奥义书 · Kaṭha 1.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Kaṭha 1.2.1
अन्यच्छ्रेयोऽन्यदुतैव प्रेय-
स्ते उभे नानार्थे पुरुषँ सिनीतः ।
तयोः श्रेय आददानस्य साधु
भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १.२.१ ॥
善是一物,悦是另一物;这两者目的不同,束缚人。其中取善者得益;选悦者则失其所求。
Kaṭha 1.2.2
श्रेयश्च प्रेयश्च मनुष्यमेतः
तौ सम्परीत्य विविनक्ति धीरः ।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते
प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ १.२.२ ॥
善与悦两者都来到人前。智者审慎地权衡二者并加以分辨;智者宁取善而舍悦,愚钝者为了得失与安稳而取悦。
Kaṭha 1.2.3
स त्वं प्रियान्प्रियरूपांश्च कामान्
अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीमवाप्तो
यस्यां मज्जन्ति बहवो मनुष्याः ॥ १.२.३ ॥
纳奇刻塔啊,你思念着可爱之物与外相可喜的欲望,却已将它们舍弃。你没有取得这由财富构成的锁链,许多人都沉溺其中。
Kaṭha 1.2.4
दूरमेते विपरीते विषूची
अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सिनं नचिकेतसं मन्ये
न त्वा कामा बहवोऽलोलुपन्त ॥ १.२.४ ॥
这两者,无明(avidyā)与明智(vidyā),相距甚远,本性相反,导向不同的方向。我认为你,那吉盖答,是渴求明智的人;许多欲望没有诱惑你。
Kaṭha 1.2.5
अविद्यायामन्तरे वर्तमानाः
स्वयं धीराः पण्डितंमन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः ॥ १.२.५ ॥
身处无明(avidyā)之中,自以为智慧博学的愚人,团团打转、跌跌撞撞,就像盲人被盲人牵引一样。
Kaṭha 1.2.6
न साम्परायः प्रतिभाति बालं
प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी
पुनः पुनर्वशमापद्यते मे ॥ १.२.६ ॥
对于幼稚、放逸、被财富迷惑而愚痴的人,来世不会显现。那自负地认为“只有此世,没有他世”的人,一次又一次落入我的掌控。
Kaṭha 1.2.7
श्रवणायापि बहुभिर्यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलोऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ १.२.७ ॥
许多人连听闻都无法获得,即使听了许多人也不能了知的那一位——谈论它的人是奇特而善巧的;得到它的人也是奇特的;由善巧的导师指点而了知的人也是奇特的。
Kaṭha 1.2.8
न नरेणावरेण प्रोक्त एष
सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरत्र नास्ति
अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ १.२.८ ॥
若由普通人讲述,此(ātman)不易被了知,即便多方思量也是如此。若非由他人(殊胜的导师)讲授,此处便无路径,因为它比最细微者更细微,超越论理。
Kaṭha 1.2.9
नैषा तर्केण मतिरापनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि
त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ १.२.९ ॥
亲爱的,此智慧不能靠推理获得;唯有由他人讲授,才能真正了知。你坚定于真理;愿我们永远有像你这样的提问者,那支却多啊。
Kaṭha 1.2.10
जानाम्यहं शेवधिरित्यनित्यं
न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश्चितोऽग्निः
अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १.२.१० ॥
我知道这宝藏是无常的,因为永恒不能由无常之物获得。因此我修建了那支却多火,以无常之物证得了永恒。
Kaṭha 1.2.11
कामस्याप्तिं जगतः प्रतिष्ठां
क्रतोरानन्त्यमभयस्य पारम् ।
स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा
धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ १.२.११ ॥
欲望的成就、世界的根基、祭祀的无尽、无畏的彼岸;看到伟大的赞颂、广泛传唱的颂歌与所依之处,坚定的那支却多啊,你以坚忍舍弃了它们。
Kaṭha 1.2.12
तं दुर्दर्शं गूढमनुप्रविष्टं
गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं
मत्वा धीरो हर्षशोकौ जहाति ॥ १.२.१२ ॥
那难以看见、隐秘、进入心洞、居于深渊、古老的神,智者通过内在自我的瑜伽证悟他之后,便舍弃喜与忧。
Kaṭha 1.2.13
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः
प्रवृह्य धर्म्यमणुमेतमाप्य ।
स मोदते मोदनीयँ हि लब्ध्वा
विवृतँ सद्म नचिकेतसं मन्ये ॥ १.२.१३ ॥
人听闻此理并充分领悟后,依法辨析那微妙之真理,便能证得它。得到可喜悦之物,他便欢喜;我认为纳奇开多的居所已被打开。
Kaṭha 1.2.14
अन्यत्र धर्मादन्यत्राधर्मा-
दन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च
यत्तत्पश्यसि तद्वद ॥ १.२.१४ ॥
在法之外,在非法之外,在这已作与未作之外,在过去与未来之外——你所见的,请说出来。
Kaṭha 1.2.15
सर्वे वेदा यत्पदमामनन्ति
तपाँसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदँ संग्रहेण ब्रवीम्योमित्येतत् ॥ १.२.१५ ॥
诸吠陀所宣说的那个境界,一切苦行所述说的那个境界,人们渴望它而修持梵行——那个境界我简要地告诉你:它就是唵(Om)。
Kaṭha 1.2.16
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १.२.१६ ॥
此音节即是梵,此音节即是至高者。知此音节者,凡所欲求,皆得其所。
Kaṭha 1.2.17
एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १.२.१७ ॥
此乃最上之依托,此乃至高之依托。知此依托者,在梵界受到尊崇。
Kaṭha 1.2.18
न जायते म्रियते वा विपश्चिन्
नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ १.२.१८ ॥
此智者(ātman)不生亦不死。它不从任何处而来,也不成为任何事物。它无生、恒常、永久、古老,身体被杀时它也不被杀。
Kaṭha 1.2.19
हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १.२.१९ ॥
若杀者以为“我杀”,被杀者以为“我被杀”,二者皆不知;此(ātman)既不杀,也不被杀。
Kaṭha 1.2.20
अणोरणीयान्महतो महीया-
नात्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
धातुप्रसादान्महिमानमात्मनः ॥ १.२.२० ॥
自我(ātman)比最小者更小,比最大者更大,安住于此生命体心中的洞穴之中。无欲且无忧者,凭创造者(dhātu)的恩典,得见自我的伟大。
Kaṭha 1.2.21
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ १.२.२१ ॥
坐着,他走向远方;躺着,他遍行一切。除我之外,谁能认识那超越喜与非喜(mad-āmada)的神?
Kaṭha 1.2.22
अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ १.२.२२ ॥
智者知道自我(ātman)虽住于众身之中却无身,虽在无常之中却恒定不移,伟大而遍在,因而不悲伤。
Kaṭha 1.2.23
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूँ स्वाम् ॥ १.२.२३ ॥
此自我(ātman)不能由教导获得,也不能由智慧或广博的学识获得。唯有被它自己选中之人才能获得它;对于此人,自我显现其自身的真相。
Kaṭha 1.2.24
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ १.२.२४ ॥
未停止恶行、未平息、未专注、心不安定的人,无法通过智慧获得此自我(ātman)。
Kaṭha 1.2.25
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ १.२.२५ ॥
对于那位以婆罗门(brahman,祭司权力)和刹帝利(kṣatra,王权)为饭食、以死亡为调味的人,谁真正知道他在哪里?