Vedyatra वेदयात्रा
搜索

夜柔吠陀 · 章(Adhyāya) 31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

31.1

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिꣳ सर्वत स्पृत्वात्य् अतिष्ठद् दशाङ्गुलम् ॥ ३१.१ ॥

原人有千头、千眼、千足。他从四面包覆大地,并超出大地十指之宽而立。

31.2

पुरुषऽएवेदꣳ सर्वं यद् भूतं यच् च भाव्यम् ।
उतामृतत्वस्येशानो यद् अन्नेनातिरोहति ॥ ३१.२ ॥

凡已有的,与将有的,皆是补卢沙。他是不死的主宰,借食物而超越升起。

31.3

एतावान् अस्य महिमातो ज्यायाꣳश् च पूरुषः ।
पादो ऽस्य विश्वा भूतानि त्रिपाद् अस्यामृतं दिवि ॥ ३१.३ ॥

他的伟大如此;补卢沙更为宏大。他的一分是一切众生,三分是天上的不死者。

31.4

त्रिपाद् ऊर्ध्व उद् ऐत् पुरुषः पादो ऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत् साशनानशने ऽ अभि ॥ ३१.४ ॥

他的三分升向上方;补卢沙的一分又在此出现。之后他遍布四方,覆盖能食与不能食之物。

31.5

तस्माद् विराड् अजायत विराजो ऽ अधि पूरुषः ।
स जातो ऽ अत्य् अरिच्यत पश्चाद् भूमिम् अथो पुरः ॥ ३१.५ ॥

由他生出毗罗阇;在毗罗阇之上显现了补卢沙。他既生,便超越后方的大地,也超越前方。

31.6

तस्माद् यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूꣳस् ताꣳश् चक्रे वायव्यान् आरण्या ग्राम्याश् च ये ॥ ३१.६ ॥

从那全献的祭祀中,聚集了凝乳与酥油;他为风神创造了那些野生与家养的牲畜。

31.7

तस्माद् यज्ञात् सर्वहुत ऽ ऋचः सामानि जज्ञिरे ।
छन्दाꣳसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥ ३१.७ ॥

从那全献的祭祀中,生出了颂(ṛc)与歌(sāman);由此生出诸韵律,由此生出祭祀之语(yajus)。

31.8

तस्माद् अश्वा ऽ अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज् जाता ऽ अजावयः ॥ ३१.८ ॥

从那里生出了马,以及两侧有牙齿的动物。从那里生出了牛;从那里生出了山羊和绵羊。

31.9

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः ।
तेन देवा ऽ अयजन्त साध्या ऽ ऋषयश् च ये ॥ ३१.९ ॥

他们先把那祭祀,即已生的补卢沙,洒在神圣的吉祥草上。以他,诸神、萨提亚神和仙人举行了祭祀。

31.10

यत् पुरुषं व्य् अदधुः कतिधा व्यकल्पयन् ।
मुखं किम् अस्य कौ बाहू का ऊरू पादा ऽ उच्येते ॥ ३१.१० ॥

当他们分割补卢沙时,将他分成了多少部分?他的口称为什么,两臂称为什么,两股称为什么,两足称为什么?

31.11

ब्राह्मणो ऽस्य मुखम् आसीद् बाहू राजन्यः कृतः ।
ऊरू तद् अस्य यद् वैश्यः पद्भ्याꣳ शूद्रो ऽ अजायत ॥ ३१.११ ॥

婆罗门成为他的口;刹帝利(王族)由他的双臂所造。吠舍是他的两股;从他的双足生出了首陀罗。

31.12

चन्द्रमा मनसो जातश् चक्षोः सूर्यो ऽ अजायत ।
श्रोत्राद् वायुश् च प्राणश् च मुखाद् अग्निर् अजायत ॥ ३१.१२ ॥

月亮从心智中生出,太阳从眼睛中生出。风和气息从耳朵生出,火从口中生出。

31.13

नाभ्या ऽ आसीद् अन्तरिक्षꣳ शीर्ष्णो द्यौः सम् अवर्तत ।
पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा लोकाꣳऽ अकल्पयन् ॥ ३१.१३ ॥

从肚脐生出了中间的空界,从头生出了天界。从双足生出了大地,从耳生出了方位——如此他们安排了诸世界。

31.14

यत् पुरुषेण हविषा देवा यज्ञम् अतन्वत ।
वसन्तो ऽस्यासीद् आज्यं ग्रीष्म ऽ इध्मः शरद् धविः ॥ ३१.१४ ॥

诸神以原人为祭品举行祭祀时,春为其酥油,夏为其柴薪,秋为其供物。

31.15

सप्तास्यासन् परिधयस् त्रिः सप्त समिधः कृताः ।
देवा यद् यज्ञं तन्वाना ऽ अबध्नन् पुरुषं पशुम् ॥ ३१.१५ ॥

他周围设有七根围薪,备下二十一根柴薪;诸神举行祭祀时,把原人缚作牺牲。

31.16

यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ ३१.१६ ॥

诸神以祭祀行祭祀;那便是最初的法则。他们以威德得到天界,那里住着古老的萨特耶神。

31.17

अद्भ्यः सम्भृतः पृथिव्यै रसाच् च विश्वकर्मणः सम् अवर्तताग्रे ।
तस्य त्वष्टा विदधद् रूपम् एति तन् मर्त्यस्य देवत्वम् आजानम् अग्रे ॥ ३१.१७ ॥

他先从水、大地之精华与造物主中生出。特瓦什特里塑造其形,那最初诞生的凡人便获得了神性。

31.18

वेदाहम् एतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् ।
तम् एव विदित्वाति मृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥ ३१.१८ ॥

我知晓这位伟大的原人,其色如太阳,超越黑暗。唯有知他,方能超越死亡;别无他途。

31.19

प्रजापतिश् चरति गर्भे ऽअन्तर् अजायमानो बहुधा वि जायते ।
तस्य योनिं परि पश्यन्ति धीरास् तस्मिन् ह तस्थुर् भुवनानि विश्वा ॥ ३१.१९ ॥

生主行于胎中,未生而以多种方式降生。智者观见其根源;一切世界皆安住于他之中。

31.20

यो देवेभ्य ऽ आतपति यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥ ३१.२० ॥

为诸神放光者,诸神的祭司,先于诸神而生者——向梵的光辉致敬。

31.21

रुचं ब्राह्म्यं जनयन्तो देवा ऽ अग्रे तद् अब्रुवन् ।
यस् त्वैवं ब्राह्मणो विद्यात् तस्य देवा ऽ असन् वशे ॥ ३१.२१ ॥

诸神在起初生出梵之光辉时如此说:知此之婆罗门,诸神将处于他的掌控之下。

31.22

श्रीश् च ते लक्ष्मीश् च पत्न्याव् अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्ताम् ।
इष्णन्न् इषाणामुं म ऽ इषाण सर्वलोकं म ऽ इषाण ॥ ३१.२२ ॥

吉祥天与拉克什米是你的妻子;昼与夜是你的两侧;星宿是你的形体;双马童已张开。愿你所欲,赐予我——赐予我一切世界。