Vedyatra वेदयात्रा
搜索

奥义书 · Kauṣītaki 2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Kauṣītaki 2.1

प्राणो ब्रह्मेति ह स्माह कौषीतकिस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वाक्परिवेष्ट्री चक्षुर्गात्रं श्रोत्रं संश्रावयितृ तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलिं हरन्ति तथो एवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद तस्योपनिषन्न याचेदिति । तद्यथा ग्रामं भिक्षित्वाऽलब्धोपविशेन्नाहमतो दत्तमश्नीयामिति । य एवैनं पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम त इत्येष धर्मो याचतो भवति । अन्यतस्त्वेवैनमुपमन्त्रयन्ते ददाम त इति ॥ २.१ ॥

考湿多吉说:气息即是梵。对于这作为梵的气息,意是使者,言语是侍奉者,眼是守护者,耳是传告者。对这作为梵的气息,诸神不待求取便带来祭品;同样,对于如此知者,一切众生不待他求取便带来祭品。其秘义是:不应求取。如同一人在村中乞食而一无所得,便坐下思道:“我不吃他所给的东西”;先前拒绝他的人随后又邀请他:“我们会给你”;这是求取者的常规。但也有其他人邀请他:“我们会给你。”

Kauṣītaki 2.2

प्राणो ब्रह्मेति ह स्माह पैङ्ग्यस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो वाक्परस्ताच्चक्षुरारुन्धे चक्षुः परस्ताच्छ्रोत्रमारुन्धे श्रोत्रं परस्तान्मन आरुन्धे मनः परस्तात्प्राण आरुन्धे तस्मै वा एतस्मै वा प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलिं हरन्ति एवास्मै सर्वाणि भूतान्ययचमानायैव बलिं हरन्ति य एवं वेद तस्यॊपनिषन्न याचेदिति तद्यथा ग्रामं भिक्षित्वाऽलब्ध्वोपविशेन्नाहमतो दत्तमश्नीयामिति य एवैनं पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम त इत्येष धर्मो याचितो भवत्यन्यतस्त्वेवैनमुपमन्त्रयन्ते ददाम त इति ॥ २.२ ॥

Paiṅgya 说:「生气即梵。」高于这生气-梵的是言语,因此言语达到眼睛。高于眼睛的是听觉,因此听觉达到意。高于意的是生气,因此意达到生气。对于知此且不乞求的人,所有天神都为这生气-梵奉上供品;同样,一切众生也为他奉上供品。其秘密教诲是:「不应乞求。」就像一个人在村中乞食,一无所获,坐下说:「我不吃这里给的东西」,那些先前拒绝他的人便反过来恳求他:「我们会给。」这就是常规:乞求则得;但即使从他人那里,他们也恳求他:「我们会给。」

Kauṣītaki 2.3

अथात एकधनावरोधनं यदेकधनमभिध्यायात्पौर्णमास्यां वाऽमावास्यायां वा शुद्धपक्षे वा पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिसमुह्य परिस्तीर्य पर्युक्ष्योपूर्वदक्षिणं जान्वाच्य स्रुवेण वा चमसेन वा कंसेन वैता आज्याहुतीर्जुहोति वाङ्नामदेवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । प्राणॊ नाम देवताऽवरॊधिनी सा मेमुष्मादिदमवरुन्धां तस्यै स्वाहा । चक्षुर्नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । श्रोत्रं नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहा । मनो नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाह। प्रज्ञा नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्धां तस्यै स्वाहेत्यथ धूमगन्धं प्रजिघ्रायाज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रवृज्यार्थं ब्रवीत दूतं वा प्रहिणुयाल्लभते हैव ॥ २.३ ॥

现在讲获得一件财物的方法。欲求一件财物者,在满月或新月之日,或在白分,或在吉祥的星宿之下,升起火,四周扫净,铺设吉祥草,洒水,右膝向前弯屈,用勺、杯或钵,供上这些酥油献祭:「名为言语的神,能获取者:愿她从他那里为我获得此物——归于她,斯瓦哈。」「名为气息的神……」「名为视觉的神……」「名为听觉的神……」「名为意的神……」「名为智慧(prajñā)的神……」然后,嗅闻烟的气味,以酥油涂抹肢体,守口不言,前往陈述所求,或派遣使者;他确实能获得。

