Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 5.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 5.1.1

यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१ ॥

知晓长者与最好者的人,确实成为长者与最好者。气息(prāṇa)确实是长者与最好者。

Chāndogya 5.1.2

यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति वाग्वाव वसिष्ठः ॥ ५.१.२ ॥

知晓最卓越者的人,确实在自己的族人中成为最卓越者。言语(vāc)确实是最卓越者。

Chāndogya 5.1.3

यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिँश्च लोकेऽमुष्मिँश्च चक्षुर्वाव प्रतिष्ठा ॥ ५.१.३ ॥

知晓根基的人,在此世与彼世都稳固地立足。眼睛(cakṣus)确实是根基。

Chāndogya 5.1.4

यो ह वै सम्पदं वेद सँहास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ५.१.४ ॥

知晓兴盛的人,诸神与人类的一切愿望都会聚集到他身上。听觉(śrotra)确实是兴盛。

Chāndogya 5.1.5

यो ह वा आयतनं वेदायतनँ ह स्वानां भवति मनो ह वा आयतनम् ॥ ५.१.५ ॥

知晓此“依处”者,便成为亲人的依靠。意根(manas)确实就是这“依处”。

Chāndogya 5.1.6

अथ ह प्राणा अहँश्रेयसि व्यूदिरेऽहँश्रेयानस्म्यहँ श्रेयानस्मीति ॥ ५.१.६ ॥

于是诸气(prāṇa)为了谁最殊胜而争论,各自说:“我最殊胜,我最殊胜。”

Chāndogya 5.1.7

ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५.१.७ ॥

诸气来到父亲生主(Prajāpati)面前,说:“尊者,我们之中谁最殊胜?”他对他们说:“你们之中,谁离去时身体看起来最为卑陋,谁就是你们之中最殊胜的。”

Chāndogya 5.1.8

सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ५.१.८ ॥

言语向上离去。离开一年后,她回来说:“没有我,你们怎能活下来?”就像哑人不说话,却以生气呼吸,以眼观看,以耳听闻,以意思考一样——说完这话,言语又重新进入。

Chāndogya 5.1.9

चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ५.१.९ ॥

眼睛向上离去。离开一年、四处游历之后,它说:“没有我,你们是怎样活下来的?”如同盲人不见而活,以气息呼吸,以语言说话,以耳朵听闻,仅以心意思考,如此说罢,眼睛又重新进入了身体。

Chāndogya 5.1.10

श्रोत्रँ होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ ५.१.१० ॥

耳朵向上离去。离开一年、四处游历之后,它说:“没有我,你们是怎样活下来的?”如同聋人不闻而活,以气息呼吸,以语言说话,以眼睛看见,仅以心意思考,如此说罢,耳朵又重新进入了身体。

Chāndogya 5.1.11

मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ५.१.११ ॥

心意向上离去。离开一年、四处游历之后,它说:“没有我,你们是怎样活下来的?”如同无心的孩童,以气息呼吸,以语言说话,以眼睛看见,以耳朵听闻而活,如此说罢,心意又重新进入了身体。

Chāndogya 5.1.12

अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तँहाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ ५.१.१२ ॥

于是生气(prāṇa)想要向上离去。就像良马拔起拴它的木桩,它也拔起了其余的气息。于是诸气聚集在一起说:“尊贵者,请留下!你是我们中最殊胜的;不要向上离去。”

Chāndogya 5.1.13

अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५.१.१३ ॥

于是言语对他说:“我是什么,最好的(Vasiṣṭha),你也是这样的最好者。”然后眼睛对他说:“我是什么,根基(pratiṣṭhā),你也是这样的根基。”

Chāndogya 5.1.14

अथ हैनँश्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ ५.१.१४ ॥

于是听觉对他说:“我是什么,财富(sampad),你也是这样的财富。”然后意对他说:“我是什么,居所(āyatana),你也是这样的居所。”

Chāndogya 5.1.15

न वै वाचो न चक्षूँषि न श्रोत्राणि न मनाँसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ ५.१.१५ ॥

它们不是言语,不是眼睛,不是耳朵,不是心意;人们只称它们为“气息”(prāṇa)。因为唯有prāṇa成为这一切。