Vedyatra वेदयात्रा
検索

ウパニシャッド · Bṛhadāraṇyaka 4.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

Bṛhadāraṇyaka 4.3.1

(ज्योतिर्ब्राह्मणम्)
जनकं ह वैदेहं याज्ञवल्क्यो जगाम ।
समेनेन वदिष्य इति ।
अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते ।
तस्मै ह याज्ञवल्क्यो वरं ददौ ।
स ह कामप्रश्नमेव वव्रे ।
तं हास्मै ददौ ।
तं ह सम्राडेव पूर्वः पप्रच्छ ॥ ४.३.१ ॥

光明のブラーフマナ。ヤージュニャヴァルキヤは「この人と語り合おう」と思い、ヴィデーハの王ジャナカのもとへ行った。ヴィデーハの王ジャナカとヤージュニャヴァルキヤが火の供犠の際に語り合っていたとき、ヤージュニャヴァルキヤは彼に一つの願いを与えた。彼は欲望に関する問いだけを選び、それが与えられた。そこで王自身がまず問うた。

Bṛhadāraṇyaka 4.3.2

याज्ञवल्क्य किंज्योतिरयं पुरुष इति ।
आदित्यज्योतिः सम्राडिति होवाच ।
आदित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४.३.२ ॥

ジャナカが問うた。「ヤージュニャヴァルキヤよ、この人は何を光としているのか。」ヤージュニャヴァルキヤは答えた。「大王よ、太陽がその光です。この太陽の光によって、彼は座り、動き回り、仕事をなし、そして戻ってくるのです。」ジャナカは言った。「ヤージュニャヴァルキヤよ、まさにそのとおりだ。」

Bṛhadāraṇyaka 4.3.3

अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति ।
चन्द्रमा एवास्य ज्योतिर्भवतीति ।
चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४.३.३ ॥

ヤージュニャヴァルキヤよ、太陽が沈んだとき、この人の光は何か。月がその光となる。ただ月の光によって彼は座り、動き、行いをし、戻ってくる。ヤージュニャヴァルキヤよ、そのとおりである。

Bṛhadāraṇyaka 4.3.4

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इति ।
अग्निरेवास्य ज्योतिर्भवतीति ।
अग्निनैव ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४.३.४ ॥

ヤージュニャヴァルキヤよ、太陽が沈み、月も沈んだとき、この人の光は何か。火がその光となる。ただ火の光によって彼は座り、動き、行いをし、戻ってくる。ヤージュニャヴァルキヤよ、そのとおりである。

Bṛhadāraṇyaka 4.3.5

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति ।
वागेवास्य ज्योतिर्भवतीति ।
वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति ।
तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ ४.३.५ ॥

ヤージュニャヴァルキヤよ、太陽が沈み、月が沈み、火が消えたとき、この人の光は何か。言葉がその光となる。ただ言葉の光によって彼は座り、動き、行いをし、戻ってくる。それゆえ、王よ、自分の手さえ見えないところで言葉が発せられると、人はその方へ行く。ヤージュニャヴァルキヤよ、そのとおりである。

Bṛhadāraṇyaka 4.3.6

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इति ।
आत्मैवास्य ज्योतिर्भवतीति ।
आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ४.३.६ ॥

ヤージュニャヴァルキヤよ、太陽が沈み、月が沈み、火が消え、言葉が止んだとき、この人の光は何か。自己(ātman)がその光となる。ただ自己の光によって彼は座り、動き、行いをし、戻ってくる。

Bṛhadāraṇyaka 4.3.7

कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ।
स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव ।
स हि स्वप्नो भूत्वेमं लोकमतिक्रामति अद्द्. मृत्यो रूपाणि ॥ ४.३.७ ॥

「アートマンとは何か」と問えば、それは諸気息の中、心臓の内にある内なる光、識より成るこのpuruṣaである。彼は同一のまま両世界を動き回り、思考し揺れ動いているかのように見える。夢となって、この世界と死の諸形態を超えてゆく。