Kauṣītaki 2.4

अथातो दैवस्मरो यस्य प्रियो बुभूषेद्यस्यै वा एषां वै तेषामेवैकस्मिन्पर्वण्यग्निमुपसमाधायैतयैवावृतैता आज्याहुतीर्जुहोति वाचं मयि जुहॊम्यसौ स्वाहा । चक्षुस्ते मयि जुहोम्यसौ स्वाहा । श्रॊत्रं ते मयि जुहॊम्यसौ स्वाहा । मनस्ते मयि जुहॊम्यसौ स्वाहा । प्रज्ञां ते मयि जुहोम्यसौ स्वाहेत्यथ धूमगन्धं प्रजिघ्रायाज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रवृज्य संस्पर्शं जिगमिषेदपि वाताद्वा सम्भाषमाणस्तिष्ठेत्प्रियो हैव भवति स्मरन्ति हैवास्य ॥ २.४ ॥

现在说忆念诸神之仪:欲使自己被爱,或为之行此仪者,应于同一场合点燃火,以此咒语献上酥油供物:“我将你的语言供奉于我之中,某某,娑婆诃。我将你的视觉供奉于我之中,某某,娑婆诃。我将你的听觉供奉于我之中,某某,娑婆诃。我将你的心供奉于我之中,某某,娑婆诃。我将你的智慧供奉于我之中,某某,娑婆诃。”然后他应嗅闻烟的气味,以酥油涂抹肢体,默然而归,并求被触碰;或者即使与风说话,也应站立。他便被人所爱,人们也会记念他。

Kauṣītaki 2.5

अथातः सायमन्नं प्रातर्दनमान्तरमग्निहोत्रमिति चाचक्षते यावद्वै पुरुषो भाषते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि जुहोति । यावद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोति । एतेऽनन्तेऽमृताहुतिर्जाग्रच्च स्वपंश्च सन्ततमव्यवच्छिन्नं जुहोत्यथ या अन्या आहुतयोऽन्तवत्यस्ताः कर्ममय्यो हि भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं न जुहवांचक्रुः ॥ २.५ ॥

现在称之为晚间之食、晨间之施、内在的阿耆尼享祀。人说话之时,便不能呼吸;此时他将呼吸供入言语。人呼吸之时,便不能说话;此时他将言语供入呼吸。这两者是无尽的不死供物,无论醒着还是睡着,都不间断地供奉。而其他有尽的供物是业所成的。确实,古代的智者认识到这就是阿耆尼享祀,因此他们不行外在的阿耆尼享祀。

Kauṣītaki 2.6

उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गरस्तदृगित्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठ्यायाभ्यर्च्यन्ते तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठ्याय युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठ्याय सन्नमन्ते तच्छ्रीरित्युपासीत तद्यश इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छास्त्राणां श्रीमत्तमं यशस्वितमं तेजस्वितमं भवति । तथैवैवं विद्वान्सर्वेषां भूतानां श्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति । तमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति तस्मिन्यजुर्मयं प्रवयति यजुर्मयम् ऋङ्मयं होता ऋङ्मये साममयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उ एवास्यात्मा एतदात्मा भवति य एवं वेद ॥ २.६ ॥

Uktha即是梵,Śuṣka-Bhṛṅgara如是说;应当将其作为ṛc而冥想,因其殊胜,一切众生皆受尊敬。应当将其作为yajus而冥想,因其殊胜,一切众生皆相联结。应当将其作为sāman而冥想,因其殊胜,一切众生皆俯首。应当将其作为吉祥(śrī)、名声(yaśas)、光辉(tejas)而冥想。正如此在诸经典中最为庄严、最为著名、最为光明,知此者亦成为一切众生中最为庄严、最为著名、最为光明者。祭司(adhvaryu)准备那由业所成的自我,即砖坛;将yajus之我置于其中。主祭(hotṛ)将ṛc之我置于ṛc中,诵歌祭司(udgātṛ)则确立sāman之我。这是三吠陀知识全体的自我;这确实是他的自我,对于如此知者,这便成为自我。

