Vedyatra वेदयात्रा
搜索

奥义书 · Bṛhadāraṇyaka 1.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Bṛhadāraṇyaka 1.3.1

(उद्गीथब्राह्मणम्। वैराजब्राह्मणं वा।)
द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुराः ।
त एषु लोकेष्वस्पर्धन्त ।
ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ १.३.१ ॥

(歌唱(udgītha)梵书,或毗罗遮(Virāj)梵书。)生主(Prajāpati)之裔有两类神与阿修罗。其中神是年幼者,阿修罗是年长者。他们在这些世界中相互竞争。于是诸神说:“来吧,让我们借助歌唱(udgītha)在祭祀中胜过阿修罗。”

Bṛhadāraṇyaka 1.3.2

ते ह वाचमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो वागुदगायत् ।
यो वाचि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं वदति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं वदति ।
स एव स पाप्मा ॥ १.३.२ ॥

他们对言语说:“你为我们唱诵歌唱(udgītha)。”言语说:“就这样吧。”于是为他们唱诵。言语中的享受,它为诸神而唱;言语所说的吉祥之事,它为自己而唱。阿修罗们知道:“借这位歌唱者,他们将超过我们。”于是他们攻击它,以恶来刺穿它。那恶正是说出不合宜之言者——那就是恶。

Bṛhadāraṇyaka 1.3.3

अथ ह प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः प्राण उदगायत् ।
यः प्राणे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं जिघ्रति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति ।
स एव स पाप्मा ॥ १.३.३ ॥

然后他们对气息说:“你为我们唱诵歌唱(udgītha)。”气息说:“就这样吧。”于是为他们唱诵。气息中的享受,它为诸神而唱;它所嗅到的吉祥之事,它为自己而唱。阿修罗们知道:“借这位歌唱者,他们将超过我们。”于是他们攻击它,以恶来刺穿它。那恶正是嗅到不合宜之物者——那就是恶。

Bṛhadāraṇyaka 1.3.4

अथ ह चक्षुरूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यश्चक्षुरुदगायत् ।
यश्चक्षुषि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं पश्यति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति ।
स एव स पाप्मा ॥ १.३.४ ॥

于是眼睛说:"你为我们唱歌(唱优徳伽)。"它说:"好吧。"便为他们唱了优徳伽。眼中之乐,它为诸神而唱;所吉祥者,它为自己而见。他们知道:"借此,我们的唱者将超过我们。"他们冲上去,以恶刺穿了它。看见这不当之物的,正是那恶;那就是恶。

Bṛhadāraṇyaka 1.3.5

अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः श्रोत्रमुदगायत् ।
यः श्रोत्रे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं शृणोति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं शृणोति ।
स एव स पाप्मा ॥ १.३.५ ॥

于是耳朵说:"你为我们唱歌(唱优徳伽)。"它说:"好吧。"便为他们唱了优徳伽。耳中之乐,它为诸神而唱;所吉祥者,它为自己而听。他们知道:"借此,我们的唱者将超过我们。"他们冲上去,以恶刺穿了它。听见这不当之物的,正是那恶;那就是恶。

Bṛhadāraṇyaka 1.3.6

अथ ह मन ऊचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो मन उदगायत् ।
यो मनसि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं संकल्पयति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं संकल्पयति ।
स एव स पाप्मा ।
एवमु खल्वेता देवताः पाप्मभिरुपासृजन् ।
एवमेनाः पाप्मनाविध्यन् ॥ १.३.६ ॥

于是意说:"你为我们唱歌(唱优徳伽)。"它说:"好吧。"便为他们唱了优徳伽。意中之乐,它为诸神而唱;所吉祥者,它为自己而思量。他们知道:"借此,我们的唱者将超过我们。"他们冲上去,以恶刺穿了它。思量这不当之物的,正是那恶;那就是恶。于是他们将这些神祇与恶相连,如此以恶刺穿了它们。

Bṛhadāraṇyaka 1.3.7

अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्य एष प्राण उदगायत् ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविव्यत्सन् ।
स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः ।
ततो देवा अभवन्, परासुरा ।
भवत्यात्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद ॥ १.३.७ ॥

于是他们对口中名为阿산亚(Āsanya)的这一气息说:"你为我们唱歌(唱优徳伽)。"它说:"好吧。"便为他们唱了优徳伽。他们知道:"借此,我们的唱者将超过我们。"他们冲上去,想以恶刺穿它。如土块撞上石头而粉碎,他们也粉碎散落,向四方毁灭。于是诸神兴起,阿修罗被击败。知此者自身即获昌盛;他的敌人被击败,怀恨的对手被毁灭。

