Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

37.1

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नारिर् असि ॥ ३७.१ ॥

借神萨维特里的推动,以双阿输心的臂膀与普善的双手,我接取你。你是女性。

37.2

युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥ ३७.२ ॥

灵感的智者驾驭心念,驾驭伟大智慧之智者的思想。他们正确地设立祭司;唯有他是神萨维特里的伟大赞颂。斯瓦哈。

37.3

देवी द्यावापृथिवी मखस्य वाम् अद्य शिरो राध्यासं देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ॥ ३७.३ ॥

啊,天地二女神,愿我今日在大地上的诸神祭场,成就你们二者祭祀之首。为祭祀我接取你,为祭祀之首我接取你。

37.4

देव्यो वम्र्यो भूतस्य प्रथमजा मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ॥ ३७.४ ॥

啊,诸女神,大地所生、万物的长女,你们属于祭祀:愿我今日在大地上的诸神祭场成就祭祀之首。为祭祀我接取你,为祭祀之首我接取你。

37.5

इयत्य् अग्रे ऽ आसीन् मखस्य ते ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ॥ ३७.५ ॥

起初那般伟大的,属于你,啊祭祀。愿我今日在大地上的诸神祭场成就祭祀之首。为祭祀我接取你,为祭祀之首我接取你。

37.6

इन्द्रस्यौज स्थ मखस्य वो ऽद्य शिरो राध्यासं देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥ ३७.६ ॥

你们是因陀罗的力量;你们是祭祀之首。今日于大地的神圣祭场,愿我成就祭祀之首。为祭祀而取你,为祭祀之首而取你。

37.7

प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता ।
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥ ३७.७ ॥

愿梵之主前行;愿神圣的真言前来。朝向英雄、男子、施予供品之列者,愿诸神引导我们的祭祀。为祭祀而取你,为祭祀之首而取你。

37.8

मखस्य शिरो ऽसि ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
मखस्य शिरो ऽसि ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
मखस्य शिरो ऽसि ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥ ३७.८ ॥

你是祭祀之首。为祭祀而取你,为祭祀之首而取你。你是祭祀之首。为祭祀而取你,为祭祀之首而取你。你是祭祀之首。为祭祀而取你,为祭祀之首而取你。为祭祀而取你,为祭祀之首而取你,为祭祀而取你,为祭祀之首而取你。

37.9

अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
अश्वस्य त्वा वृष्णः शक्ना धूपयामि देवयजने पृथिव्याः ।
मखाय त्वा मखस्य त्वा शीर्ष्णे ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥ ३७.९ ॥

在大地的祭神之处,以雄马之力我为你熏香。为祭祀而献你,为祭祀之首而献你。

37.10

ऋजवे त्वा ।
साधवे त्वा ।
सुक्षित्यै त्वा ।
मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे मखाय त्वा मखस्य त्वा शीर्ष्णे ॥ ३७.१० ॥

为正直而献你,为成就而献你,为善居而献你。为祭祀而献你,为祭祀之首而献你。

37.11

यमाय त्वा ।
मखाय त्वा ।
सूर्यस्य त्वा तपसे ।
देवस् त्वा सविता मध्वानक्तु ।
पृथिव्याः सꣳस्पृशस् पाहि ।
अर्चिर् असि शोचिर् असि तपो ऽसि ॥ ३७.११ ॥

为阎摩而献你。为祭祀而献你。为太阳的热力而献你。愿神萨维特里以甘露涂抹你。保护我们免受大地的触碰。你是火焰,你是光辉,你是热力。

37.12

अनाधृष्टा पुरस्ताद् अग्नेर् आधिपत्य ऽ आयुर् मे दाः ।
पुत्रवती दक्षिणत ऽ इन्द्रस्याधिपत्ये प्रजां मे दाः ।
सुषदा पश्चाद् देवस्य सवितुर् आधिपत्ये चक्षुर् मे दाः ।
आस्रुतिर् उत्तरतो धातुर् आधिपत्ये रायस्पोषं मे दाः ।
विधृतिर् उपरिष्टाद् बृहस्पतेर् आधिपत्ये ऽ ओजो मे दाः ।
विश्वाभ्यो मा नाष्ट्राभ्यस् पाहि ।
मनोर् अश्वासि ॥ ३७.१२ ॥

