奥义书 · Śvetāśvatara 3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Śvetāśvatara 3.1
य एको जालवानीशत ईशनीभिः सर्वांल्लोकानीशत ईशनीभिः ।
य एवैक उद्भवे सम्भवे च य एतद्विदुरमृतास्ते भवन्ति ॥ ३.१ ॥
那唯一拥有网的,以他的力量统治所有世界;他独一存在于生起与成就之中。知晓此理者即成为不死者。
Śvetāśvatara 3.2
एको हि रुद्रो न द्वितीयाय तस्थुर्य इमांल्लोकानीशत ईशनीभिः ।
प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः ॥ ३.२ ॥
唯有一个楼陀罗(Rudra),没有第二者。以其力量统治这些世界者,住在向内转的众生之中;在末劫时,他创造了一切世界(bhuvana)后将其收摄,作为守护者。
Śvetāśvatara 3.3
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥ ३.३ ॥
眼睛在四面,脸面在四面,手臂在四面,脚在四面:那唯一的神以双臂与双翼吹动(风),并生出天与地。
Śvetāśvatara 3.4
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।
हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥ ३.४ ॥
那作为诸神之源与所生者、万有之主、大仙人楼陀罗,他在太初生出金胎(Hiraṇyagarbha)——愿他以吉祥的智慧使我们相合。
Śvetāśvatara 3.5
या ते रुद्रा शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ३.५ ॥
楼陀罗啊,以你那吉祥、不可怖、不显示罪恶、最为安详的身形,山主啊,请垂视我们。
Śvetāśvatara 3.6
यामिषुं गिरिशतं हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥ ३.६ ॥
山主啊,你手中持以发射的那支箭,山的守护者啊,请使它吉祥;不要伤害人类与世界。
Śvetāśvatara 3.7
ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्वभूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वाऽमृता भवन्ति ॥ ३.७ ॥
在那之上是至高的梵(Brahman),广大而宏大,隐藏于一切众生之中,如同隐藏于其居所;他是遍覆宇宙的唯一主宰。知晓他的人,便得不死。
Śvetāśvatara 3.8
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ३.८ ॥
我知道那位伟大的补鲁沙,其色如太阳,超越黑暗。唯有认识他,人才能超越死亡;此外别无他路。
Śvetāśvatara 3.9
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नणीयो न ज्यायोऽस्ति कश्चित् ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ३.९ ॥
没有比他更高或更低的,没有比他更小或更大的。他独自如树木般屹立于天上;这一切都被那位补鲁沙充满。
Śvetāśvatara 3.10
ततो यदुत्तरतरं तदरूपमनामयम् ।
य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ ३.१० ॥
在那之上更为殊胜者,是无形、无苦的。知此者成为不死;其他人则只得痛苦。
Śvetāśvatara 3.11
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी स भगवांस्तस्मात्सर्वगतः शिवः ॥ ३.११ ॥
他的面、头、颈无处不在,他居于一切众生心的洞穴中,遍及一切。因此,那位尊贵的主便是遍在的吉祥湿婆。
Śvetāśvatara 3.12
महान्प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः ।
सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥ ३.१२ ॥
伟大的主宰,即补鲁沙,确实是存在之物的推动者。这是最纯净的获得;伊until 是不灭的光明。
Śvetāśvatara 3.13
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ३.१३ ॥
拇指大小的补鲁沙,即内在的我(ātman),永远安住于众生的心中,以心、以智慧、以意念被把握。知此者即成为不死者。
Śvetāśvatara 3.14
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ ३.१४ ॥
补鲁沙有千头、千目、千足。他从四面包围大地,并超出大地十指之量而立。
Śvetāśvatara 3.15
पुरुष एवेदँसर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ ३.१५ ॥
这一切即是补鲁沙,过去与未来皆是。他是不死的主宰,凭借食物而扩展超越。
Śvetāśvatara 3.16
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३.१६ ॥
他四面都有手和脚,四面都有眼、头和面,四面都有耳。他在世间安住,包容一切。
Śvetāśvatara 3.17
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ ३.१७ ॥
他显现为一切感官的功能,却超越一切感官。他是一切的主宰与统治者,一切的庇护所,慈爱的朋友。
Śvetāśvatara 3.18
नवद्वारे पुरे देही हंसो लेलायते बहिः ।
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ ३.१८ ॥
在九门之城(身体)中,有体的天鹅(我)向外飞翔。他是整个世界、不动与动者的主宰。
Śvetāśvatara 3.19
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ ३.१९ ॥
他无手无足,却迅疾而能取;无眼而能见,无耳而能听。他知一切所应知,却无人能知他;人们称他为至上的伟大补卢沙。
Śvetāśvatara 3.20
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ ३.२० ॥
自我(ātman)比最小者更小,比最大者更大,安住于每个生灵心中的洞穴之中。无欲、无忧者,借创造者(dhātṛ)的恩典,得见那伟大的主宰。
Śvetāśvatara 3.21
वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् ।
जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥ ३.२१ ॥
我知道这不老的古老自我(ātman),一切的自我,因其无所不在而遍及一切。精通梵(brahman)的人常说,对他而言生的断绝已经来临。