奥义书 · Bṛhadāraṇyaka 4.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Bṛhadāraṇyaka 4.4.1
(शारीरकब्राह्मणम्)
स यत्रायमात्माबल्यं न्येत्य संमोहमिव न्येति ।
अथैनमेते प्राणा अभिसमायन्ति ।
स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति ।
स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते ।
अथारूपज्ञो भवति ॥ ४.४.१ ॥
当这个ātman陷入衰弱,仿佛陷入昏迷时,诸prāṇa便聚集在他周围。他取来这些光的微粒,退入心中。当眼中的这个人转身离去时,他便无法辨识形色。
Bṛhadāraṇyaka 4.4.2
एकीभवति न पश्यतीत्याहुः ।
एकीभवति न जिघ्रतीत्याहुः ।
एकीभवति न रसयतीत्याहुः ।
एकीभवति न वदतीत्याहुः ।
एकीभवति न शृणोतीत्याहुः ।
एकीभवति न मनुत इत्याहुः ।
एकीभवति न स्पृशतीत्याहुः ।
एकीभवति न विजानातीत्याहुः ।
तस्य हैतस्य हृदयस्याग्रं प्रद्योतते ।
तेन प्रद्योतेनैष आत्मा निष्क्रामति ।
चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः ।
तमुत्क्रामन्तं प्राणोऽनूत्क्रामति ।
प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ।
सविज्ञनो भवति ।
संजानमेवान्ववक्रामति ।
तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ ४.४.२ ॥
人们说他合而为一,不见;合而为一,不嗅;合而为一,不尝;合而为一,不言;合而为一,不闻;合而为一,不思;合而为一,不触;合而为一,不知。这颗心的尖端发出光明。借着这光,此ātman从眼中,或从头顶,或从身体其他部位离去。他离去时,prāṇa随之而出;随prāṇa,诸prāṇa都随之而出。他具有觉知;带着觉知而去。知识、业行与前世的智慧伴随着他。
Bṛhadāraṇyaka 4.4.3
तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ।
एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ॥ ४.४.३ ॥
就像毛虫到了草叶的尽头,便踏上另一处,把自己收缩起来,这个ātman也是如此:舍弃此身,使无明得以度过,踏上另一处,把自己收缩起来。
Bṛhadāraṇyaka 4.4.4
तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुते ।
एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते ।
पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ४.४.४ ॥
就像金匠取一块金子,从中打造出另一种更新、更美的形状,这个ātman也是如此:舍弃此身,使无明得以度过,便造出另一种更新、更美的形体——或为祖灵之形,或为乾闼婆之形,或为诸神之形,或为生主之形,或为梵天之形,或为其他众生之形。
Bṛhadāraṇyaka 4.4.5
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः ।
तद्यदेतदिदंमयोऽदोमय इति ।
यथाकारी यथाचारी तथा भवति ।
साधुकारी साधुर्भवति ।
पापकारी पापो भवति ।
पुण्यः पुण्येन कर्मणा पापः पापेन ।
अथो खल्वाहुः ।
काममय एवायं पुरुष इति ।
स यथाकामो भवति तत्क्रतुर्भवति ।
यत्क्रतुर्भवति तत्कर्म कुरुते ।
यत्कर्म कुरुते तदभिसंपद्यते ॥ ४.४.५ ॥
此我即梵,由识所成,由意所成,由气所成,由眼所成,由耳所成,由地所成,由水所成,由风所成,由空所成,由火所成,由非火所成;由欲所成,由非欲所成,由怒所成,由非怒所成,由法所成,由非法所成,由一切所成。它亦是'由此所成'与'由彼所成'。如其所行,如其所为,人便成为怎样的人。行善者成为善人,作恶者成为恶人。以善业成为有德,以恶业成为有罪。人们还说:此人确实由欲所成。其欲如何,其志即如何;其志如何,其所作之业即如何;所作何业,便得何果。
Bṛhadāraṇyaka 4.4.6
तदेष श्लोको भवति
तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य ।
प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे ।
इति नु कामयमानः ।
अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ।
ब्रह्मैव सन् ब्रह्माप्येति ॥ ४.४.६ ॥
关于此,有一颂曰:心所专注之处,系于业者,细身便随其业而去。到达此业之尽头后,凡其在此所作,便从彼世界再回到此世界为了业。如此,有欲者便如此去。然而无欲者——无欲、离欲、欲望已满足、以我为欲的人——他的诸气不离去;他既是梵,便证得梵。
Bṛhadāraṇyaka 4.4.7
तदेष श्लोको भवति
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ।
तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत ।
एवमेवेदं शरीरं शेते ।
अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव ।
सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ४.४.७ ॥
关于此,有一颂曰:当住于其心中的一切欲望皆被解脱之时,有死者便成为不死者,并在此处证得梵。如蛇之脱皮,死而被弃,卧于蚁垤之上,此身亦如此卧着。然而这无身的、不死的气,实即梵,实即光明。毗提诃的遮那迦说:“我要给这位尊者一千头牛。”
Bṛhadāraṇyaka 4.4.8
तदेते श्लोका भवन्ति
अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव ।
तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ ४.४.८ ॥
关于此,有如下数颂:此道精微、广远而古老。它触及了我,而我也找到了它。凭借它,坚定的梵之知者,从此处向上得解脱,往天界而去。
Bṛhadāraṇyaka 4.4.9
तस्मिञ्शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च ।
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ४.४.९ ॥
据说其中有白、黛、黄、绿、赤诸色。此道确由梵所寻得;知梵者、行善者与光明者由此而行。
Bṛhadāraṇyaka 4.4.10
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ४.४.१० ॥
崇拜无明者入于盲暗;唯喜爱明智者,则如同入于更深的黑暗。
Bṛhadāraṇyaka 4.4.11
अनन्दा नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छत्यविद्वांसोऽबुधा जनाः ॥ ४.४.११ ॥
那些名为无乐的世界被盲暗所覆盖;无知、愚昧之人死后便前往那里。
Bṛhadāraṇyaka 4.4.12
आत्मानं चेद्विजानीयादयमस्मीति पुरुषः ।
किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ॥ ४.४.१२ ॥
若人知晓自我,说“我即是此”,他将希求什么?又为了谁的欲望而为身体忧伤呢?
