Vedyatra वेदयात्रा
搜索

奥义书 · Bṛhadāraṇyaka 1.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Bṛhadāraṇyaka 1.5.1

(सप्तान्नब्राह्मणं वा संवर्गविद्याब्राह्मणम्)
यत्सप्तान्नानि मेधया तपसाजनयत्पिता ।
एकमस्य साधारणं द्वे देवानभाजयत् ।
त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा ।
यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन ।
स देवानपिगच्छति स ऊऋजमुपजीवति ।
इति श्लोकाः ॥ १.५.१ ॥

(七食婆罗门,或摄持之知婆罗门。)父亲以智慧与苦行所生的七种食物中,留一种作为共同之用;分两种给诸神;为自己作三种;给动物一种。一切有气息与无气息者,皆安立于其中。既常被食用,为何它们不减少?知晓那不坏者,便以象征的方式食用食物。他得以到达诸神,并以精力为生。以下是诗颂。

Bṛhadāraṇyaka 1.5.2

यत्सप्तान्नानि मेधया तपसाजनयत्पितेति ।
मेधया हि तपसाजनयत्पितैकमस्य साधारणमिति ।
इदमेवास्य तत्साधारणमन्नं यदिदमद्यते ।
स य एतदुपास्ते न स पाप्मनो व्यावर्तते ।
मिश्रं ह्येतत् ।
द्वे देवानभाजयदिति ।
हुतं च प्रहुतं च ।
तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति ।
अथो आहुर्दर्शपूर्णमासाविति ।
तस्मान्नेष्टियाजुकः स्यात् ।
पशुभ्य एकं प्रायच्छदिति ।
तत्पयः ।
पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति ।
तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति ।
अथ वत्सं जातमाहुस्तृणादिति ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति ।
पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति ।
न तथा विद्यात् ।
यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् ।
सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं पुनः पुनर्जनयते ।
यो वैतामक्षितिं वेदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं धियाधिया जनयते कर्मभिः ।
यद्धैतन्न कुर्यात्क्षीयेत ह ।
सोऽन्नमत्ति प्रतीकेनेति ।
मुखं प्रतीकं मुखेनेत्येतत् ।
स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ १.५.२ ॥

此段讲述父以智慧与苦行所生的七种食物。父以智慧与苦行使一种食物为众所共有;这便是被食用的共同之食。冥想此者,便远离罪恶。此食是混合的,因他分给诸神两份:投入火中的祭品与倾洒的祭品。因此向诸神供奉,既有投入之供,也有倾洒之供。有人说应行新月与满月之祭,所以不应只做iṣṭi祭祀者。他把一份给了牲畜,那就是乳。因为乳首先养育人与牲畜。所以新生儿出生后,先让他舔酥油或吮乳,并说新生的小牛应吃草。在它之中,一切有呼吸与无呼吸者皆得安立。在乳中,一切有呼吸与无呼吸者皆得安立。若有人说一年以乳供奉便能胜过重复的死亡,不应相信他。每日供奉者,当日便胜过重复的死亡;知者如此行。他把一切可食之食供给诸神。食物被吃掉,为何却永不减少?唯有补鲁莎是不灭的。他一次又一次地产生这食物。知此不灭者亦如是。唯有补鲁莎是不灭的;他以念念之思、以行动产生此食。若他不这样做,食物便会耗尽。他以口为媒介进食;口即媒介,经由口。他得达诸神,依力而活。此为赞颂。

Bṛhadāraṇyaka 1.5.3

त्रीण्यात्मनेऽकुरुतेति
मनो वाचं प्राणं तान्यात्मनेऽकुरुत ।
अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति ।
कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव ।
तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति ।
यः कश्च शब्दो वागेव सा ।
एषा ह्यन्तं आयत्तैषा हि न ।
प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एव ।
एतन्मयो वा अयमात्मा ।
वाङ्मयो मनोमयः प्राणमयः ॥ १.५.३ ॥

