Vedyatra वेदयात्रा
検索

ウパニシャッド · Kaṭha 2.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

Kaṭha 2.2.1

पुरमेकादशद्वारमजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ।
एतद्वै तत् ॥ २.२.१ ॥

十一の門を持つ都は、不生にして心の真っ直ぐなるものに属する。それを観想する者は憂えず、解脱した者は完全に解脱する。これこそがそれである。

Kaṭha 2.2.2

हँसः शुचिषद्वसुरान्तरिक्षसद्-
होता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसद्
अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २.२.२ ॥

白鳥は清浄に住み、ヴァスとして空中に住む。それはホートリであり、祭壇に座し、家に住む客人である。人々の中に、尊き者の中に、真理の中に、天空に住む。水から生まれ、大地から生まれ、真理から生まれ、山から生まれる。それは真理であり、偉大なるものである。

Kaṭha 2.2.3

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ २.२.३ ॥

彼は上へプラーナを持ち上げ、下へアパーナを送り出す。中央に座すヴァーマナ(小人)を、すべての神々が礼拝する。

Kaṭha 2.2.4

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते ।
एतद्वै तत् ॥ २.२.४ ॥

この身体に宿る受肉した者が崩れ去り身体から解放されるとき、ここに何が残るのか。まさにこれが、それである。

Kaṭha 2.2.5

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ २.२.५ ॥

死すべき者はプラーナによっても、アパーナによっても生きるのではない。この二つが依拠する、別のものによって彼らは生きるのである。

Kaṭha 2.2.6

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ २.२.६ ॥

聞きなさい、ゴータマよ。私はこの秘密の永遠なるブラフマンを、そして死に至ったアートマンがどうなるかを、あなたに語ろう。

Kaṭha 2.2.7

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ २.२.७ ॥

ある者は行為と学んだことに応じて身体を得るために胎に入り、別の者は不動の形(sthāṇu)へと赴く。

Kaṭha 2.2.8

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।
एतद्वै तत् ॥ २.२.८ ॥

他の者が眠る間も目覚め、欲望に次ぐ欲望を造り出すそのプルシャこそ、清浄なるものである。それがブラフマンであり、ただそれのみが不死と呼ばれる。すべての世界はそれに依り、誰もそれを超えることはない。これがまさにそれである。

Kaṭha 2.2.9

अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥ २.२.९ ॥

ひとつの火が世界に入り、それぞれの形に応じた形をとるように、すべての存在の内なるアートマンもひとつであり、それぞれの形に応じた形をとり、外にも存在する。

Kaṭha 2.2.10

वायुर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश्च ॥ २.२.१० ॥

ひとつの風が世界に入り、それぞれの形に応じた形をとるように、すべての存在の内なるアートマンもひとつであり、それぞれの形に応じた形をとり、外にも存在する。

Kaṭha 2.2.11

सूर्यो यथा सर्वलोकस्य चक्षुः
न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः ॥ २.२.११ ॥

太陽は全世界の眼であるが、目に見える外的な汚れに染まることはない。同様に、すべての存在の内なる我(ātman)は一つであり、世間の苦しみに染まることなく、それから離れて在る。

Kaṭha 2.2.12

एको वशी सर्वभूतान्तरात्मा
एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां सुखं शाश्वतं नेतरेषाम् ॥ २.२.१२ ॥

唯一の支配者であり、すべての存在の内なる我(ātman)、一つの姿を多様に作り出す者。自己の内に住む彼を見る堅固な賢者たちにのみ永遠の幸福があり、他の者にはない。

Kaṭha 2.2.13

नित्योऽनित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तमात्मस्थं येऽनुपश्यन्ति धीराः
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ २.२.१३ ॥

無常のものの中の常住者、意識あるものの中の意識者、多くの者の願いを一つでかなえる者。自己の内に住む彼を見る堅固な賢者たちにのみ永遠の寂静があり、他の者にはない。

Kaṭha 2.2.14

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ २.२.१४ ॥

「それがこれだ」と彼らは考える。言葉で表せない至上の喜びを。では私はどうしてそれを知ることができようか。それは輝くのか、それとも現れて輝くのか。

Kaṭha 2.2.15

न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ २.२.१५ ॥

そこでは太陽も輝かず、月も星々も輝かない。これらの稲妻も輝かず、ましてやこの火は(輝かない)。彼が輝くとき、すべてがその後に輝く。彼の光によって、この全てが輝き出る。