Bṛhadāraṇyaka 4.3.8

स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते ।
स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ४.३.८ ॥

この人は生まれ身体に入るとき、諸悪と結びつく。そして死に際して去るとき、諸悪を捨て去る。

Bṛhadāraṇyaka 4.3.9

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः ।
इदं च परलोकस्थानं च ।
सन्ध्यं तृतीयं स्वप्नस्थानम् ।
तस्मिन्सन्ध्ये स्थाने तिष्ठनुभे स्थाने पश्यतीदं च परलोकस्थानं च ।
अथ यथाक्रमोऽयं परलोकस्थाने भवति ।
तमाक्रममाक्रम्योभयान् पाप्मन आनन्दांश्च पश्यति ।
स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति ।
अत्रायं पुरुषः स्वयंज्योतिर्भवति ॥ ४.३.९ ॥

この人には実のところ二つの状態しかない。この世界と彼の世界の状態である。第三の中間の状態は夢の状態である。その中間の状態に立つとき、彼は二つの状態、すなわちこの世界と彼の世界を見る。次いで順に、これは彼の世界の状態において起こる。その移行を越えて、彼は諸悪と諸楽の両方を見る。彼が深く眠る所では、この世界の全尺度を取り、自ら それを壊し、自ら それを創り、自らの光、自らの輝きによって眠る。ここにおいて、この人は自ら光を放つ者となる。

Bṛhadāraṇyaka 4.3.10

न तत्र रथा न रथयोगा न पन्थानो भवन्ति ।
अथ रथान् रथयोगान् पथः सृजते ।
न तत्रानन्दा मुदः प्रमुदो भवन्ति ।
अथानन्दान्मुदः प्रमुदः सृजते ।
न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति ।
अथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते ।
स हि कर्ता ॥ ४.३.१० ॥

そこには戦車もなく、戦車を牽く馬もなく、道もない。そこで彼は戦車、戦車の馬、道を創り出す。そこには歓喜もなく、喜びもなく、大いなる喜びもない。そこで彼は歓喜、喜び、大いなる喜びを創り出す。そこには池もなく、蓮の池もなく、流れる川もない。そこで彼は池、蓮の池、流れる川を創り出す。まさに彼こそが創り手なのである。

Bṛhadāraṇyaka 4.3.11

तदेते श्लोका भवन्ति
स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति ।
शुक्रमादाय पुनरैति स्थानं हिरण्मयःपुरुष एकहंसः ॥ ४.३.११ ॥

これについて次の詩句がある。夢によって身体を制圧し、眠らない者は眠っている者たちを見る。光を取って、彼は再び自分の場所へ戻る——その金色のプルシャ、ただ一羽の白鳥。

Bṛhadāraṇyaka 4.3.12

प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा ।
स ईयतेऽमृतो यत्रकामं हिरण्मयः पुरुष एकहंसः ॥ ४.३.१२ ॥

プラーナによって下の巣(身体)を守り、巣の外を遊行して、その不死なる者は望むところへ行く——その不死の金色のプルシャ、ただ一羽の白鳥。

Bṛhadāraṇyaka 4.3.13

स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि ।
उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ ४.३.१३ ॥

夢の終わりに、高く低く動きながら、神は多くの姿を作り出す——まるで女たちと喜び、笑っているかのように、そしてまた恐ろしいものを見ているかのように。

Bṛhadāraṇyaka 4.3.14

आराममस्य पश्यन्ति न तं पश्यति कश्चनेति ।
तं नायतं बोधयेदित्याहुः ।
दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ।
अथो खल्वाहुर्जागरितदेश एवास्यैस इति ।
यानि ह्येव जाग्रत्पश्यति तानि सुप्त इति ।
अत्रायं पुरुषः स्वयंज्योतिर्भवति ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ ४.३.१४ ॥

