奥义书 · Śvetāśvatara 2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Śvetāśvatara 2.1
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः ।
अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ २.१ ॥
萨维特里首先将心意系于真理(tattva),也将思虑系于其上。他从大地收集火的光明,将其高高举起。
Śvetāśvatara 2.2
युक्तेन मनसा वयं देवस्य सवितुः सवे ।
सुवर्गेयाय शक्त्या ॥ २.२ ॥
愿我们以专注的心,处于神萨维特里的推动之中,以力量抵达天界。
Śvetāśvatara 2.3
युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् ।
बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ २.३ ॥
以心意使诸神相系,他们寻求天界,以思虑将天空化为大光明,萨维特里推动他们前行。
Śvetāśvatara 2.4
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
विहोत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥ २.४ ॥
智者们系心,也系思虑于那伟大、全知的智者。知晓诸途的祭司唯持一者;这便是神萨维特里的伟大赞颂。
Śvetāśvatara 2.5
युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ २.५ ॥
我以恭敬之言将你们二人连结于古老的梵;愿智者的名声如行者抵达道路般传至你们。愿住于神圣居所的不死者之子们都来聆听。
Śvetāśvatara 2.6
अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।
सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ २.६ ॥
火被钻木取出之处,气息被止住之处,苏摩满溢之处,心便在那里生起。
Śvetāśvatara 2.7
सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् ।
यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् ॥ २.७ ॥
在萨维特里的推动下,人当专注于古老的梵;你在那里造成根源之处,你的功德不会被浪费。
Śvetāśvatara 2.8
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य ।
ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयानकानि ॥ २.८ ॥
使身体在三处挺直平正,将诸根与意一同安置于心中,智者当以梵之筏渡过一切可怖的激流。
Śvetāśvatara 2.9
प्राणान्प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत ।
दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ॥ २.९ ॥
在此制止诸气息,行为有节制者,当气息衰弱时,应从鼻孔呼出。如同驾着劣马的车,智者应当警觉地驾驭此心。
Śvetāśvatara 2.10
समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः ।
मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥ २.१० ॥
在平坦、洁净、没有碎石、火与沙、远离声音和水等的地方,在避风的山洞中,应当修习。
Śvetāśvatara 2.11
नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम् ।
एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ २.११ ॥
雾、烟、太阳、风、火、萤火、闪电、水晶、月亮,这些形象在瑜伽中先行出现,使梵得以显现。
Śvetāśvatara 2.12
पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते ।
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥ २.१२ ॥
当由地、水、火、风、空五者构成的瑜伽之德生起并显现时,成就瑜伽者便无病、无老、无死;其身由瑜伽之火所成。
Śvetāśvatara 2.13
लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च ।
गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ २.१३ ॥
身体轻盈、无病、不贪欲、面色明朗、声音和美、气味清香、大小便减少——这些被称为瑜伽最初的征兆。
Śvetāśvatara 2.14
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम् ।
तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥ २.१४ ॥
如同蒙尘的镜子经过擦拭便光彩照人,有身之人在明察了自我的真实之后,独自成就圆满,远离忧愁。
Śvetāśvatara 2.15
यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् ।
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपापैः ॥ २.१५ ॥
当此处修习瑜伽者借助自我的真实,如灯火一般充分看见梵的真实时,便认识了那不生、恒常、在一切原理中纯净的神,从而脱离一切罪恶。
Śvetāśvatara 2.16
एषो ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः ।
स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥ २.१६ ॥
此神遍布一切方向。他最先诞生,也在胎中。他已经诞生,也将诞生。他面向一切方向,安住于众生之内。
Śvetāśvatara 2.17
यो देवॊऽग्नौ योऽप्सु यो विश्वं भुवनमाविवेश ।
य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ २.१७ ॥
敬礼那位神,他在火中,在水中,他进入了整个世界(bhuvana),在草药中,在树木中:敬礼,敬礼。