Kauṣītaki 2.7

अथातः सर्वजितः कौषीतकेस्त्रीण्युपासनानि भवन्ति यज्ञोपवीतं कृत्वाप आचम्य त्रिरुदपात्रं प्रसिच्योद्यन्तमादित्यमुपतिष्ठेत वर्गोऽसि पाप्मानं मे वृङ्धीत्येतयैवावृता मध्ये सन्तमुद्वर्गोऽसि पाप्मानं मे वृङ्धीत्येतयैवावृताऽस्तं यन्तं संवर्गोऽसि पाप्मानं मे संवृङ्धीति । यदहोरात्राभ्यां पापं करोति सं तद्वृङ्क्ते ॥ २.७ ॥

现在有萨尔瓦吉特·考希塔基的三种冥想。披上圣线,以水漱口,三次从水器中倾水,然后应站在初升的太阳前。用此同一诗句说:“你是解脱者,除去我的罪恶”;转身面向中天的太阳,说:“你是向上的解脱者,除去我的罪恶”;面向落日,说:“你是圆满的收摄者,彻底除去我的罪恶”。无论一个人白天或夜晚所犯的罪恶,他由此便得以完全解脱。

Kauṣītaki 2.8

अथ मासि मास्यमावास्यायां पश्चाच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवावृता हरिततृणाभ्यां वाक्प्रत्यस्यति यत्ते सुसीमं हृदयमधि चन्द्रमसि श्रितं तेनामृतत्वस्येशानं माहं पौत्रमघं रुदमिति न हास्मात्पूर्वाः प्रजाः प्रयन्तीति नु जातपुत्रस्याथाजातपुत्रस्याप्यायस्व समेतु ते सन्ते पयांसि समुयन्तु वाजा यमादित्या अंशुमाप्याययन्तीत्येतास्तिस्र ऋचो जपित्वा मास्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठा यॊऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिराप्यायस्वेति दैवीमावृतमावर्त आदित्यस्यावृतमन्वावर्तयति दक्षिणं बाहुमन्वावर्तते ॥ २.८ ॥

现在每月初一,应站在从背后所见的月亮近旁。用此同一诗句,转身,以绿草将言语送回:“你的善界之心,安住于月亮之中,愿我借此成为不死的主宰;愿我不见我的孙子、罪恶与哭泣。”说:“前代子孙不离去”,无论是已有儿子的人还是尚无儿子的人,都应诵念三首诗句:“愿你得到滋养,愿汁液在你之中聚集,愿力量在阿底提耶所滋养的光线中聚集”;以及“愿你不因我们的气息、子孙与牲畜而得滋养;用气息、子孙与牲畜滋养那恨我们的人,以及我们所恨的人。”于是以神圣的旋转转动太阳的旋转,并转动右臂。

Kauṣītaki 2.9

अथ पौर्णमास्यां पुरस्ताच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवावृता सोमो राजासि विचकक्षणः पञ्चमुखोऽसि प्रजापतिर्ब्राह्मणस्त एकं मुखं तेन मुखेन राज्ञोऽत्सि तेन मुखेन मामन्नादं कुरु राजा त एकं मुखं तेन मुखेन विशोत्सि तेनैव मुखेन मामन्नादं कुरु श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽत्सि तेन मुखेन मामन्नादं कुरु अग्निष्ट एकं मुखं तेन मुखेनेमं लोकमत्सि तेन मुखेन मामन्नादं कुरु त्वयि पञ्चमं मुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन मामन्नादं कुरु मास्माकं प्राणेन प्रजया पशुभिरवक्षेष्ठा योऽस्माद्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिरवक्षीयस्वेति दैवीमावृतमावर्त आदित्यस्यावृतमन्वावर्तन्त इति दक्षिणं बाहुमन्वावर्तते ॥ २.९ ॥