他为自我造了三样:意(manas)、语(vāc)、气息(prāṇa)。我因为心在别处而没有看见,因为心在别处而没有听见——实际上是以心看,以心听。欲望、决断、疑惑、信、不信、坚定、不坚定、羞耻、智慧、恐惧——这一切都只是心。因此即使从背后被触碰,也是以心知觉。任何声音都只是语言;它终结于此,也依托于此。气息(prāṇa)、下行气(apāna)、遍行气(vyāna)、上行气(udāna)、平行气(samāna)以及食物——这一切都只是prāṇa。这个自我确实由这些构成:由语言构成,由心构成,由prāṇa构成。

Bṛhadāraṇyaka 1.5.4

त्रयो लोका एत एव ।
वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ १.५.४ ॥

这些确实就是三界。语言就是这个世界(地界);心意是中间的空界;而气息(prāṇa)是那个世界(天界)。

Bṛhadāraṇyaka 1.5.5

त्रयो वेदा एत एव ।
वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ १.५.५ ॥

这些确实就是三部吠陀。语言就是《梨俱吠陀》,心意就是《夜柔吠陀》,而气息(prāṇa)就是《娑摩吠陀》。

Bṛhadāraṇyaka 1.5.6

देवा पितरो मनुष्या एत एव ।
वागेव देवा मनः पितरः, प्राणो मानुष्याः ॥ १.५.६ ॥

这些确实就是诸神、祖先和人类。语言是诸神,心意是祖先,气息(prāṇa)是人类。

Bṛhadāraṇyaka 1.5.7

पिता माता प्रजैत एव ।
मन एव पिता वाङ्माता प्राणः प्रजा ॥ १.५.७ ॥

父、母、子嗣——正是如此。意为父,言为母,气息(prāṇa)为子。

Bṛhadāraṇyaka 1.5.8

विज्ञातं विजिज्ञास्यमविज्ञातमेत एव ।
यत्किञ्च विज्ञातं वाचस्तद्रूपम् ।
वाग्घि विज्ञाता ।
वागेनं तद्भूत्वावति ॥ १.५.८ ॥

已知者、当知者与未知者——正是如此。凡所知者皆是言语之形,因言语即是知者。言语化为此形而护持之。

Bṛhadāraṇyaka 1.5.9

यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् ।
मनो हि विजिज्ञास्यम् ।
मन एनं तद्भूत्वावति ॥ १.५.९ ॥

凡当知者皆是意之形,因意即是当知者。意化为此形而护持之。

Bṛhadāraṇyaka 1.5.10

यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् ।
प्राणो ह्यविज्ञातः ।
प्राण एनं तद्भूत्वावति ॥ १.५.१० ॥

凡未知者皆是气息(prāṇa)之形,因气息即是未知者。气息化为此形而护持之。

Bṛhadāraṇyaka 1.5.11

तस्यै वाचः पृथिवी शरीरम् ।
ज्योतीरूपमयमग्निः ।
तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ १.५.११ ॥

大地是此语言的身体。此火具有光明之形。语言有多大,大地就有多大;大地有多大,这火就有多大。

Bṛhadāraṇyaka 1.5.12

अथैतस्य मनसो द्यौः शरीरम् ।
ज्योतीरूपमसावादित्यः ।
तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यः ।
तौ मिथुनं समैताम् ।
ततः प्राणोऽजायत ।
स इन्द्रः ।
स एषोऽसपत्नः ।
द्वितीयो वै सपत्नः ।
नास्य सपत्नो भवति य एवं वेद ॥ १.५.१२ ॥

其次,此意的身体是天界。那具光明之形的阿底耶(太阳)是其形。意有多大,天界就有多大;天界有多大,那阿底耶就有多大。这二者作为一对结合,由此生出气息(prāṇa)。他是因陀罗。他是这无敌者,因为第二者才是敌人。知此者无敌。

Bṛhadāraṇyaka 1.5.13

अथैतस्य प्राणस्यापः शरीरम् ।
ज्योतीरूपमसौ चन्द्रः ।
तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः ।
त एते सर्व एव समाः सर्वेऽनन्ताः ।
स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयति ।
अथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ १.५.१३ ॥

其次,此气息(prāṇa)的身体是水。那具光明之形的月亮是其形。气息有多大,水就有多大;水有多大,那月亮就有多大。这些都相等,都是无限的。若把它们视为有限而敬奉,便得有限之界;若把它们视为无限而敬奉,便得无限之界。

