Vedyatra वेदयात्रा
搜索

奥义书 · Kaṭha 1.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Kaṭha 1.1.1

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ॥ १.१.१ ॥

唵。婆阇室罗婆斯之子乌商确实将所有财物布施出去。他有一个名叫那吉盖塔的儿子。

Kaṭha 1.1.2

तँ ह कुमारँ सन्तं दक्षिणासु
नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ १.१.२ ॥

当布施之物被牵引前行时,信心进入了那个孩子那吉盖塔之中,他便思索。

Kaṭha 1.1.3

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ १.१.३ ॥

那些已经饮过水、吃过草、产过奶、失去感官的母牛——布施这样的牛的人,便往被称为无乐的那些世界去。

Kaṭha 1.1.4

स होवाच पितरं तत कस्मै मां दास्यसीति ।
द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ १.१.४ ॥

他对父亲说:“父亲,您将把我给谁?”第二次、第三次他也这样问。于是父亲说:“我把你给死神。”

Kaṭha 1.1.5

बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ १.१.५ ॥

在众人之中我先去,在众人之中我居中去。阎摩今天要对我做什么事呢?

Kaṭha 1.1.6

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ १.१.६ ॥

看看前人如何,也看看后人如何。凡人如谷物般成熟,又如谷物般再次生长。

Kaṭha 1.1.7

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ १.१.७ ॥

婆罗门作为客人进入家中,如同火神毗首那罗。为他举行这一安抚之礼。毗婆娑多啊,请取水来。

Kaṭha 1.1.8

आशाप्रतीक्षे संगतँ सूनृतां
चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो
यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ १.१.८ ॥

在一个愚昧之人的家中,若有未曾进食的婆罗门居住,那么他的希望与期待、交往、和悦之言、事业与功德、儿子与牲畜,全都会被毁灭。

Kaṭha 1.1.9

तिस्रो रात्रीर्यदवात्सीर्गृहे मे-
ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु
तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ १.१.९ ॥

婆罗门啊,你在我家作客三夜,未曾进食,因此你值得敬礼。向你致敬,婆罗门;愿我得吉祥。因此,作为补偿,请选择三个恩惠(vara)。

Kaṭha 1.1.10

शान्तसंकल्पः सुमना यथा स्याद्
वीतमन्युर्गौतमो माऽभि मृत्यो ।
त्वत्प्रसृष्टम् माऽभिवदेत्प्रतीत
एतत् त्रयाणां प्रथमं वरं वृणे ॥ १.१.१० ॥

啊,死神,愿我的心志平静,心意欢喜,愿乔达摩无怒;你放我归去后,愿他认出我,不对我发怒。在三个恩惠中,我选择这第一个恩惠。

Kaṭha 1.1.11

यथा पुरस्ताद् भविता प्रतीत
औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुखँ रात्रीः शयिता वीतमन्युः
त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ १.१.११ ॥

如同从前,我放你回去后,乌达拉迦之子阿鲁尼会认出你,夜里安然入睡,不再愤怒,因为他已见你从死亡之口得到解脱。

Kaṭha 1.1.12

स्वर्गे लोके न भयं किंचनास्ति
न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वाऽशनायापिपासे
शोकातिगो मोदते स्वर्गलोके ॥ १.१.१२ ॥

在天界毫无恐惧;在那里你不畏惧,也不畏惧衰老。超越饥渴二者,超脱忧愁,人在天界中欢喜。

Kaṭha 1.1.13

स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो
प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्त
एतद् द्वितीयेन वृणे वरेण ॥ १.१.१३ ॥

死亡啊,你知道那通往天界的火。请告诉我这位有信心的人。天界的居民获得不死性(amṛtatva)。作为第二个恩赐,我选择这个。

Kaṭha 1.1.14

प्र ते ब्रवीमि तदु मे निबोध
स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां
विद्धि त्वमेतं निहितं गुहायाम् ॥ १.१.१४ ॥

那吉开达,我告诉你,请从我这里好好听。认识那通往天界的火,要知道它是通往无尽世界的获得与基础。你要知道这已藏于洞窟之中。

Kaṭha 1.1.15

लोकादिमग्निं तमुवाच तस्मै
या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तं
अथास्य मृत्युः पुनरेवाह तुष्टः ॥ १.१.१५ ॥

死亡向他讲述了那火:需要多少块砖、以怎样的方式摆放。那吉开达照所说的原样复述。于是死亡心满意足,又对他说道。

Kaṭha 1.1.16

तमब्रवीत् प्रीयमाणो महात्मा
वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भविताऽयमग्निः
सृङ्कां चेमामनेकरूपां गृहाण ॥ १.१.१६ ॥

那位大心者心中欢喜,对他说:今天在此,我再赐你一个恩惠。此火将以你的名字而闻名。并请接受这条形态多样的项链。

Kaṭha 1.1.17

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
त्रिकर्मकृत्तरति जन्ममृत्यू ।
ब्रह्मजज्ञं देवमीड्यं विदित्वा
निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १.१.१७ ॥

完成三种那吉刻多祭仪并与三者结合、行三种业者,超越生与死。认识那由梵而生、值得赞颂的神,并完全证悟之后,便得至上的寂静。

Kaṭha 1.1.18

त्रिणाचिकेतस्त्रयमेतद्विदित्वा
य एवं विद्वाँश्चिनुते नाचिकेतम् ।
स मृत्युपाशान् पुरतः प्रणोद्य
शोकातिगो मोदते स्वर्गलोके ॥ १.१.१८ ॥