然后在满月之日,应面向前方可见的月亮,诵此咒:“苏摩啊,你是王,洞见一切。你是五面的生主。婆罗门,你有一面;以此面你吞食王者;以此同一面使我成为食物的享用者。王啊,你有一面;以此面你吞食民众;以此同一面使我成为食物的享用者。鹰啊,你有一面;以此面你吞食飞鸟;以此同一面使我成为食物的享用者。火啊,你有一面;以此面你吞食此世界;以此同一面使我成为食物的享用者。你身中有第五面;以此面你吞食一切众生;以此同一面使我成为食物的享用者。不要减损我们的气息、子嗣、牲畜。愿憎恨我们的人、以及我们所憎恨之人的气息、子嗣、牲畜都减损。”然后行神圣的回绕;说他们随太阳的回绕而回转,便转向右臂。

Kauṣītaki 2.10

अथ संवेशञ्जायायै हृदयमभिमृशेद्यत्ते सुसीमे हृदये हितमन्तः प्रजापतौ मन्येऽहं मां तद्विद्वांसं तेन माहं पौत्रमघं रुदमिति न हास्मत्पूर्वाः प्रजाः प्रैतीति ॥ २.१० ॥

然后,与妻子同卧时,应触摸她的心,并说:“那安置于你善界之心中、在生主之中的,我想它知道我。愿我不因孙子的不幸而哭泣。”如此说,我们先人的后代便不离我们而去。

Kauṣītaki 2.11

अथ प्रोष्यान्पुत्रस्य मूर्धानमभिमृशेत् । अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा त्वं पुत्र माविथ स जीव शरदः शतमसाविति नामास्य गृह्णाति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । तेजो वै पुत्रनामासि स जीव शरदः शतमसाविति नामास्य गृह्णाति। येन प्रजापतिः प्रजाः पर्यगृह्णादरिष्ट्यै तेन त्वा परिगृह्णाम्यसाविति नामास्य गृह्णात्यथास्य दक्षिणे कर्णे जपत्यस्मै प्रयन्धि मघवन्नृजीषिन्नितीन्द्र श्रेष्ठानि द्रविणानि धेहीति सव्ये मा च्छित्था मा व्यथिष्ठाः शतं शरद आयुषो जीव पुत्र । ते नाम्ना मूर्धानमभिजिघ्राम्यसाविति त्रिर्मूर्धानमवजिघ्रेद्गवां त्वा हिङ्कारेणाभिहिङ्करोमीति त्रिर्मूर्धानमभिहिङ्कुर्यात् ॥ २.११ ॥

然后,从外地归来后,应抚摸儿子的头:“你从肢体一一诞生,从心中生出。你就是自我;儿子,保护我。活过一百个秋天,某某。”这样念他的名字。“成为石头,成为斧头,成为不坏的金子。你是光明,承载儿子之名。活过一百个秋天,某某。”这样念他的名字。“生主以使众生免于灾害的那一物,我以那一物环绕你,某某。”这样念他的名字。然后在他右耳低诵:“慷慨的因陀罗啊,赐予正直者,请赐予他最好的财富。”在左耳:“不要被切断,不要受苦;活满百个秋天,儿子。”然后以名字嗅他的头,“某某”,三次嗅其头。“以牛的哞声,我为你哞叫。”如此三次对着头哞叫。

Kauṣītaki 2.12

अथातो दैवः परिमर एतद्वै ब्रह्म दीप्यते यदग्निर्ज्वलत्यथैतन्म्रियते यन्न ज्वलति तस्यादित्यमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यथादित्यो दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य चन्द्रमसमेव तेजो गचछति वायुं प्राण एतद्वै ब्रह्म दीप्यते यच्चन्द्रमा दृश्यते । अथैतन्म्रियते यन्न दृश्यते तस्य विद्युतमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यद्विद्युद्विद्योततेऽथैतन्म्रियते यन्न विद्योतते तस्य वायुमेव तेजो गच्छति वायुं प्राणः । ता वा एताः सर्वा देवता वायुमेव प्रविश्य वायौ मृता न मृच्छन्ते तस्मादेव उ पुनरुदीरत इत्यधिदैवतमथाध्यात्मम् ॥ २.१२ ॥