Bṛhadāraṇyaka 1.5.14

स एष संवत्सरः प्रजापतिष्षोडशकलः ।
तस्य रात्रय एव पञ्चदश कला ।
ध्रुवैवास्य षोडशी कला ।
स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते ।
सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते ।
तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १.५.१४ ॥

此年即是具十六分的生主(Prajāpati)。其十五分即是诸夜;其第十六分是恒常不变的。他仅随诸夜而盈亏。在新月之夜,他以此第十六分进入一切有生命者,然后于清晨再度诞生。因此,在那一夜不应断绝任何有气息者的生命,即便是蜥蜴,以此同一神祇之故而敬之。

Bṛhadāraṇyaka 1.5.15

यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित्पुरुषः ।
तस्य वित्तमेव पञ्चदश कलाः ।
आत्मैवास्य षोडशी कला ।
स वित्तेनैवा च पूर्यतेऽप च क्षीयते ।
तदेतन्नभ्यं यदयमात्मा ।
प्रधिर्वित्तम् ।
तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ १.५.१५ ॥

那一年即是生主,具有十六分。此即是他,如此知之的人也即是他。他的财富是十五分;自我(ātman)是他的第十六分。他因财富而充实,也因财富而衰减。此自我是轮毂,财富是轮辋。因此,即使一个人征服了一切,若自我仍活着,人们便说他连同轮辋一起离去了。

Bṛhadāraṇyaka 1.5.16

अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा ।
कर्मणा पितृलोकः ।
विद्यया देवलोकः ।
देवलोको वै लोकानां श्रेष्ठः ।
तस्माद्विद्यां प्रशंसन्ति ॥ १.५.१६ ॥

现在确有三界:人界、祖界与天界。这人界只能借儿子获得,不能借其他行为。祖界借祭祀行为获得,天界借知识获得。天界确实是诸界中最好的。因此人们赞美知识。

Bṛhadāraṇyaka 1.5.17

अथातः सम्प्रत्तिः ।
यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति ।
यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ।
ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ।
ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता ।
एतावद्वा इदं सर्वम् ।
एतन्मा सर्वं सन्नयमितो भुनजदिति ।
तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः ।
तस्मादेनमनुशासति ।
स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति ।
स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम ।
स पुत्रेणैवास्मिल्लोके प्रतितिष्ठति ।
अथैनमेते देवाः प्राणा अमृता आविशन्ति ॥ १.५.१७ ॥

现在说传承家业的段落:当父亲认为自己将要离去时,便对儿子说:“你即是梵,你即是祭祀,你即是世界。”那儿子回答:“我即是梵,我即是祭祀,我即是世界。”凡所诵之物的统一即是梵;一切祭祀的统一即是祭祀;一切世界的统一即是世界。这整体不过如此。“愿这一切都属于我,愿我从此处享用它。”因此,受过教导的儿子被称为“得世界者”,所以人们教导他。知此之人离开此世时,便与这些生命气息一同进入儿子。若他做过什么过错,儿子便为他解脱一切,因此称为“子”(putra)。唯借儿子,他才能在此世坚立。然后这些不死的神圣气息进入他。

Bṛhadāraṇyaka 1.5.18

पृथिव्यै चैनमग्नेश्च दैवी वागाविशति ।
सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ १.५.१८ ॥

神圣之言也从大地与火进入他之中。那神圣之言正是如此:他所说的,便成为什么。

Bṛhadāraṇyaka 1.5.19

दिवश्चैनमादित्याच्च दैवं मन आविशति ।
तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १.५.१९ ॥

神圣之心从天界与太阳进入他之中。正是这神圣之心,使人喜悦而不悲伤。

Bṛhadāraṇyaka 1.5.20

अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति ।
स वै दैवः प्राणो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
स एष एवंवित्सर्वेषां भूतानामात्मा भवति ।
यथैषा देवतैवं सः ।
यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति ।
यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति ।
पुण्यमेवामुं गच्छति ।
न ह वै देवान् पापं गच्छति ॥ १.५.२० ॥