人々は彼の遊び場を見るが、彼を見る者は誰もいない——と言われる。横たわって伸びている彼を起こしてはならない、と人々は言う。彼がそれに至らない者には、治らぬ病が生じる。そして実に彼の場所は覚醒の状態にのみある、と人々は言う。覚醒において見るものを、眠りにおいても見るのである。ここにおいてこの人は自ら光を放つ者となる。尊き方に千頭(の牛)を差し上げます。さあ解脱のためにお説きください。

Bṛhadāraṇyaka 4.3.15

स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव ।
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति ।
असङ्गो ह्ययं पुरुष इति ।
एवमेवैतत्याज्ञवल्क्य ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ ४.३.१५ ॥

彼は深い眠りの中で楽しみ、さまよい、功徳と罪を見て、再び来た道を通って出生の場所へ、ただ夢のために戻ってくる。そこで彼が何を見ても、彼はそれに執着しない。この人(プルシャ)は無執着(asaṅga)だからである。ヤージュニャヴァルキヤよ、まさにそのとおりである。私は尊者に千頭(の牛)を贈ります。さあ、解脱(vimokṣa)のためだけに語ってください。

Bṛhadāraṇyaka 4.3.16

स वा एष एतस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ।
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति ।
असङ्गो ह्ययं पुरुष इति ।
एवमेवैतत्याज्ञवल्क्य ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ ४.३.१६ ॥

彼は夢の中で楽しみ、さまよい、功徳と罪を見て、再び来た道を通って出生の場所へ、ただ目覚めのために戻ってくる。そこで彼が何を見ても、彼はそれに執着しない。この人(プルシャ)は無執着(asaṅga)だからである。ヤージュニャヴァルキヤよ、まさにそのとおりである。私は尊者に千頭(の牛)を贈ります。さあ、解脱(vimokṣa)のためだけに語ってください。

Bṛhadāraṇyaka 4.3.17

स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ ४.३.१७ ॥

彼は目覚めた状態で楽しみ、さまよい、功徳と罪を見て、再び来た道を通って出生の場所へ、ただ夢の終わりのために戻ってくる。

Bṛhadāraṇyaka 4.3.18

तद्यथा महामत्स्य उभे कूले अनुसंचरति पूर्वं चापरं च ।
एवमेवायं पुरुष एतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च ॥ ४.३.१८ ॥

大きな魚が前と後の両岸に沿って動くように、この人(プルシャ)は夢の終わりと目覚めの終わり、この両端に沿って動く。

Bṛhadāraṇyaka 4.3.19

तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियते ।
एवमेवायं पुरुष एतस्मा अन्ताय धवति ।
यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नं पश्यति ॥ ४.३.१९ ॥

空を飛び回って疲れた鷹や鷲が翼をたたみ、自分の休息の場所へ自然に降りてゆくように、この人もその終わりへと急ぐ。そこでは眠る者はいかなる欲望も望まず、いかなる夢も見ない。

Bṛhadāraṇyaka 4.3.20

ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति ।
शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः ।
अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति ।
यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते ।
अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते ।
सोऽस्य परमो लोकः ॥ ४.३.२० ॥

ヒターと呼ばれるそれらの脈管は、髪の毛が千に裂けたように細く、そこに立っている。白、濃紺、黄褐色、緑、赤で満たされている。誰かに打たれ、打ち負かされ、象に踏みつけられ、輝きを失い、穴に落ちるように思われるとき、目覚めている時に見た恐怖を、彼は無明によってここで受け取る。そして神や王のように「私がこの全てである」と思うとき、それが彼の最高の世界である。

Bṛhadāraṇyaka 4.3.21

तद्वा अस्यैतदतिच्छन्दोऽपहतपाप्माभयं रूपम् ।
तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् ॥ ४.३.२१ ॥

これが彼の、あらゆる韻律を超え、悪を離れ、恐れのない形である。愛する女に固く抱かれた人が外も内も知らないように、智慧の我に抱かれたこの人もまた、外も内も知らない。これが彼の形であり、その願いは成就し、その願いは我であり、無欲にして、悲しみを超えている。

