Vedyatra वेदयात्रा
検索

バガヴァッド・ギーター · 章 15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

15.1

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५.१ ॥

聖バガヴァーンは言った。根を上に、枝を下にした不滅のアシュヴァッタ樹があると言われる。その葉はヴェーダの讃歌である。それを知る者こそヴェーダを知る者である。

15.2

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ १५.२ ॥

その枝は下へ上へと広がり、グナによって育ち、感覚の対象を新芽とする。そして下方、人間の世界には、行為に縛りつける根が伸び広がっている。

15.3

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूल मसङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५.३ ॥

この世ではその姿はそのようには認められず、終わりも始まりも基盤も認められない。この深く根を張ったアシュヴァッタ樹を、無執着という堅固な斧で切り倒して、

15.4

ततः पदं तत्परिमार्गितव्य यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५.४ ॥

それからその境地を求めるべきである。そこに至った者は再び戻らない。「古き活動の流れが発したその原初のプルシャにこそ、私は帰依する」と念じて。

15.5

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५.५ ॥

慢心と迷妄を離れ、執着の過ちに打ち勝ち、常に自己に専心し、欲望から退き、楽と苦と呼ばれる二元から解き放たれた迷いなき者たちは、その不滅の境地に至る。

15.6

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५.६ ॥

太陽もそれを照らさず、月も火も照らさない。そこに至った者は戻らない。それが私の至高の住処である。

15.7

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५.७ ॥

わが永遠の一部が生類の世界において個我となり、プラクリティに属する、心を第六とする感官を引き寄せる。

15.8

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५.८ ॥

身体の主が身体を得るときも、それを去るときも、風が香りをその源から運ぶように、これらを携えて去っていく。

15.9

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५.९ ॥

彼は耳、目、触覚、舌、鼻、そして心を拠り所として、感官の対象を享受する。

15.10

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५.१० ॥

去るときも、留まるときも、グナと結びついて享受するときも、迷える者は彼を見ない。智慧の眼をもつ者が見る。

15.11

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५.११ ॥

努め励むヨーギーたちは、彼が自己の内に住しているのを見る。しかし自己を修めていない無分別な者は、努めても彼を見ない。

15.12

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५.१२ ॥

太陽にあって全世界を照らす光輝、また月にあり火にある光輝、その光輝はわがものと知れ。

15.13

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५.१३ ॥

私は大地に入って力によって万物を支え、液汁の精であるソーマとなって、すべての草木を育む。

15.14

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५.१४ ॥

私はヴァイシュヴァーナラ(生命の火)となって生き物の身体に宿り、プラーナとアパーナと結びついて、四種の食物を消化する。

15.15

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५.१५ ॥

私はすべての者の心に宿っている。記憶も知識もその喪失も私から生じる。すべてのヴェーダによって知られるべきは私のみであり、ヴェーダーンタを作った者もヴェーダを知る者も私である。

15.16

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५.१६ ॥

この世には二つのプルシャがある。滅びるものと滅びないものである。すべての存在は滅びるものであり、不動なるものは不滅と呼ばれる。

15.17

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५.१७ ॥

しかし最高のプルシャはそれらとは別であり、至高の自己と呼ばれる。それは三界に入ってそれを支える不滅の主である。

15.18

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५.१८ ॥

私は滅びるものを超え、滅びないものよりもさらに優れているゆえに、世間でもヴェーダでもプルショーッタマ(最高のプルシャ)として称えられている。

15.19

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५.१९ ॥

バーラタよ、迷いなく私をこのように至高のプルシャと知る者は、すべてを知る者として、全存在をもって私を信愛する。

15.20

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५.२० ॥

罪なき者よ、このように最も秘奥なる教えを私は説いた。バーラタよ、これを悟る者は賢者となり、なすべきことをなし終えた者となる。