Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 1.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 1.10.1

मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १.१०.१ ॥

当俱卢之地荒芜时,迦格罗之子乌沙斯提与妻子阿提吉在富人的村庄里,过着困顿的生活。

Chāndogya 1.10.2

स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तꣳ होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १.१०.२ ॥

他看见伊跋耶正在吃豆饼,便向他乞食。伊跋耶说:“我这里只有这些已经留下的,除此之外别无他物。”

Chāndogya 1.10.3

एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतꣳ स्यादिति होवाच ॥ १.१०.३ ॥

他说:“把这些给我吧。”伊跋耶便把它们给了他。他又说:“那么也给我一些喝的吧。”伊跋耶说:“我喝过的水就成了不洁之物。”

Chāndogya 1.10.4

न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमा न खादन्निति होवाच कामो म उदपानमिति ॥ १.१०.४ ॥

他又说:“这些难道不也是不洁之物吗?如果我不吃它们,我就活不下去;我并没有吃这些。”他接着说:“我想要的是饮水。”

Chāndogya 1.10.5

स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ १.१०.५ ॥

他吃了这些以后,把剩下的带给妻子;可是那时食物已经很充足了。他接过来收存好了。

Chāndogya 1.10.6

स ह प्रातः सञ्जिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राꣳ राजासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ १.१०.६ ॥

他清晨因饥饿而虚弱,说道:“若我们能得到那样的食物,哪怕只是财富,那位即将举行祭祀的国王就会在所有祭司(ṛtvij)中选中我。”

Chāndogya 1.10.7

तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वामुं यज्ञं विततमेयाय ॥ १.१०.७ ॥

他的妻子对他说:“好吧,夫君,这里有这些豆粥(kulmāṣa)。”他吃了以后,便前往那场盛大的祭祀。

Chāndogya 1.10.8

तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच ॥ १.१०.८ ॥

在那里,他坐在即将吟唱赞歌的乌德伽特里祭司旁边。然后他对普拉斯托特里祭司说道。

Chāndogya 1.10.9

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ १.१०.९ ॥

“啊,普拉斯托特里,若你在不知道依赖于前奏的那位神明的情况下唱前奏,你的头就会掉落。”

Chāndogya 1.10.10

एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १.१०.१० ॥

同样地,他对歌咏者(Udgātṛ)说:"哦,歌咏者,依赖于 udgītha 的那位神祇——若你不知其为何而咏唱 udgītha,你的头颅将会坠落。"

Chāndogya 1.10.11

एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे ॥ १.१०.११ ॥

同样地,他对回应者(Pratihartṛ)说:"哦,回应者,依赖于 pratihāra 的那位神祇——若你不知其为何而咏唱 pratihāra,你的头颅将会坠落。"于是他们停止了,默然而坐。