Bṛhadāraṇyaka 4.3.22

अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः ।
अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्ड्यालोऽचण्ड्यालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसः ।
अनन्वागतं पुण्येनानन्वागतं पापेन ।
तीर्णो हि तदा सर्वाञ्शोकान् हृदयस्य भवति ॥ ४.३.२२ ॥

ここでは、その状態において、父は父でなくなり、母は母でなくなり、世界は世界でなくなり、神々は神々でなくなり、ヴェーダはヴェーダでなくなる。ここでは、盗人は盗人でなくなり、胎児殺しは胎児殺しでなくなり、旃陀羅は旃陀羅でなくなり、プルカサは プルカサでなくなり、沙門は沙門でなくなり、苦行者は苦行者でなくなる。功徳もこれに従わず、悪もこれに従わない。なぜなら、その時、彼は心の一切の悲しみを越えているからである。

Bṛhadāraṇyaka 4.3.23

यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति ।
न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ ४.३.२३ ॥

それが何も見ないとき、見ながらも実際には何も見ていない。見る者の見ることは決して滅びることがない、それは不滅だからである。しかし、それとは別の第二のものは存在せず、それが見ることのできるものはない。

Bṛhadāraṇyaka 4.3.24

यद्वै तन्न जिघ्रति जिघ्रन् वै तन्न जिघ्रति ।
न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ ४.३.२४ ॥

それが何も嗅がないとき、嗅ぎながらも実際には何も嗅いでいない。嗅ぐ者の嗅覚は決して滅びることがない、それは不滅だからである。しかし、それとは別の第二のものは存在せず、それが嗅ぐことのできるものはない。

Bṛhadāraṇyaka 4.3.25

यद्वै तन्न रसयति रसयन् वै तन्न रसयति ।
न हि रसयितू रसयतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥ ४.३.२५ ॥

それが何も味わわないとき、味わいながらも実際には何も味わっていない。味わう者の味覚は決して滅びることがない、それは不滅だからである。しかし、それとは別の第二のものは存在せず、それが味わうことのできるものはない。

Bṛhadāraṇyaka 4.3.26

यद्वै तन्न वदति वदन् वै तन्न वदति ।
न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ ४.३.२६ ॥

それが何も語らないとき、語りながらも実際には何も語っていない。語る者の語る力は決して滅びることがない、それは不滅だからである。しかし、それとは別の第二のものは存在せず、それが語ることのできるものはない。

Bṛhadāraṇyaka 4.3.27

यद्वै तन्न शृणोति शृण्वन् वै तन्न शृणोति ।
न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ ४.३.२७ ॥

それを聞かない者は、聞いているときでも実はそれを聞いていない。聞く者の聞くはたらきは失われない、それは不滅(avināśitva)だからである。しかし、それから分かれた、聞かれうる第二のものは存在しない。

Bṛhadāraṇyaka 4.3.28

यद्वै तन्न मनुते मन्वानो वै तन्न मनुते ।
न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ ४.३.२८ ॥

それを思わない者は、思っているときでも実はそれを思っていない。思う者の思うはたらきは失われない、それは不滅(avināśitva)だからである。しかし、それから分かれた、思われうる第二のものは存在しない。

Bṛhadāraṇyaka 4.3.29

यद्वै तन्न स्पृशति स्पृशन् वै तन्न स्पृशति ।
न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ ४.३.२९ ॥

それに触れない者は、触れているときでも実はそれに触れていない。触れる者の触れるはたらきは失われない、それは不滅(avināśitva)だからである。しかし、それから分かれた、触れうる第二のものは存在しない。

Bṛhadāraṇyaka 4.3.30

यद्वै तन्न विजानाति विजानन् वै तन्न विजानाति ।
न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ४.३.३० ॥

それを知らない者は、知っているときでも実はそれを知っていない。知る者の知るはたらきは失われない、それは不滅(avināśitva)だからである。しかし、それから分かれた、知りうる第二のものは存在しない。