现在讲诸神之教。火燃烧时,此梵便发光;火不燃烧时,它便死去,其光归于太阳。风即是气息(prāṇa)。太阳可见时,此梵便发光;太阳不可见时,它便死去,其光归于月亮。风即是气息。月亮可见时,此梵便发光;月亮不可见时,它便死去,其光归于闪电。风即是气息。闪电闪烁时,此梵便发光;闪电不闪烁时,它便死去,其光归于风。风即是气息。所有这些神灵进入风中,在风中死去,但他们实际上并未死去;因此他们又再升起。这是关于神灵的教导。现在论自我(ātman)。

Kauṣītaki 2.13

एतद्वै ब्रह्म दीप्यते यद्वाचा वदत्यथैतन्म्रियते यन्न वदति तस्य चक्षुरेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्चक्षुषा पश्यत्यथैतन्म्रियते यन्न पश्यति तस्य श्रोत्रमेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्छ्रोत्रेण शृणोत्यथैतन्म्रियते यन्न शृणोति तस्य मन एव तेजो गच्छति प्राण एतद्वै ब्रह्म दीप्यते यन्मनसा ध्यायत्यथैतन्म्रियते यन्न ध्यायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणस्तावा एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे मृता न मृच्छन्ते तस्मा देव उ पुनरुदीरते तद्यदिह वा एवं विद्वांस उभौ पर्वतावभिप्रवर्तेयातां तुस्तूर्षमाणो दक्षिणश्चोत्तरश्च न हैवैनं स्तृण्वीयाताम् । अथ य एनं द्विषन्ति यांश्च स्वयं द्वेष्टि त एनं सर्वे परिम्रियन्ते ॥ २.१३ ॥

若以言语说话,此梵便发光;若不说话,它便死去,其光归于眼,再归于气息。气息即是梵。若以眼看,此梵便发光;若不看,它便死去,其光归于耳,再归于气息。若以耳听,此梵便发光;若不听,它便死去,其光归于意,再归于气息。若以意思维,此梵便发光;若不思维,它便死去,其光归于气息。气息即是梵。所有这些神灵进入气息,在气息中死去,但他们实际上并未死去;因此他们又再升起。在此,如此知者即使想要推动两座山,也没有人能毁灭他。那些憎恨他的人,以及他自己所憎恨的人,都会死在他的周围。

Kauṣītaki 2.14

अथातो निःश्रेयसादानं सर्वा ह वै देवता अहं श्रेयसे विवदमानाः । अस्माच्छरीरादुच्चक्रमुस्तद्दारुभूतं शिष्येथैतद्वाक्प्रविवेश तद्वाचा वदच्छिष्य एव । अथैतच्चक्षुः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छिष्य एवाथैनच्छ्रोत्रं प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वच्छिष्य एवाथैनन्मनः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वन्मनसा ध्यायच्छिष्य एवाथैतत्प्राणः प्रविवेश तत्तत एव समुत्तस्थौ ते देवाः प्राणे निःश्रेयसं विचिन्त्य प्राणमेव प्रज्ञात्मानमभिसम्भूय सहैतैः सर्वैरस्माल्लोकादुच्चक्रमुः । ते वायु-प्रतिष्ठाकाशात्मानः स्वर्ययुस्तथॊ एवैवं विद्वान्सर्वेषां भूतानां प्राणमेव प्रज्ञात्मानमभिसम्भूय सहैतैः सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रतिष्ठाकाशात्मा न स्वरेति तद्भवति यत्रैतद्देवास्तत्प्राप्य तदमृतो भवतियदमृता देवाः ॥ २.१४ ॥

