Vedyatra वेदयात्रा
搜索

奥义书 · Kaṭha 2.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Kaṭha 2.3.1

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।
एतद्वै तत् ॥ २.३.१ ॥

这棵永恒的无花果树,根在上,枝在下。那就是光明者,那就是梵,那被称为不死者。一切世界都依托于它;无人能超越它。这正是那个。

Kaṭha 2.3.2

यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २.३.२ ॥

这世间所有存在的一切,都从气息(prāṇa)中产生,并由它而运动。这是一种巨大的恐惧,如同高举的金刚杵。知道这一点的人便成为不死者。

Kaṭha 2.3.3

भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ २.३.३ ॥

因为畏惧他,火才燃烧;因为畏惧他,太阳才发热。因为畏惧他,因陀罗与风,以及第五位的死亡,都在奔走。

Kaṭha 2.3.4

इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ २.३.४ ॥

若人能在此世、在身体解体之前理解此事,那么他便不再适于在诸创造与诸世界中获得身体。

Kaṭha 2.3.5

यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके
छायातपयोरिव ब्रह्मलोके ॥ २.३.५ ॥

如镜中所见,于自我中亦然;如梦中所见,于祖先界亦然;如水中见影,于乾达婆界亦然;如影与光,于梵界亦然。

Kaṭha 2.3.6

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ २.३.६ ॥

智者知晓诸根各各不同、其生与灭,以及它们各自分别生起,便不再悲伤。

Kaṭha 2.3.7

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ २.३.७ ॥

超越诸根者是意;超越意者是最上的萨埵(觉);萨埵之上是大我;超越大者是最上的未显现者。

Kaṭha 2.3.8

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ २.३.८ ॥

超越未显现者的是补噜沙(Puruṣa),遍在而无相。知晓他的众生得到解脱,并达到不死(amṛtatva)。

Kaṭha 2.3.9

न संदृशे तिष्ठति रूपमस्य
न चक्षुषा पश्यति कश्चनैनम् ।
हृदा मनीषा मनसाऽभिक्लृप्तो
य एतद्विदुरमृतास्ते भवन्ति ॥ २.३.९ ॥

他的形相不在视觉范围之内,无人以眼看见他。被心、慧与意所领悟的他,知晓此理的人便成为不死者。

Kaṭha 2.3.10

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ २.३.१० ॥

当五种认知感官与意一同静止,觉性也不再动摇时,人们称之为最高之境(paramā gati)。

Kaṭha 2.3.11

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ २.३.११ ॥

人们视这种稳定地制约诸根的状态为瑜伽。此时人便不放逸,因为瑜伽正是生起与灭尽之本。

Kaṭha 2.3.12

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ २.३.१२ ॥

不能以言语,也不能以心意,或以眼睛获得他。除了说“他存在”的人,别人怎样能够领会他呢?

Kaṭha 2.3.13

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ २.३.१३ ॥

应当以“他存在”来领会他,并以两者的真实本性来领会。对于以“他存在”而领会他的人,他的真实本性便显明了。

Kaṭha 2.3.14

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २.३.१४ ॥

当住在他心中的一切欲望都被舍弃时,有死者便成为不死者,并在此得到梵。

Kaṭha 2.3.15

यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ २.३.१५ ॥

正如这里心中的一切结都被解开,有死者便成为不死者。这就是全部教导。

Kaṭha 2.3.16

शतं चैका च हृदयस्य नाड्य-
स्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति
विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ २.३.१६ ॥

心脏有一百零一条脉络(nāḍī);其中一条直通头顶。沿着它向上者得证不死。其余的在离去之时向四方散开。

Kaṭha 2.3.17

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये संनिविष्टः ।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ २.३.१७ ॥

那大小如拇指的人,即内在的我(ātman),永远安住于众生的心中。应当坚定地将他从自己的身体中抽出,如同从muñja草中抽出茎秆。应当知他清净、不死;应当知他清净、不死。

Kaṭha 2.3.18

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा
विद्यामेतां योगविधिं च कृत्स्नम् ।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-
रन्योऽप्येवं यो विदध्यात्ममेव ॥ २.३.१८ ॥

那智克多(Naciketas)得到死神所传授的这一智慧与完整的瑜伽之道,证入梵(brahman);他离开了激情,脱离了死亡。同样,其他人若如此了知自我(ātman),也将成为这样。