Bṛhadāraṇyaka 1.3.8

ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेति ।
अयमास्येऽन्तरिति ।
सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ १.३.८ ॥

他们说:"那位如此不依附于我们的,究竟去了哪里?""他就在口中。"他是安基罗娑家族的阿耶娑,因为他是肢体(aṅga)的精华(rasa)。

Bṛhadāraṇyaka 1.3.9

सा वा एषा देवता दूर्नाम ।
दूरं ह्यस्या मृत्युर् ।
दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ १.३.९ ॥

这位女神名为杜尔(远方)。死亡远离她。对于如此知晓的人,死亡确实远离他。

Bṛhadāraṇyaka 1.3.10

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयां चकार ।
तदासां पाप्मनो विन्यदधात् ।
तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १.३.१० ॥

这位女神驱除了这些神的罪恶(pāpman)和死亡,把它们送到这些方向的尽头。她把那罪恶与它们分开。因此人不应走向人群,也不应走到尽头,以免跟随罪恶与死亡。

Bṛhadāraṇyaka 1.3.11

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ १.३.११ ॥

这位女神驱除了这些神的罪恶(pāpman)和死亡之后,便把他们带到了死亡之外。

Bṛhadāraṇyaka 1.3.12

सा वै वाचमेव प्रथमामत्यवहत् ।
सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ।
सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १.३.१२ ॥

她首先使言语超越了死亡。当她超越死亡而解脱时,她成为了火神阿耆尼。这位越过死亡的阿耆尼在彼岸闪耀。

Bṛhadāraṇyaka 1.3.13

अथ प्राणमत्यवहत् ।
स यदा मृत्युमत्यमुच्यत स वायुरभवत् ।
सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १.३.१३ ॥

然后他使呼吸(prāṇa)超越了死亡。当它超越死亡而解脱时,它成为了风神伐由。这位越过死亡的伐由在彼岸吹拂。

Bṛhadāraṇyaka 1.3.14

अथ चक्षुरत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् ।
सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १.३.१४ ॥

然后他使视觉超越了死亡。当它超越死亡而解脱时,它成为了太阳(Āditya)。这位越过死亡的太阳在彼岸放光发热。

Bṛhadāraṇyaka 1.3.15

अथ श्रोत्रमत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवन् ।
ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १.३.१५ ॥

然后他使听觉超越了死亡。当它超越死亡而解脱时,它成为了诸方。这些越过死亡的方位位于彼岸。

Bṛhadāraṇyaka 1.3.16

अथ मनोऽत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् ।
सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति ।
एवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १.३.१६ ॥

随后,意(心)使(死亡)得以超越。当它从死亡中解脱时,便成为了月亮。那月亮超越死亡而照耀。如此知晓的人,这位神灵便使他超越死亡。

Bṛhadāraṇyaka 1.3.17

अथात्मनेऽन्नाद्यमागायत् ।
यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यते ।
इह प्रतितिष्ठति ॥ १.३.१७ ॥

随后,它为自己歌颂可食之食。凡被食用的食物,都是由它而被食用。它在此安住。

Bṛhadāraṇyaka 1.3.18

ते देवा अब्रुवन् ।
एतावद्वा इदं सर्वं यदन्नम् ।
तदात्मन आगासीः ।
अनु नोऽस्मिन्नन्न आभजस्वेति ।
ते वै माभिसंविशतेति ।
तथेति तं समन्तं परिण्यविशन्त ।
तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्ति ।
एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद ।
य उ हैवंविदं स्वेषु प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवति ।
अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ १.३.१८ ॥

那些神说:“这便是全部的食物,仅此而已;请把你为自己所取的食物分一份给我们。”他们说:“让我们也进入其中。”他说“好吧”,于是他们从四面围绕他而进入。因此,此者所食的任何食物,以此这些(诸根)便得满足。对于如此知晓的人,他的亲属进入他之中;他成为亲属的护持者、最优者、领导者、食物的享用者和主宰。想在亲属中与这样的知者相争的人,连妻子也不足供给;但遵循此道并在此之后渴求妻子的人,连妻子也足够供给。

Bṛhadāraṇyaka 1.3.19

सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ।
प्राणो वा अङ्गानां रसः ।
प्राणो हि वा अङ्गानां रसः ।
तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति ।
एष हि वा अङ्गानां रसः ॥ १.३.१९ ॥