Bṛhadāraṇyaka 4.3.31

यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ४.३.३१ ॥

そこに、いわば他なるものがあるならば、一人は他を見、他を嗅ぎ、他を味わい、他に語り、他を聞き、他を思い、他に触れ、他を知るであろう。

Bṛhadāraṇyaka 4.3.32

सलिल एको द्रष्टाद्वैतो भवति ।
एष ब्रह्मलोकः सम्राट् ।
इति हैनमनुशशास याज्ञवल्क्यः ।
एषास्य परमा गतिः ।
एषास्य परमा संपत् ।
एषोऽस्य परमो लोकः ।
एषोऽस्य परम आनन्दः ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ४.३.३२ ॥

水の中で一つとなった見る者は不二となる。これがブラフマンの世界である、王よ。このようにヤージュニャヴァルキヤは彼に教えた。これこそ彼の最高の帰趨、最高の成就、最高の世界、最高の至福である。この至福のただ一つの量によって、他の生きものは生きているのである。

Bṛhadāraṇyaka 4.3.33

स यो मनूष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दः ।
अथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोकानामानन्दः ।
अथ ये शतं पितॄणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दः ।
अथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते ।
अथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथैष एव परम आनन्दः ।
एष ब्रह्मलोकः सम्राट् ।
इति होवाच याज्ञवल्क्यः ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ।
अत्र ह याज्ञवल्क्यो बिभयां चकार मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति ॥ ४.३.३३ ॥

人々の中で繁栄して栄え、他者の主となり、人間のあらゆる享楽を最も豊かに備えた者、それが人間の至上の至福である。人間の百の至福は、諸世界を獲得した父祖たちの一つの至福である。父祖たちの百の至福は、ガンダルヴァの世界の一つの至福である。ガンダルヴァの世界の百の至福は、行為によって神となる業神たちの一つの至福であり、彼らは行為によって神性に至る。業神たちの百の至福は、生まれながらの神々の一つの至福である。ヴェーダに通じ、罪なく、欲望を離れた者……生まれながらの神々の百の至福は、プラジャーパティの世界の一つの至福である。プラジャーパティの世界の百の至福は、ブラフマンの世界の一つの至福である。これこそが至上の至福である。これがブラフマンの世界である、王よ、とヤージュニャヴァルキヤは言った。尊い方に千頭を差し上げましょう。この先は、ただ解脱についてお話しください。ここでヤージュニャヴァルキヤは恐れた。賢明な王はすべての学者を凌いだ。

Bṛhadāraṇyaka 4.3.34

स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ४.३.३४ ॥

この者は、夢の終わりに楽しみ、さまよい、功徳と罪過を見てから、また同じようにその胎へと走り戻る——目覚めの終わりまでのみ。

Bṛhadāraṇyaka 4.3.35

तद्यथानः सुसमाहितमुत्सर्जं यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जं याति ।
यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ४.३.३५ ॥

ちょうど人が完全に心を集めて出立するように、この身体にあるアートマンは、智慧のアートマンに導かれて去る。そのとき息は上へ昇るものとなる。

Bṛhadāraṇyaka 4.3.36

स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति ।
तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यते ।
एवमेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ४.३.३६ ॥

老いや熱の熱さによって彼が微細さに達するとき、彼は微細さに達する。マンゴー、イチジク、ピッパラの実が茎から離れるように、この人はこれらの肢体から完全に解放されて、再び同じ道を通って、生じた場所へ、プラーナへと走り戻る。

Bṛhadāraṇyaka 4.3.37

तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरवसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीति ।
एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ ४.३.३७ ॥

ちょうど、厳格な役人、御者、村長たちが近づいてくる王のために食べ物、飲み物、宿舎を整え、『来られる、到着される』と言うように、このように知る者のためには、すべての存在が準備し、『ブラフマンが来る、ブラフマンがここに来る』と言うのである。

Bṛhadāraṇyaka 4.3.38

तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्ति ।
एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति ।
यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ४.३.३८ ॥

ちょうど、厳格な役人、御者、村長たちが出立しようとする王のまわりに集まるように、死の時には、すべての気息(プラーナ)がこのアートマンのまわりに集まる。そのとき息は上へ昇るものとなる。