现在讲述如何获得至高之善。诸神因争论谁最尊贵,从这身体中升起。它们如木柱般毫无知觉地留下。于是言语进入,它通过言语说话,却仍只是弟子。然后眼睛进入,它通过眼睛看,却仍只是弟子。然后耳朵进入,它通过耳朵听,却仍只是弟子。然后意进入,它通过意思考,却仍只是弟子。然后生气(prāṇa)进入,身体立刻站起。诸神思量至高之善在生气之中,与以觉知为自我的生气合一,连同这一切一起从此世向上离去。它们安住于风中,以虚空为自我,前往天界。同样,知道这一点的人,将一切众生的生气视为以觉知为自我,与之合一,连同这一切一起从此身向上离去。他成为安住于风中、以虚空为自我的人,而非天界;到达诸神所在之处,他便获得不死,因为诸神是不死的。

Kauṣītaki 2.15

अथातः पितापुत्रीयं सम्प्रदानमिति चाचक्षते । पिता पुत्रं प्रेष्यन्नाह्वयति नवैस्तृणैरगारं संस्तीर्याग्निमुपसमाधायोदकुम्भं सपात्रमुपनिधायाहतेन वाससा सम्प्रच्छन्नः स्वयं श्येत एत्य पुत्र उपरिषटादभिनिपद्यते, इन्द्रियैरस्येन्द्रियाणि संस्पृश्यापि वास्याभिमुखत एवासीताथास्मै संप्रयच्छति वाचं मे त्वयि दधानीति पिता वाचं ते मयि दध इति पुत्रः प्राणं मे त्वयि दधानीति पिता प्राणं ते मयि दध इति पुत्रः । चक्षुर्मे त्वयि दधानीति पिता चक्षुस्ते मयि दध इति पुत्रः । श्रोत्रं मे त्वयि दधानीति पिता श्रोत्रं ते मयि दध इति पुत्रः । मनो मे त्वयि दधानीति पिता मनस्ते मयि दध इति पुत्रः । अन्नरसान्मे त्वयि दधानीति पितान्नरसांस्ते मयि दध इति पुत्रः । कर्माणि मे त्वयि दधानीति पिता कर्माणि ते मयि दध इति पुत्रः । सुखदुःखे मे त्वयि दधानीति पिता सुखदुःखे ते मयि दध इति पुत्रः । आनन्दं रतिं प्रजातिं मे त्वयि दधानीति पिता आनन्दं रतिं प्रजातिं ते मयि दध इति पुत्रः । इत्या मे त्वयि दधानीति पिता इत्या ते मयि दध इति पुत्रः । धियो विज्ञातव्यं कामान्मे त्वयि दधानीति पिता धियो विज्ञातव्यं कामांस्ते मयि दध इति पुत्रः । अथ दक्षिणावुत्प्राङुपनिष्क्रामति तं पितानुमन्त्रयते यशो ब्रह्मवर्चसमन्नाद्यं कीर्तिस्त्वा जुषतामित्यथेतरः सव्यमंसमन्ववेक्षते पाणिनान्तर्धाय वसनान्तेन वा प्रच्छाद्य स्वर्गांल्लोकान्कामानवाप्नुहीति स यद्यगदः स्यात्पुत्रस्यैश्वर्ये पिता वसेत्परि वा व्रजेद्यद्यु वै प्रेयाद्यदेवैनं समापयति तथा समापयितव्यो भवति तथा समापयितव्यो भवति ॥ २.१५ ॥

现在说父子之间称为“传授”的仪式。父亲将要送别儿子时便召唤他;用新草铺好房屋,生起火,放置水罐与器皿,用未曾穿过的布将自己完全盖好,然后自己躺下。儿子前来,俯卧在他身上,以自己的诸根触及他的诸根,或面对他坐下。于是父亲交付他,说:“我将我的言语置于你中。”儿子说:“我将你的言语置于我中。”对于气息、视觉、听觉、意、食物精华、行为、苦乐、喜悦、欢愉与子嗣、行走,以及由思慧所应知的欲望,也如此行之。随后父亲向右转身向东而去,并祝福他:“愿名声、梵的光辉、食物与声誉使你欢喜。”另一人看着左肩,以手遮掩,或以衣角覆盖,说:“愿你获得天界的欲望。”若父亲衰弱,他可以居于儿子的主宰之下,或围绕着他;若他死去,则应当按照仪式的要求完成,如此便应完成。