他是安吉罗家族的阿耶斯亚,因为他是肢体的精华。气息确实是肢体的精华。气息,实在是肢体的精华。因此,气息从哪一支肢体离去,那支肢体便枯萎。这确实是肢体的精华。

Bṛhadāraṇyaka 1.3.20

एष उ एव बृहस्पतिः ।
वाग्वै बृहती ।
तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ १.३.२० ॥

此即是布里哈斯帕提。言语确实是“大”(bṛhatī)。此乃其主,故称布里哈斯帕提。

Bṛhadāraṇyaka 1.3.21

एष उ एव ब्रह्मणस्पतिः ।
वाग्वै ब्रह्म ।
तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ १.३.२१ ॥

此即是梵之主(布拉曼纳斯帕提)。言语确实是梵(brahman)。此乃其主,故称布拉曼纳斯帕提。

Bṛhadāraṇyaka 1.3.22

एष उ एव साम ।
वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।
यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव साम ।
अश्नुते साम्नः सायुज्यं सलोकताम् ।
य एवमेतत्साम वेद ॥ १.३.२२ ॥

此即是歌咏(sāman)。言语确实是歌咏,而此(言语)是“sa”与“ama”;这便是歌咏的“sāman性”。因为它等同于熊熊烈火,等同于蚊子,等同于大象;等同于这三界,等同于这一切,所以它确实是歌咏。如此知此歌咏者,得与歌咏合一,并同住于一界。

Bṛhadāraṇyaka 1.3.23

एष उ वा उद्गीथः ।
प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धम् ।
वागेव गीथा ।
उच्च गीथा चेति ।
स उद्गीथः ॥ १.३.२३ ॥

此即是呗(udgītha)。气息(prāṇa)确实是呗,因为凭借向上之气,这一切得以托举。言语确实是歌(gīthā);它也是“高”歌(gīthā)——这就是呗。

Bṛhadāraṇyaka 1.3.24

तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच ।
अयं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।
वाचा च ह्येव स प्राणेन चोदगायदिति ॥ १.३.२४ ॥

于是,Caikitāna之子梵授对正在进食的国王说:

Bṛhadāraṇyaka 1.3.25

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् ।
तस्य वै स्वर एव स्वम् ।
तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत ।
तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् ।
तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव ।
अथो यस्य स्वं भवति ।
भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ १.३.२५ ॥

知晓此娑摩之

Bṛhadāraṇyaka 1.3.26

तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् ।
तस्य वै स्वर एव सुवर्णम् ।
भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ १.३.२६ ॥

知晓此娑摩之

Bṛhadāraṇyaka 1.3.27

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति ।
तस्य वै वागेव प्रतिष्ठा ।
वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते ।
अन्न इत्यु हैक आहुः ॥ १.३.२७ ॥

知晓此娑摩之

Bṛhadāraṇyaka 1.3.28

अथातः पवमानानामेवाभ्यारोहः ।
स वै खलु प्रस्तोता साम प्रस्तौति ।
स यत्र प्रस्तुयात्तदेतानि जपेत् ।
असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति ।
स यदाहासतो मा सद्गमयेति ।
मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
तमसो मा ज्योतिर्गमयेति ।
मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
मृत्योर्मामृतं गमयेति ।
नात्र तिरोहितमिवास्ति ।
अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् ।
तस्मादु तेषु वरं वृणीत ।
यं कामं कामयेत्तम् ।
स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति ।
तद्धैतल्लोकजिदेव ।
न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ १.३.२८ ॥

现在讲净化之歌的升扬。唱诵者(prastotṛ)歌唱娑摩(sāman)。他歌唱时应默诵这些:“引我从非实到实,引我从黑暗到光明,引我从死亡到不死。”他说“引我从非实到实”,实际上是说死亡是非实,不死是实,因此他的意思是:“引我从死亡到不死,使我不死。”他说“引我从黑暗到光明”,实际上是说死亡是黑暗,光明是不死,因此他的意思是:“引我从死亡到不死,使我不死。”这里没有任何隐藏之处。至于其他颂歌,应为自己咏唱食物等事物。因此应从中选择一个恩赐;所希望的任何欲望,就咏唱那个。如此知晓的赞歌者(udgātṛ)为自己或为施主咏唱所欲求的,他便是征服诸界者。实在地,对于如此知晓此娑摩的人,不会有不被看见的忧虑。