夜柔吠陀 · 章(Adhyāya) 32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
32.1
तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः ।
तद् एव शुक्रं तद् ब्रह्म ता ऽ आपः स प्रजापतिः ॥ ३२.१ ॥
那就是阿耆尼,那就是阿ditya,那就是风神,那也是月亮。那就是光明者,那就是梵;那些是水;他就是生主。
32.2
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि ।
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत् ॥ ३२.२ ॥
一切瞬间与闪电都从补鲁沙而生。无人从上、从侧、从中间抓住他。
32.3
न तस्य प्रतिमा ऽ अस्ति यस्य नाम महद् यशः ।
हिरण्यगर्भ ऽ इत्य् एषः ।
मा मा हिꣳसीद् इत्य् एषा ।
यस्मान् न जात ऽ इत्य् एष ॥ ३२.३ ॥
他没有形象;他的名字是大名声。此为金胎。此为“愿他不伤害我”。此为“无人从其所生”。
32.4
एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भे ऽ अन्तः ।
स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः ॥ ३२.४ ॥
此神遍及一切方位。他最先出生,也在胎中。他既是已生者,也是将生者;以面向一切方位之身站在众人面前。
32.5
यस्माज् जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा ।
प्रजापतिः प्रजया सꣳरराणस् त्रीणि ज्योतीꣳषि सचते स षोडशी ॥ ३२.५ ॥
在他之前无物生出;他显现于一切世界。生主以子嗣为乐,拥有三光;他即第十六。
32.6
येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः ।
यो ऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ ३२.६ ॥
凭其,猛烈的天与坚固的地得以确立;凭其,天界与那伽得以稳固;在中空之中,他是气界的量度者——我们当以祭供敬奉哪一位神?
32.7
यं क्रन्दसी ऽ अवसा तस्तभाने ऽ अभ्यैक्षेतां मनसा रेजमाने ।
यत्राधि सूर ऽ उदितो विभाति कस्मै देवाय हविषा विधेम ।
आपो ह यद् बृहतीः ।
यश् चिद् आपः ॥ ३२.७ ॥
两个哀鸣之界凭庇护支撑着他,怀着颤抖之心凝视着他,升起的太阳照耀在他之上——我们当以祭供敬奉哪一位神?实在是那些广大的水,那些水——
32.8
वेनस् तत् पश्यन् निहितं गुहा सद् यत्र विश्वं भवत्य् एकनीडम् ।
तस्मिन्न् इदꣳ सं च वि चैति सर्वꣳ स ऽ ओतः प्रोतश् च विभूः प्रजासु ॥ ३२.८ ॥
韦那见到那被安置于洞穴中的实有——在那里,整个世界成为一个巢。万物在其中聚合又分离;那遍在者在众生之中如经纬交织。
32.9
प्र तद् वोचेद् अमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत् ।
त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुः पितासत् ॥ ३२.९ ॥
愿知晓不死者的乾闼婆宣说此事——洞穴中所承载实有的居所。洞穴中安置着他的三步;知晓它们者,愿他成为父之父。
32.10
स नो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
यत्र देवा ऽ अमृतम् आनशानास् तृतीये धामन्न् अध्य् ऐरयन्त ॥ ३२.१० ॥
他是我们的亲族、生育者与安排者;他知晓一切世界的居所。诸神得到不死之后,在第三居所上安立。
32.11
परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च ।
उपस्थाय प्रथमजाम् ऋतस्यात्मनात्मानम् अभि सं विवेश ॥ ३२.११ ॥
环绕众生,环绕诸世界,环绕一切次方与方位;亲近宇宙秩序的长女,他以自我进入自我之中。
32.12
परि द्यावापृथिवी सद्य ऽ इत्वा परि लोकान् परि दिशः परि स्वः ।
ऋतस्य तन्तुं विततं विचृत्य तद् अपश्यत् तद् अभवत् तद् आसीत् ॥ ३२.१२ ॥
立即环绕天与地、诸世界、诸方位与天界;抽出延展的宇宙秩序之线,他看见了它;那便成为;那便存在。
32.13
सदसस् पतिम् अद्भुतं प्रियम् इन्द्रस्य काम्यम् ।
सनिं मेधाम् अयासिषꣳम् स्वाहा ॥ ३२.१३ ॥
议会厅之主,奇妙,为因陀罗所爱,令人向往;我寻求获得与智慧。斯婆诃。
32.14
यां मेधां देवगणाः पितरश् चोपासते ।
तया माम् अद्य मेधयाग्ने मेधाविनं कुरु स्वाहा ॥ ३२.१४ ॥
以诸神众与祖先所崇奉的那智慧,今日使我成为有智慧者,啊阿耆尼。斯婆诃。
32.15
मेधां मे वरुणो ददातु मेधाम् अग्निः प्रजापतिः ।
मेधाम् इन्द्रस् च वायुश् च मेधां धाता ददातु मे स्वाहा ॥ ३२.१५ ॥
愿伐楼那赐我智慧;愿阿耆尼、生主赐智慧;愿因陀罗与风神赐智慧;愿持者赐我智慧。斯婆诃。
32.16
इदं मे ब्रह्म च क्षत्रं चोभे श्रियम् अश्नुताम् ।
मयि देवा दधतु श्रियम् उत्तमां तस्यै ते स्वाहा ॥ ३२.१६ ॥
愿梵与刹帝利二者为我获得吉祥。愿诸神在我身中安置至高的吉祥。为此,致你,娑婆诃。