीथमुपासांचक्रिरे ताꣳ हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ॥ १.२.३ ॥

于是,他们将言语作为乌德吉陀来冥想。阿修罗以恶将其刺穿。因此,人借此既说真理也说虚假,因为这言语被恶所刺穿。

Chāndogya 1.2.4

अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.४ ॥

于是,他们将眼睛作为乌德吉陀来冥想。阿修罗以恶将其刺穿。因此,人借此既看可看之物也看不可看之物,因为这眼睛被恶所刺穿。

Chāndogya 1.2.5

अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयꣳ शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.५ ॥

于是,他们将听觉作为乌德吉陀来冥想。阿修罗以恶将其刺穿。因此,人借此既听可听之声也听不可听之声,因为这听觉被恶所刺穿。

Chāndogya 1.2.6

अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयꣳ संकल्पते संकल्पनीयं चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.६ ॥

于是,他们将心意作为乌德吉陀来冥想。阿修罗以恶将其刺穿。因此,人借此既思量应当思量之事,也思量不应思量之事,因为这心意被恶所刺穿。

Chāndogya 1.2.7

अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे तꣳ हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वꣳ सेतैवम् ॥ १.२.७ ॥

于是他们把这主要的气息(prāṇa)当作咏唱(udgītha)来修习。阿修罗撞上它便被毁灭,如同土块撞上石头而碎裂。

Chāndogya 1.2.8

यथाश्मानमाखणमृत्वा विध्वꣳ सत एवꣳ हैव स विध्वꣳसते य एवंविदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माखणः ॥ १.२.८ ॥

正如土块撞上石头便碎裂,同样,对如此知晓者心怀恶念或加以伤害的人,也会以同样的方式破碎。这就是石头与土块的比喻。

Chāndogya 1.2.9

नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति ॥ १.२.९ ॥

因此他不辨香臭,因为此气息已离罪恶;它以所食所饮来养护其余的气息。最终,他不知此理,离去时张开了口——最终便是如此。

Chāndogya 1.2.10

तꣳ हाङ्गिरा उद्गीथमुपासाञ्चक्र एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ १.२.१० ॥

安吉罗斯正是修习此咏唱(udgītha)。人们认为它属安吉罗斯,因为它是诸肢体的精华。

Chāndogya 1.2.11

तेन तꣳ ह बृहस्पतिरुद्गीथमुपासञ्चक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ १.२.११ ॥

因此,brhaspati 修习此 udgītha。人们正是把这一位视为 Bṛhaspati,因为言语即是“大者”(bṛhatī),而此即是它的主。

Chāndogya 1.2.12

तेन तꣳ हायास्य उद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते ॥ १.२.१२ ॥

因此,āyāsya 修习此 udgītha。人们正是把这一位视为 Āyāsya,因为它是从口中发出的。

Chāndogya 1.2.13

तेन तꣳ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १.२.१३ ॥

因此,dālbhya baka 知晓了它。他成为 naimiśa 人的 udgātā(歌者),并为他们通过吟唱而获得所欲之物。

Chāndogya 1.2.14

आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १.२.१४ ॥

若人如此知晓而修习这不灭的 udgītha,他便确实成为获得所欲者。这是关于自我(adhyātmam)的。