若有人知此三者,如此明智地筑起那吉刻多火坛,便能推开面前死亡的羂索,超越忧愁,在天界中欢喜。

Kaṭha 1.1.19

एष तेऽग्निर्नचिकेतः स्वर्ग्यो
यमवृणीथा द्वितीयेन वरेण ।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासः
तृतीयं वरं नचिकेतो वृणीष्व ॥ १.१.१९ ॥

那吉刻多,这能导向天界的火,是你所选的第二个恩赐,它属于你。人们甚至会以你的名字来宣称这火。那吉刻多,请选择第三个恩赐。

Kaṭha 1.1.20

येयं प्रेते विचिकित्सा मनुष्ये-
ऽस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाऽहं
वराणामेष वरस्तृतीयः ॥ १.१.२० ॥

关于人死后的存在,存在这样的疑惑:有人说“他存在”,有人说“他不存在”。愿你就此知识教导我。这就是诸恩赐中的第三个。

Kaṭha 1.1.21

देवैरत्रापि विचिकित्सितं पुरा
न हि सुविज्ञेयमणुरेष धर्मः ।
अन्यं वरं नचिकेतो वृणीष्व
मा मोपरोत्सीरति मा सृजैनम् ॥ १.१.२१ ॥

即便诸神过去也对此有所疑惑,因为此法精微,不易明了。那吉刻塔,请另选一个恩赐;不要逼迫我,放了他吧。

Kaṭha 1.1.22

देवैरत्रापि विचिकित्सितं किल
त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
वक्ता चास्य त्वादृगन्यो न लभ्यो
नान्यो वरस्तुल्य एतस्य कश्चित् ॥ १.१.२२ ॥

诸神确实对此有所疑惑,而你,死神,也说过此事不易明了。像你这样宣讲此法的人再也找不到,也没有任何恩赐能与此相比。

Kaṭha 1.1.23

शतायुषः पुत्रपौत्रान्वृणीष्वा
बहून्पशून् हस्तिहिरण्यमश्वान् ।
भूमेर्महदायतनं वृणीष्व
स्वयं च जीव शरदो यावदिच्छसि ॥ १.१.२३ ॥

请选择百岁寿命、子孙和曾孙;请选择众多牲畜、象、黄金和马匹。请选择大地上的广阔领地,并让你自己活到你所愿的年岁。

Kaṭha 1.1.24

एतत्तुल्यं यदि मन्यसे वरं
वृणीष्व वित्तं चिरजीविकां च ।
महाभूमौ नचिकेतस्त्वमेधि
कामानां त्वा कामभाजं करोमि ॥ १.१.२४ ॥

如果你认为有什么恩赐能与此相等,那就请选择财富和长寿。那吉刻塔,请你在这广大的大地上安立;我将使你成为享受一切欲望的人。

Kaṭha 1.1.25

ये ये कामा दुर्लभा मर्त्यलोके
सर्वान् कामाँश्छन्दतः प्रार्थयस्व ।
इमा रामाः सरथाः सतूर्या
न हीदृशा लम्भनीया मनुष्यैः ।
आभिर्मत्प्रत्ताभिः परिचारयस्व
नचिकेतो मरणं माऽनुप्राक्षीः ॥ १.१.२५ ॥

在凡世中难以获得的一切欲望,你可随意求取。这些女子、车乘与乐器——这样的享受人难以获得。让我所赐予的这些人侍奉你吧。那吉刻塔,不要问关于死亡的事。

Kaṭha 1.1.26

श्वोभावा मर्त्यस्य यदन्तकैतत्
सर्वेंद्रियाणां जरयंति तेजः ।
अपि सर्वं जीवितमल्पमेव
तवैव वाहास्तव नृत्यगीते ॥ १.१.२६ ॥

啊,终结者,凡人的这些享乐只持续到明天,并且消耗所有感官的活力。即便整个生命也确实短暂。愿车乘、舞蹈与歌唱仍只属于你。

Kaṭha 1.1.27

न वित्तेन तर्पणीयो मनुष्यो
लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
जीविष्यामो यावदीशिष्यसि त्वं
वरस्तु मे वरणीयः स एव ॥ १.१.२७ ॥

人不会因财富而满足。既然我们见到了你,我们必定能获得财富;只要你统治,我们便能生存。然而我所应选择的恩赐,正是这一点。

Kaṭha 1.1.28

अजीर्यताममृतानामुपेत्य
जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।
अभिध्यायन् वर्णरतिप्रमोदान्
अतिदीर्घे जीविते को रमेत ॥ १.१.२८ ॥

既已接近不老的不死者,那居于下界、知晓此理却沉思美色与欢愉的凡人,谁会在极长的寿命中感到喜乐呢?

Kaṭha 1.1.29

यस्मिन्निदं विचिकित्सन्ति मृत्यो
यत्साम्पराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो
नान्यं तस्मान्नचिकेता वृणीते ॥ १.१.२९ ॥

关于此事人们存有疑惑,哦死神,请告诉我们死后状态的那个伟大之事。这隐藏而深入的恩赐,纳奇刻塔不选择其他。