奥义书 · Śvetāśvatara 4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Śvetāśvatara 4.1
य एकोऽवर्णो बहुधा शक्तियोगाद्वर्णाननेकान्निहितार्थो दधाति ।
विचैति चान्ते विश्वमादौ च देवः स नो बुद्ध्या शुभया संयुनक्तु ॥ ४.१ ॥
那唯一无色的主,借其力量(śakti)的结合,以多种方式为隐秘的目的显现诸色,并在起始与终结时收摄宇宙。愿那位神以善慧(buddhi)与我们相连。
Śvetāśvatara 4.2
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।
तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः ॥ ४.२ ॥
那就是火,那就是太阳,那就是风,那就是月亮。那就是光明者(śukra),那就是梵(brahman),那就是水,那就是生主(Prajāpati)。
Śvetāśvatara 4.3
त्वं स्त्री पुमानसि त्वं कुमार उत वा कुमारी ।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ ४.३ ॥
你是女人,你是男人;你是少年,或你是少女。你是年老者,拄着杖蹒跚而行;你生而成为面向一切方向的那一位。
Śvetāśvatara 4.4
नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः ।
अनादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥ ४.४ ॥
深蓝、如鸟、碧绿、红眼;以闪电为胎藏;季节与海洋——你无始,凭你的遍在而存在,一切世界皆由你而生。
Śvetāśvatara 4.5
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ ४.५ ॥
那无生的、唯一的、红白黑三色的,产生众多与自己同类之子的她;一个无生者与她相依而卧,享受着她;另一个无生者,在享用已毕之后,便舍弃她。
Śvetāśvatara 4.6
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥ ४.६ ॥
两只羽翼美丽的鸟,结伴相连的朋友,紧紧拥抱着同一棵树。其中一只吃着甘甜的菩提果;另一只不吃,只是注视着。
Śvetāśvatara 4.7
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ ४.७ ॥
沉溺于同一棵树上的人,因自身的无力而迷惑,因而悲伤。当他看见那可爱的、另一位主宰及其伟大时,便离开了忧愁。
Śvetāśvatara 4.8
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ।
यस्तं न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ ४.८ ॥
诗句依止于那至高不灭者、虚空之中,诸神都安坐于其上。不知他的人,诗句能为他做什么呢?知道他的人,才在此共同安住。
Śvetāśvatara 4.9
छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति ।
अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः ॥ ४.९ ॥
韵律、祭祀、仪轨与誓愿,过去与未来,以及吠陀所宣说的一切,都由这位具有幻力者从此中创造出这整个世界。而在他之中,另有一者被幻力所束缚。
Śvetāśvatara 4.10
मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् ।
तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ ४.१० ॥
应当知道幻力即是自性(prakṛti),而具有幻力者即是大自在主。这整个世界被他那作为肢体的部分所遍及。
Śvetāśvatara 4.11
यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदं सं च विचैति सर्वम् ।
तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ॥ ४.११ ॥
那唯一者统御每一个生育之源,万物在其中聚合又回归。认识这位主宰、赐予恩惠、值得赞颂的神,人便得到这至高的寂静。
Śvetāśvatara 4.12
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।
हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु ॥ ४.१२ ॥
他是诸神的起源与出现,万有之主,大仙鲁陀罗。看那正在诞生的金胎(Hiraṇyagarbha)吧;愿他以善慧使我们相应。
Śvetāśvatara 4.13
यो देवानामधिपो यस्मिन्ल्लोका अधिश्रिताः ।
य ईशेऽस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ ४.१३ ॥
诸神之主,诸世界依托于他,他统治这两足与四足的众生:我们当以供物礼敬哪一位神?
Śvetāśvatara 4.14
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ ४.१४ ॥
比最细微更细微,居于原初之团的中央,是多种形相的宇宙创造者,是包绕宇宙的唯一者。认识这位吉祥的湿婆,人便得到至高的寂静。
Śvetāśvatara 4.15
स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः ।
यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ ४.१५ ॥
他在适当的时候是世界的守护者,一切的主宰,隐藏于一切众生之中。梵仙与诸神都与他相连。如此认识他的人,便斩断死亡的绳索。
Śvetāśvatara 4.16
घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ४.१६ ॥
比酥油的精华更加精微的湿婆,隐藏于一切众生之中。认识他,认识那包围宇宙的唯一神,人便从一切束缚中解脱。
Śvetāśvatara 4.17
एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद् विदुरमृतास्ते भवन्ति ॥ ४.१७ ॥
这位神是万物的创造者,伟大的自我,始终安坐于众人心中。以心、以智慧、以意念可以领会他。知此者便成为不死者。
Śvetāśvatara 4.18
यदाऽतमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ ४.१८ ॥
当既无黑暗,也无白昼黑夜,无有也无非有之时,唯有湿婆独存。那不灭者是萨维特里所尊崇的光明,古老的智慧由此流出。
Śvetāśvatara 4.19
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये न परिजग्रभत् ।
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ॥ ४.१९ ॥
无人从上、从旁或从中抓住他。其名为大荣耀者,没有形象。
Śvetāśvatara 4.20
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ॥ ४.२० ॥
他的形象不停留在视野之中,无人以眼睛看见他。以心与意如此认识那住在心中之者的人,便成为不死者。
Śvetāśvatara 4.21
अजात इत्येवं कश्चिद्भीरुः प्रपद्यते ।
रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ ४.२१ ॥
如此,怀有恐惧的人便皈依,说:‘你是无生者。’ 楼陀罗啊,以你那右边的面容,请永远护佑我。
Śvetāśvatara 4.22
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा न अश्वेषु रीरिषः ।
वीरान् मा नो रुद्र भामितोऽवधीर्हविष्मन्तः सदामित्त्वा हवामहे ॥ ४.२२ ॥
楼陀罗啊,不要伤害我们的子孙与孙辈,不要损害我们的寿命,不要伤害我们的牛与马。不要在愤怒中杀害我们的勇士。我们这些奉献祭品者,永远呼唤你。