奥义书 · Praśna 1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Praśna 1.1
ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी
च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी
कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं
ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह
समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १.१ ॥
唵。Sukeśā、Bhāradvāja、Śaibya Satyakāma、Sauryāyaṇī Gārgya、Kauśalya Āśvalāyana、Bhārgava Vaidarbhi 与 Kabandhī Kātyāyana——他们都专注于梵,安住于梵,寻求至高之梵。他们想:“他会把一切告诉我们。”于是手持祭薪,走近尊贵的 Pippalāda。
Praśna 1.2
तन् ह स ऋषिरुवच भूय एव तपसा ब्रह्मचर्येण श्रद्धया
संवत्सरं संवत्स्यथ
यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो
वक्ष्याम इति ॥ १.२ ॥
那位仙人对他们说:“你们再以苦行、梵行与信心住一年。想问什么就问吧。如果我们能知道,就把一切都告诉你们。”
Praśna 1.3
अथ कबन्धी कत्यायन उपेत्य पप्रच्छ ।
भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त इति ॥ १.३ ॥
于是 Kabandhī Kātyāyana 走近问道:“尊者,这些众生究竟从何而生?”
Praśna 1.4
तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत
स तपस्तप्त्वा स मिथुनमुत्पादयते ।
रयिं च प्रणं
चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ १.४ ॥
他对他说:“生育之愿的主宰 Prajāpati 修行苦行。修行苦行之后,他生出一对:物质(rayi)与生命气息(prāṇa),心想:‘这二者将为我以多种方式造出众生。’”
Praśna 1.5
आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्
सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ १.५ ॥
太阳确实是生命气息(prāṇa),月亮是物质(rayi)。凡有形与无形的一切都是rayi,因此有形之物即是rayi。
Praśna 1.6
अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्
प्राणान् रश्मिषु सन्निधत्ते ।
यद्दक्षिणां यत् प्रतीचीं
यदुदीचीं
यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति
तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ १.६ ॥
然后太阳升起,进入东方,借此把东方的诸prāṇa安置于其光线之中。凡照亮南、西、北、下、上以及中间方位的,凡照亮一切的,借此把一切prāṇa安置于光线之中。
Praśna 1.7
स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते ।
तदेतदृचाऽभ्युक्तम् ॥ १.७ ॥
此即吠舍婆那罗(Vaiśvānara),具一切形相的生命气息(prāṇa),作为火而升起。关于此有一首诗颂已经说过。
Praśna 1.8
विश्वरूपं हरिणं जातवेदसं
परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः
प्राणः प्रजानामुदयत्येष सूर्यः ॥ १.८ ॥
具一切形相、金色、全知、至高归宿、唯一之光、炽热、千道光线、以百种方式存在、众生之prāṇa——这太阳升起。
Praśna 1.9
संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ।
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव
लोकमभिजयन्ते ।
त एव पुनरावर्तन्ते तस्मादेत ऋषयः
प्रजाकामा दक्षिणं प्रतिपद्यन्ते ।
एष ह वै रयिर्यः
पितृयाणः ॥ १.९ ॥
年即是生主(Prajāpati);它有两条路径,南行与北行。那些崇拜者以为已完成祭祀与功德,便只能赢得月亮之界,并且会再回来。因此,希望有子嗣的这些仙人走南行之路。这就是物质之路,即祖先之道(pitṛyāṇa)。
Praśna 1.10
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया
विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते ।
एतद्वै
प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न
पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥ १.१० ॥
然而走北行之路——以苦行、梵行、信心与智慧,寻求我(ātman)——他们赢得太阳。这是诸生命气息的居所;这是不死、无畏,这是至高的归宿。从此他们不再回来——这就是止息(nirodha)。关于此,有这一偈颂。
Praśna 1.11
पञ्चपादं पितरं द्वादशाकृतिं
दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं
सप्तचक्रे षडर आहुरर्पितमिति ॥ १.११ ॥
人们称那位有五足、十二形、在天之彼岸一半充满水的父亲。而这些其他智者称他为有七轮六辐、固定于其中者。
Praśna 1.12
मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः
शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर
इतरस्मिन् ॥ १.१२ ॥
月即是生主(Prajāpati);其黑半月实为物质(rayi),白半月为生命之气(prāṇa)。因此,这些仙人在白半月行祭,其他人则在另一半月行之。
Praśna 1.13
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः
प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते
ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १.१३ ॥
昼与夜实为生主(Prajāpati)。其昼即是气息(prāṇa),其夜即是物质(rayi)。白日行房交合者,使气息流散。夜间交合,即是梵行(brahmacarya)。
Praśna 1.14
अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः
प्रजायन्त इति ॥ १.१४ ॥
食物实为生主(Prajāpati)。那精液(retas)由它而生,因此这些生灵得以诞生。
Praśna 1.15
तद्ये ह वै तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।
तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं
प्रतिष्टितम् ॥ १.१५ ॥
奉行生主(Prajāpati)此誓的人,生育配偶。此梵界属于那些具有苦行(tapas)与梵行、并且真理得以确立于其中的人。
Praśna 1.16
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न
माया चेति ॥ १.१६ ॥
那清净无垢的梵界,属于其中没有邪曲、没有虚妄、没有幻化(māyā)的人。