薄伽梵歌 · 章 12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.1
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
येचाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२.१ ॥
阿周那说:那些如此恒常专注、敬拜你的奉献者,与那些敬拜不灭、未显现者的人——他们之中谁最通晓瑜伽?
12.2
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ १२.२ ॥
薄伽梵说:那些心专注于我、恒常专一、怀着至上信心敬拜我的人,我认为他们是最精于瑜伽者。
12.3
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ १२.३ ॥
但那些敬拜不灭者、不可言说者、未显现者、遍在一切处者、不可思议者、恒常不变者、不动者、坚固者的人——
12.4
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२.४ ॥
他们控制诸根,处处心平等,乐于利益一切众生——他们也同样达到我。
12.5
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२.५ ॥
心执着于未显现者的人,其艰辛更大;因为有身者要达到未显现的归宿,是十分艰难的。
12.6
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२.६ ॥
但那些将一切行动交付于我、以我为至上、以专一的瑜伽冥想我而敬拜我的人——
12.7
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२.७ ॥
普利塔之子啊,对于心专注于我的人,我很快就成为他们的救度者,把他们从死亡与轮回的大海中解救出来。
12.8
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२.८ ॥
把你的心专注于我,把你的智慧安置于我。此后你必将住于我之中,这毫无疑问。
12.9
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२.९ ॥
胜财啊,如果你不能把心稳固地安住于我,那就通过修习瑜伽来寻求到达我。
12.10
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥ १२.१० ॥
如果你连修习也做不到,那就专心为我而工作。即使只是为我而行动,你也将获得圆满。
12.11
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२.११ ॥
如果连这也做不到,那就皈依我的瑜伽,自我克制,舍弃一切行动的果实。
12.12
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२.१२ ॥
知识确实胜于修习,禅定胜于知识,舍弃行动的果实胜于禅定;由舍弃,平静随即到来。
12.13
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२.१३ ॥
不憎恨任何众生,友善而慈悲,无我所之执,无我慢,苦乐平等,宽容忍耐,
12.14
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२.१४ ॥
常常知足,是瑜伽行者,自我调伏,决心坚定,将心意与智慧献给我——这样的我的奉爱者为我所爱。
12.15
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२.१५ ॥
世人不因他而不安,他也不因世人而不安,远离狂喜、忿恚、恐惧与焦躁——这样的人也为我所爱。
12.16
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२.१६ ॥
无所期求,清净,干练,超然中立,远离忧苦,舍弃一切营谋——这样的我的奉爱者为我所爱。
12.17
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२.१७ ॥
不狂喜,不憎恨,不忧伤,不贪求,舍弃善与恶,充满奉爱——这样的人为我所爱。
12.18
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२.१८ ॥
对敌人与朋友平等,对荣誉与耻辱亦然,于冷热苦乐中保持平等,远离执着,
12.19
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२.१९ ॥
毁誉等同,沉默寡言,随遇而安,无固定居所,心志坚定,充满虔敬——这样的人为我所爱。
12.20
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२.२० ॥
而那些怀着信心、以我为至上的虔信者,如所宣说般奉行这合乎正法的甘露,他们为我所格外钟爱。