Bṛhadāraṇyaka 4.4.13
यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन् संदेह्ये गहने प्रविष्टः ।
स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ ४.४.१३ ॥
凡已觉悟到自我(ātman)、并进入这幽深难测之处的人,他便是创造世界者,是一切的作者;那世界是他的,那便是世界本身。
Bṛhadāraṇyaka 4.4.14
इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः ।
ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ ४.४.१४ ॥
我们在此世就能认识它;若不认识,便会遭遇大毁灭。认识它的人成为不死者,其余的人则只得痛苦。
Bṛhadāraṇyaka 4.4.15
यदैतमनुपश्यत्यत्मानं देवमङ्जसा ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ ४.४.१५ ॥
当人清楚地看见这自我(ātman),那光明的神,过去与未来的主宰,他便不再想要躲避它。
Bṛhadāraṇyaka 4.4.16
यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते ।
तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ ४.४.१६ ॥
年在此间借由日子而运转,诸神便敬奉那个作为,视之为光中之光、不死的寿命。
Bṛhadāraṇyaka 4.4.17
यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ ४.४.१७ ॥
五组众生与虚空所依止之处,我便认为那就是自我(ātman)。智者知晓此理,便在梵(brahman)中成为不死者,真正的不死。
Bṛhadāraṇyaka 4.4.18
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः ।
ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ ४.४.१८ ॥
知晓气息之气息、眼之眼、耳之耳、意之意的人,便已领悟了那古老而至上的梵(brahman)。
Bṛhadāraṇyaka 4.4.19
मनसैवानुद्रष्टव्यं नेह नानास्ति किं चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ ४.४.१९ ॥
应当只以心意去观照它;此处并无任何差别。若在此见到似乎是多样的,他便从死亡走向死亡。
Bṛhadāraṇyaka 4.4.20
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् ।
विरजः पर आकाशादज आत्मा महान् ध्रुवः ॥ ४.४.२० ॥
应当只以一种方式去观照它:它不可度量,恒常不变。超越虚空之上,是无垢、不生、广大而恒常的自我(ātman)。
Bṛhadāraṇyaka 4.4.21
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनं हि तदिति ॥ ४.४.२१ ॥
唯有认识他的坚定者应培养般若(智慧)。婆罗门不应思索众多的言辞,那只是言语的疲惫。
Bṛhadāraṇyaka 4.4.22
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु ।
य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ।
सर्वस्य वशी ।
सर्वस्येशानः ।
सर्वस्याधिपतिः ।
स न साधुना कर्मणा भूयान् ।
नो एवासाधुना कनीयान् ।
एष सर्वेश्वरः ।
एष भूताधिपतिः ।
एष भूतपालः ।
एष सेतुर्विधरण एषां लोकानामसंभेदाय ।
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ।
एतमेव विदित्वा मुनिर्भवति ।
एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ॥ ४.४.२२ ॥
这是伟大的不生的 ātman,由识所成,居于诸气息之中。心中之空间,他在其中安住。他是一切的主宰、一切的主、一切的君主。他不因善行而增长,也不因恶行而减少。他是一切的主宰,众生的统治者,众生的守护者。他是使这些世界不相混杂的桥梁与支柱。婆罗门以诵读吠陀、祭祀、布施、苦行与斋戒来希望认识他。唯独认识他者成为牟尼;渴望此世界的遁世者便出行。
Bṛhadāraṇyaka 4.4.23
तदेतदृचाभ्युक्तम्
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् ।
तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति ।
तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति ।
सर्वमात्मानं पश्यति ।
नैनं पाप्मा तरति ।
सर्वं पाप्मानं तरति ।
नैनं पाप्मा तपति ।
सर्वं पाप्मानं तपति ।
विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति ।
एष ब्रह्मलोकः सम्राट् ।
एनं प्रापितोऽसीति होवाच याज्ञवल्क्यः ।
सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥ ४.४.२३ ॥
关于此,有一颂说:婆罗门的这种永恒的伟大,不因行为而增长,也不减少。知晓其路径之知识者,不为恶行所染。因此,如此知晓者,寂静、自制、远离、忍耐、专注,在自我中见自我。他于一切中见自我。恶不能超越他,他超越一切恶。恶不能烧他,他烧尽一切恶。离于恶、离于欲、离于疑,他便成为婆罗门。这就是梵界,大王。耶若瓦尔基耶说:“你已被引至此处。”我把毗提诃人献给这位尊者,连同我自己作为仆人一并奉上。
Bṛhadāraṇyaka 4.4.24
स वा एष महानज आत्मान्नादो वसुदानः ।
विन्दते वसु य एवं वेद ॥ ४.४.२४ ॥
这是伟大的不生的 ātman,食物的享用者,财富的赐予者。如此知晓他的人便获得财富。
Bṛhadāraṇyaka 4.4.25
स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म ।
अभयं वै ब्रह्म ।
अभयं हि वै ब्रह्म भवति य एवं वेद ॥ ४.४.२५ ॥
此伟大不生的我(ātman),无老、不死、不灭、无畏,即是梵(brahman)。梵确实是无畏。如此知之者,确实成为无畏的梵。