在东方,在阿耆尼的统治下,不可战胜者,赐我寿命。在南方,在因陀罗的统治下,多子之母,赐我子嗣。在西方,在神萨维特里的统治下,安坐者,赐我视力。在北方,在达多的统治下,流动者,赐我财富的滋养。在上方,在布里哈斯帕蒂的统治下,承载者,赐我活力。保护我免于一切毁灭。你是摩奴的骏马。

37.13

स्वाहा मरुद्भिः परि श्रीयस्व ।
दिवः सꣳस्पृशस् पाहि ।
मधु मधु मधु ॥ ३७.१३ ॥

娑诃。与摩录多一同周遭成熟。保护我们免受天空的触碰。蜜,蜜,蜜。

37.14

गर्भो देवानां पिता मतीनां पतिः प्रजानाम् ।
सं देवो देवेन सवित्रा गत सꣳ सूर्येण रोचते ॥ ३७.१४ ॥

诸神的胎藏与父亲,思想的主宰,众生的主人。神与神萨维特里一同前行;他与太阳一同闪耀。

37.15

सम् अग्निर् अग्निना गत सं दैवेन सवित्रा सꣳ सूर्येणारोचिष्ट ।
स्वाहा सम् अग्निस् तपसा गत सं दैव्येन सवित्रा सꣳ सूर्येणारूरुचत ॥ ३७.१५ ॥

阿耆尼与阿耆尼相合,与神圣的萨维特里相合,与太阳相合而光辉闪耀。斯瓦哈。阿耆尼与热力相合,与神圣的萨维特里相合,与太阳相合而大放光明。

37.16

धर्ता दिवो वि भाति तपसस् पृथिव्यां धर्ता देवो देवानाम् अमर्त्यस् तपोजाः ।
वाचम् अस्मे नि यच्छ देवायुवम् ॥ ३७.१६ ॥

天界的支持者借助热力照耀大地;众神中的支持之神不死,生于热力。请为我们安定那渴慕诸神的言语。

37.17

अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।
स सध्रीचीः स विषूचीर् वसान ऽ आ वरीवर्त्ति भुवनेष्व् अन्तः ॥ ३७.१७ ॥

我看见那不灭的守护者,循着路径往来于此处与彼处。他披覆着同行者与异行者,在诸世界之中回旋。

37.18

विश्वासां भुवां पते विश्वस्य मनसस् पते विश्वस्य वचसस् पते सर्वस्य वचसस् पते ।
देवश्रुत् त्वं देव घर्म देवो देवान् पाहि ।
अत्र प्रावीर् अनु वां देववीतये ।
मधु माध्वीभ्यां मधु माधूचीभ्याम् ॥ ३७.१८ ॥

众生之主啊,万心之主啊,万语之主啊,众人言语之主啊。你是听闻诸神之神,热力之神啊,作为神请守护众神。在此为了诸神的欢喜,随顺你们二者而守护。以甘甜与甘甜者相合;以甘甜与行于甘甜者相合。

37.19

हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
ऊर्ध्वो ऽ अध्वरं दिवि देवेषु धेहि ॥ ३७.१९ ॥

为心而立你,为意而立你,为天而立你,为太阳而立你。你挺立于高处,把这祭祀安放在天上,诸神之中。

37.20

पिता नो ऽसि पिता नो बोधि नमस् ते ऽ अस्तु मा मा हिꣳसीः ।
त्वष्टृमन्तस् त्वा सपेम पुत्रान् पशून् मयि धेहि प्रजाम् अस्मासु धेह्य् अरिष्टाहꣳ सहपत्या भूयासम् ॥ ३७.२० ॥

你是我们的父亲,请做我们的父亲。向你致敬,不要伤害我们。愿我们与 Tvaṣṭṛ 一同侍奉你。请在我身中置放儿子与牲畜,在我们之中置放子嗣;愿我与妻子一同无害。

37.21

अहः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ।
रात्रिः केतुना जुषताꣳ सुज्योतिर् ज्योतिषा स्वाहा ॥ ३७.२१ ॥

愿白昼以其旗帜欢喜,以美好的光明与光同在;svāhā。愿黑夜以其旗帜欢喜,以美好的光明与光同在;svāhā。