又从水与月亮,神圣的气息(prāṇa)也进入他之中。这神圣的气息,无论运动或不运动,都不受扰动,也不败坏。如此知晓的人成为一切众生的我(ātman)。此神如何,他也如何。正如一切众生依托此神,同样一切众生依托于如此知晓的人。这些众生所悲叹的,都远离他。他只走向善功;恶不会去到诸神那里。

Bṛhadāraṇyaka 1.5.21

अथातो व्रतमीमांसा ।
प्रजापतिर्ह कर्माणि ससृजे ।
तानि सृष्टान्यन्योऽन्येनास्पर्धन्त ।
वदिष्याम्येवाहमिति वाग्दध्रे ।
द्रक्ष्याम्यहमिति चक्षुः ।
श्रोष्याम्यहमिति श्रोत्रम् ।
एवमन्यानि कर्माणि यथाकर्मम् ।
तानि मृत्युः श्रमो भूत्वोपयेमे ।
तान्याप्नोत् ।
तान्याप्त्वा मृत्युरवारुन्ध ।
तस्माच्छ्राम्यत्येव वाक् ।
श्राम्यति चक्षुः ।
श्राम्यति श्रोत्रम् ।
अथेममेव नाप्नोत्योऽयं मध्यमः प्राणः ।
तानि ज्ञातुं दध्रिरे ।
अयं वै नः श्रेष्ठो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
हन्तास्यैव सर्वे रूपं भवामेति ।
त एतस्यैव सर्वे रूपमभवन् ।
तस्मादेत एतेनाख्यायन्ते प्राणा इति ।
तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद ।
य उ हैवंविदा स्पर्धतेऽनुशुष्यति ।
अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ १.५.२१ ॥

现在,关于誓戒的考察。生主创造了诸功能(karmāṇi)。被创造之后,它们彼此竞争。言语决定:“我要说话”;眼睛说:“我要看见”;耳朵说:“我要听见”;其余的功能也是如此,各依其功能。死亡以疲倦之形态来到,攫取并抓住了它们。得到它们之后,死亡便制服了它们。因此言语会疲倦,眼睛会疲倦,耳朵会疲倦。然而它不能获得其中间的气息(prāṇa)。它们决定要认识它:“我们中间这位是最好的,无论运动或不运动,都不受扰动,也不败坏。来吧,我们都成为这一位的形态。”它们都成了那一位的形态。因此它们被以此名称为“诸气息”(prāṇāḥ)。凡如此知晓的人所生之族,人们说那族因他而得名。与如此知晓者相竞争的人会枯萎;枯萎之后,最终死去。这是关于自我(adhyātma)的教导。

Bṛhadāraṇyaka 1.5.22

अथाधिदेवतं
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ।
तप्स्याम्यहमित्यादित्यः ।
भास्याम्यहमिति चन्द्रमाः ।
एवमन्या देवता यथादेवतम् ।
स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः ।
म्लोचन्ति ह्यन्या देवता न वायुः ।
सैषानस्तमिता देवता यद्वायुः ॥ १.५.२२ ॥

现在论及诸神(adhidaivatam):“我要燃烧”,火决定了。“我要发热”,太阳说。“我要发光”,月亮说。其余的神也是如此,各依其神性。如同中间的气息在这些气息之中,同样在这些神之中,风(vāyu)即是如此。因为其他的神会落下,而风不落下。那风就是永不落下的神。

Bṛhadāraṇyaka 1.5.23

अथैष श्लोको भवति
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति ।
प्राणाद्वा एष उदेति प्राणेऽस्तमेति ।
तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति ।
यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति ।
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च ।
नेन्मा पाप्मा मृत्युराप्नवदिति ।
यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ १.५.२३ ॥

这里有一首偈颂:太阳从何处升起,又向何处落下。实际上,它从气息(prāṇa)中升起,又在气息中落下。诸神立下规则:“今天是他,明天也是他。”这些人昨天所做的,今天也照样做。因此应当守持唯一的誓愿,即吸气与呼气,使恶与死亡不能及于他。若有人愿意圆满完成它,便能获得与该神的合一,并得与其同居一界。